शिशुजननात्षष्ठ्यां सप्तम्यां वा रात्रौ रक्षार्थं षष्ठ्यादिदेवतापूजनं स्मृतावभिहितम् ॥ तथा हि प्र॰ पारिजाते मार्कण्डेयः –
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यं जन्मदानां तथा बलिः
इति । नारदोऽपि -
जननात्सप्तमे चाह्नि मृत्युरायाति चान्तकः ।
तद्दिने चैव रक्षेयं कर्तव्यायुर्विवृद्धये ॥
सायाह्ने पूज्य विघ्नेशमपूपैश्च पृथग्विधैः
इति ।
विघ्नेशो जन्मदा षष्ठीदेवी जीवन्तिका तथा ।
प्रदोषे पूजनीयाश्च गन्धपुष्पादिदानतः
इति सं॰ रत्नमालायाम् ॥ शिशुजननात्षष्ठे सप्तमे वाह्नि यथाचारं रात्रेः प्रथमयामे पित्रादिः शुचिराचम्य देशकालौ सङ्कीर्त्य
अस्य शिशोः समातृकस्य समस्तमृत्युपीडानिवृत्तिद्वारा आयुरारोग्यप्राप्त्यर्थं षष्ठीपूजां करिष्ये
इति सङ्कल्प्याक्षतपुञ्जेषु विघ्नेशं, जन्मदाः, जीवन्तिकाञ्च नाममन्त्रेणावाह्य
आयाहि वरदे देवि महादेवीति विश्रुते ।
शक्तिभिः सह बालं मे रक्ष जागरवासरे
इति षष्ठीदेवीमावाह्य तत्तन्नाममन्त्रैर्विघ्नेशादीन्
शक्तिस्त्वं सर्वदेवानां लोकानां हितकारिणी ।
मातर्बालमिमं रक्ष महाषष्ठि नमोस्तु ते
इति मन्त्रेण षष्ठीदेवीं च षोडशोपचारैरभ्यर्च्य अपूपादिकं निवेद्य प्रणम्य प्रार्थयेत् –
लम्बोदर महाभाग सर्वोपद्रवनाशन ।
त्वत्प्रसादादविघ्नेश चिरं जीवतु बालकः ।
वरदाः सायुधा यूयं जन्मदा इति विश्रुताः ।
शक्तिभिः सह बालं मे रक्षतात्राह्नि जागरे ॥
जननी सर्वभूतानां बालानाञ्च विशेषतः ।
नारायणीस्वरुपेण बालं मे रक्ष सर्वदा ॥
भूतप्रेतपिशाचेभ्यो डाकिनीयोगिनीषु च ।
मातेव रक्ष बालं मे श्वापदे पन्नगेषु च ॥
गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा ।
तथा ममाप्ययं बालः षष्ठिके रक्ष्यतां नमः
इति ॥ ततो विप्रेभ्यस्ताम्बूलदक्षिणादि दत्वा तेभ्यश्चाशिषो गृह्णीयात् ॥