२० जातकर्म

॥ अथ जातकर्म ॥ (प्रहुतः) (बो. गृ. सू. ११. ५)

अथयद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलं चोत" ॥

(बो. गृ. सू. २. १)

अथ प्रहुतः । जातं कुमारमभिमन्त्रयते - ‘अद्भ्यः सम्भूतः’ इत्येतेनानुवाकेन । अथैनं स्नापयति -‘क्षेत्रियै त्वा निर्ऋत्यै त्वा’ इति षड्भिरनुच्छंदसम् । अथैनं स्वोपस्थ आदधाति- ‘अङ्गादङ्गात्संभवसि॰ शतम्’ इति । अथैनं मूर्ध्न्यभिजिघ्रति-‘अश्मा भव॰ जिम्राम्यसौ’ इति नक्षत्रनामधेयेन । अथास्य दक्षिणे कर्णे जपति - ‘अग्निरायुष्मान्’ इति पञ्चभिः पर्यायैः । अथैनं दधिमधुघृतमिति समुदायुत्य हिरण्येन प्राशयति - ‘प्राणो रक्षति विश्वमेजत्’ इत्येतेनानुवाकेन प्रत्यृचम् । अतिशिष्टं गोपदे निनयति व्याहृतीभिः । अथैनं मातुरुपस्थ आदधाति –

सीद त्वं मातुरस्या उपस्थे

इति चतसृभिः सहँसाभिः । स्तनमभिमन्त्रयते -

यस्ते स्तनः॰ धातवेकः

इति ॥ धयन्तमनुमन्त्रयते - ‘द्यौस्ते॰ पश्चात्’ इति ॥ अथास्योदकुम्भमुच्छिरसि निदधाति -

आपः सुप्तेषु जाग्रत रक्षाँसि निरितो नुध्वम्

इति ॥ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति –

हरिँ हरन्तमनुयन्ति देवाः

इति पुरोनुवाक्यामनूच्य

मा च्छिदो मृत्यो मा वधीः

इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति - ‘सद्यश्चकमानाय’ इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अथानोयुगं रथयुगं वा स्नाप्याच्छाद्यालङ्कृत्य अग्रेणाग्निमुदृत्य तस्याग्रेणाश्वत्थपर्णेषु हुतशेषं निदधाति -‘नम आव्याधिनीभ्यः’ इति ॥ अथास्तमित आदित्ये गौरसर्षपान् फलीकरणमिश्रान् अञ्जलिना जुहोति -

कृणुष्व पाजः प्रसितिं न पृथ्वीम्

इत्येतेनानुवाकेन प्रत्यृचम् । अथौदनं तिलसक्तुभिर्घृतेनेति समुदायुत्य गोष्ठेऽश्वत्थपर्णेषु हुतशेषं निदधाति -

अघोराय महाघोराय नेजमेषाय नमो नमः

इति । अथातिशिष्टं सर्वा दिशः संप्रकिरन्ति -

आवेशनी ह्यश्रुमुखी कुतूहली हस्तिनी जृम्भिणी स्तंभिनी मोहिनी च । कृष्णा विशाखा रिमलब्रह्मरात्री भ्रातृव्यसङ्घेषु पतन्त्यमोघाः । ताभ्यो वै मातृभ्यो नमो नमः

इति । स एवमेव फलीकरणहोमप्रभृति सायंप्रातर्दशरात्रं करोति । नानुत्थितायां सूतिकायां भोज्यान्नता। दशम्यामुत्थानम् ॥

( बो. गृ. प. सू. १. ११)

सा यदि पुत्रप्रसूर्भवति प्रसिद्धमौपासने जातकर्म कृत्वाऽन्यत्र फलीकरणहोमं जुहोति स सूतकाग्निर्भवति । तं दशाहं धारयति । अथ नवम्यां व्युष्टायां सूतकाग्नावाज्यं विलाप्योत्पूय युगमुत्थापयति - ‘ब्रह्म जज्ञानम्’ इति । अथोदकुम्भमुत्थापयति - ‘भूर्भुवः सुवरोम्’ इति । अथैनमप्सु विसर्जयति - ‘समुद्रं वः॰ चिमत्पयः’ इति ॥ अथैतेनैव यथेतमेत्य सूतकाग्निमुपतिष्ठते -

बोधा नो अस्य॰ वन्दे अग्ने

इति । अथ पुत्रप्रसूमुपतिपतिष्ठते - ‘स बोधि॰ द्वेषाँसि’ इति । अथ कुमारमुत्थापयति -

उत्तिष्ठ ब्रह्मणस्पते॰ सचा

इति ॥ अथैनमादायोपनिष्क्रम्यादित्यमुदीक्षयति -

उद्वयं तमसस्परि, उदु त्यं, चित्रं, तद्विष्णोः परमं पदं

इति चतसृभिः । अथैतेनैव यथेतमेत्य कुमारं मातृहस्ते दत्वा सूतकाग्नावाज्यस्य जुहोति - ‘हिरण्यगर्भः समवर्तताग्रे’ इत्यान्तादनुवाकस्य प्रत्यृचम् । उत्सृजति सूतकाग्निम् ।

आयुर्दा अग्ने हविषो जुषाणः

इत्यरण्योर्वा समारोपयति । तमुपनयने मन्थति । अयौपासनमुपतिष्ठते -

अग्न आयूँषि पवसे, अग्ने पवस्व स्वपाः

इति द्वाभ्याम् । ज्योतिष्मत्या पुत्रस्य नाम गृह्णाति - ‘अन्नादमेवैनं करोति’ इति ब्राह्मणम् । अथैनं मूर्ध्न्यवघ्रायाभिमन्त्रयते –‘अग्निरायुष्मान्’ इति पञ्चभिः पर्यायैः । प्रवासादेत्यागतं वा पुत्रमेतैरेवाभिमन्त्रयते । प्रसिद्ध दशम्यामुत्थानम् ॥

मनुः -

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते

इति ॥ एतेन विवरणेन शिशोर्नालच्छेदनात्पूर्वं जातकर्मणो मुख्यः काल इत्यवगम्यते । न च तदानीं पितुराशौचशंकया कर्मानधिकारः इति वाच्यम् ।

यावन्न च्छिद्यते नाळो तावन्नाप्नोति सूतकम्

इति पराशरीयजैमिनिवचनेन नाळच्छेदनात् प्रागाशौचस्यासम्भवात् । एतच्च सूतकान्तरमध्येपि कार्यम् ॥

सूतके तु समुत्पन्ने पुत्र जन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः

इति प्र॰ पारिजाते सूतकान्तरस्यापि तत्कालशुद्धिविधानात् । ततः सचैल स्नानं विहितं तत्रैव -

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते

इति । तच्च रात्रावपि कार्यम् -

पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशि

इति ॥ तत्रैव जाबालिवसिष्ठोक्तेः ॥ जातकर्मणि हेम्नैव नान्दीश्राद्धं कार्यम् -

पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान्

इति हेमाद्रौ संवर्तकोक्तेः । मुख्यकालातिपत्तौ सूतकान्ते कार्यमित्याह जाबालिः -

दैवादतीतकालं चेदतीते सूतके भवेत्

इति ॥

जातकर्मप्रयोगः

अथ जातकर्मप्रयोगः ॥ पिता जातमात्रस्य पुत्रस्य मुखमवलोक्य नालच्छेदात्पूर्वं नद्यादौ सचैलं स्नात्वाहतं वासः परिधाय तदानीमेव हिरण्येन नान्दीसमाराधनं कृत्वा “मृत्युः प्रीयताम्" इति पुण्याहं वाचयित्वाचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम कुमारकस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्माख्यं कर्म करिष्ये

इति संकल्प्य कुमारमभिमंत्रयते -

अद्भ्यः सम्भूतः पृथिव्यै रसाच्च

इत्येतेनानुवाकेन । अथैनं स्नापयति

क्षेत्रियै त्व निर्ऋत्यै त्वा

इति षड्भिरनुच्छन्दसम् ॥ अथैनं स्वीत्सङ्गे आदधाति -

अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् [[TODO: परिष्कार्यम्]]

इति । अथैनं मूर्धन्यभिजिघ्रति -

अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । पशूनां त्वा हिङ्कारेण ब्रह्मणाभिजिघ्राम्यसौ [[TODO: परिष्कार्यम्]]

इति ॥ अत्र ‘असौ’ स्थाने सम्बुध्यन्तं तत्तन्नक्षत्रनामधेयं नियोजयेत् ॥ यथा

अश्वयुक्, आश्वयुजेति वा । अपभरण, आपभरणेति वा । कृत्तिक, कार्तिकेति वा । रौहिण । मार्गशीर्ष । आर्द्रक । पुनर्वसो । तिष्य । आश्रेष । माघ । पूर्वाफल्गुन । उत्तराफल्गुन । हस्त । चैत्र । स्वाते । विशाख । अनुराध । ज्येष्ठ । मूलक । पूर्वाषाढ । उत्तराषाढ । श्रावण श्रवणेति वा । श्रविष्ठ । शातभिषज, शतभिषगिति वा । पूर्वाप्रोष्ठपाद । उत्तराप्रोष्ठपाद । रैवत

इति । अथास्य दक्षिणकर्णे जपति -“अग्निरायुष्मान्" इति पञ्चभिः पर्यायैः ॥ (“आयुष्टे1 विश्वता दधत्” इत्युत्तरे कर्णे जपित्वा,) अथैनं दधि मधु घृतमिति समुदायुत्य हिरण्येन प्राशयति - “प्राणो2 रक्षति विश्वमेजत्" इति दशर्चेनानुवाकेन, प्रत्यृचं प्राशयित्वातिशिष्टं गोपदे निनयति व्याहृताभिः ॥

अथैनं मातुरुपस्थ आदधाति -

सीद त्वं मातुरस्या उपस्थे, अन्तरग्ने, शिवो भूत्वा, हँसः शुचिषत्

इति चतसृभिः ॥ अथ स्तनमभिमंत्रयते –

यस्ते स्तनः शशयो यो मयोभूः

इति ॥ धयन्तमनुमंत्रयते - “द्यौस्ते पृष्ठँ रक्षतु" इति ॥ अथास्योदकुम्भमुच्छिरसि निदधाति -

आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाँ॑सि॒ निरि॒तो नु॑दध्वम्

इति ॥

अथ देवयजनोल्लेखनादिगृह्याग्निं प्रतिष्ठाप्यान्वादध्यात् ।

तत्र प्रबलो नामाग्निः मृत्युर्देवता, चरुर्हविः,

इति विशेषः ॥ अथाग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

हरिँ हरन्तमनुयन्ति॰ विक्रमस्वों ३ माच्छिंदो मृत्यो॰ विधेम स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (मृत्यव इदं॰) ॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

सद्यश्चकमानाय, कामेन मे, परं मृत्यो, प्रपूर्व्यं मनसा

इति चतसृभिः ॥ सर्वत्र, (मृत्यव इदं॰) ॥ ततः स्विष्टकृदादिप्रागुत्तरपरिषेकात्कृत्वा, अनोयुगं रथयुगं वा संस्नाप्याच्छाद्यालंकृत्याग्रेणाग्निमुध्दृत्य तस्याग्रेणाश्वत्थपर्णेषु हुतशेषं निदधाति -

नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमः॑

इति ॥ अथोत्तरपरिषेकादिशेषं समापयेत् ॥ अत्र यथाशक्ति गोभूतिलहिरण्यादिकमन्नवर्जितं दद्यात्॥ अथ फलीकरणहोमः ॥ अथास्तमित आदित्ये सूतिकागृहे स्थण्डिलं कृत्वा लौकिकाग्निं प्रतिष्ठाप्य

फलीकरणहोमं करिष्ये, तत्र रक्षोहाग्निर्दवता, गौरसषपफलीकरणमिश्रं द्रव्यम्, सद्यो यक्ष्ये

इति सङ्कल्प्याग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य फलीकरणमिश्रान् गौरसर्षपानुत्तरतः संसाद्य प्रोक्ष्याभिद्योत्य त्रिः पर्यग्नि कृत्वा दक्षिणतः प्रतिष्ठाप्य प्रदक्षिणमग्निं परिषिच्याभ्यर्च्य समिधमग्नावभ्याधाय गौरसर्षपान् फलीकरणमिश्रानञ्जलिना जुहोति - “कृणुष्व पाजः प्रसितिम्" इत्येतेनानुवाकेन प्रत्यृचम् ॥ सर्वत्र, (अग्नये रक्षोघ्न इदं॰) ॥ अथोत्तरपरिषेकादिशेषं समाप्यौदनं तिलसक्तुभिर्घृतेन च समुदायुत्य गोष्ठेऽश्वत्थपर्णेषु बलिमुपहरति -

अ॒घोरा॑य म॒हाघोरा॑य॒ नैज॑मेषाय॒ नमो॒ नमः॑

इति ॥ अथातिशिष्टं सर्वा दिशः सम्प्रकिरति -

आवेशनी ह्यश्रुमुखी कुतूहली हस्तिनी जृम्भिणी स्तम्भिनी मोहिनी च । कृष्णा विशाखा रिमलब्रह्मरात्री भ्रातृव्यसङ्घेषु पतन्त्यमोघाः । ताभ्यो वै मातृभ्यो नमो नमः [[TODO: परिष्कार्यम्]]

इति स एवमेव फलीकरणहोमप्रभृति सायंप्रातर्दशरात्रं करोति ॥ सायमुपक्रमः प्रातरपवर्गः । दशरात्रमिमं सूतकाग्निं रक्षेत् ॥ दशमेऽह्नि प्रातः फलीकरणहोमं बलिं च कृत्वा सूतकाग्नावाज्यं विलाप्योत्पूय स्रुक्स्रुवं सम्मृज्यौपासनाग्नेः पुरस्तादुच्छ्रितं युगमुत्थापयति-“ब्रह्म जज्ञानम्” इति ॥ उदकुम्भं च “भूर्भुवस्सुवरोम्” इत्युत्थाप्य “समुद्र कः प्रहिणोमि” इति ता अपोऽप्सु विसृजति ॥ अथैतेनैव यथेतमेत्य सूतकााग्निमुपतिष्ठते -

बोधानो अस्य वचसो यविष्ठ मँहिष्ठस्य प्रभृतस्य स्वधा वः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं चन्दे अग्ने [[TODO: परिष्कार्यम्]]

इति ॥ अथ पुत्रप्रसूतिमुपतिष्ठते -

सबोधि सूरिर्मघवा वसुदावा वसुपतिः । युयोध्यस्मद्द्वेषाँसि [[TODO: परिष्कार्यम्]]

इति ॥ कुमारमुत्थापयति -

उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे ॥ उपप्रयन्तु मरुतः सुदानवः । इन्द्र प्राशूर्भवा सचा [[TODO: परिष्कार्यम्]]

इति ॥ कुमारमादायोपनिष्क्रम्यादित्यमुदीक्षयति -

उद्वयं तमसस्परि, उदु त्यम्, चित्रं देवानाम्, तद्विष्णोः परमं पदम्

इति चतसृभिः ॥ मातृहस्ते शिशुं दत्वा सूतकाग्निं परिषिच्याज्याहुतीर्जुहोति -

हिरण्यगर्भः, यः प्राणतः, य आत्मदा, यस्येमे, यं क्रन्दसी, येन द्यौरुग्रा, आपो ह, यश्चिदापः

इत्यष्टाभिः प्रत्यृचम् ॥ सर्वत्र, (ब्रह्मण इदं॰) ॥ अथ सूतकाग्निमुत्सृजति –

आयुर्दा अग्ने हविषो जुषाणः

इति ॥ (अरण्योर्वा समारोपयते3, तमुपनयने मन्थति॥) अथौपासनाग्निमुपतिष्ठते -

अग्न आयूँषि पवसे, अग्ने पवस्व स्वपाः

इति द्वाभ्याम् ॥

अग्ने॑ गृहपते॰ आशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम्

इति ॥ ‘अमुष्मै’ स्थाने पुत्रस्य नक्षत्रनाम चतुर्थ्यन्तं गृह्णन्नाशास्ते ॥ अथैनम् “अश्मा भव" इति मूर्धन्यवघ्रायाभिमंत्रयते-“अग्निरायुष्मान्” इति पञ्चभिः पर्यायैः ॥ प्रवासादेत्यागतं वा पुत्रमेतैरेवाभिमंत्रयते॥ ॥ इति जातकर्मप्रयोगः ॥


  1. अनेन मंत्रेणोत्तरकर्णजपं प्रयुनक्ति विष्णुभट्टः ॥ ↩︎

  2. “प्राणो यो मनसश्चानो जुषताम्मे ययेति च ।
    चक्षुरायुश्च श्रोत्रेण येन प्राच्या तथा दश”

    इति मंत्रादिप्रदर्शकः श्लोकः ॥ ↩︎

  3. अयं प्रजारणिपरिग्रहः स्मृतौ कलिनिषिद्धेषु परिगणितः ॥ ↩︎