अथ प्रसङ्गात् गर्भिणीतत्पतिधर्माः केचन निरूप्यंते ॥ तत्र गर्भिणीधर्ममाह प्र॰ पारिजाते कश्यपः -
नावस्करेषूपविशेन्मुसलोलूखलादिषु ।
जलञ्च नावगाहेत शून्यागारं च वर्जयेत् ॥
वल्मीकं नाधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना ॥
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ।
वर्जयेत्कलहं लोकैर्गात्रभङ्गं तथैव च ॥
न मुक्तकेशी तिष्ठत नाशुचिः स्यात्कदाचन ।
न शयीतोत्तरशिरा न चैवाधःशिराः क्वचित् ॥
न वस्त्रहीना नोद्विग्ना न चार्द्रांबरधारिणी ॥
नामङ्गल्यं वदेद्वाक्यं न च हास्याधिका भवेत् ॥
कुर्याच्छ्वशुरयोर्नित्यं पूजां माङ्गल्यतत्परा ।
तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ॥
संध्यायां नैव भोक्तव्यं गर्भिण्या हि प्रयत्नतः ॥
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा ॥
न शयाना सदा तिष्ठत्खट्वाछायां विवर्जयेत् ॥
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ॥
दानशीला तृतीयायां पार्वत्यां भक्तिमाचरेत् ॥
गर्भिणी कुञ्जराश्वादिवाहं हर्म्याधिरोहणम् ।
व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोकञ्च साध्वसं कुक्कुटासनम् ।
व्यवसायं दिवा स्वापं रात्रौ जागरणं त्यजेत् ॥
पतिव्रता भवेन्नारी विशेषेण तु गर्भिणी ।
अतिक्षारन्तु नाश्नीयादत्यल्पमतिभोजनम् ॥
अत्युष्णमतिशीतञ्च गुर्वाहारं परित्यजेत् ।
यस्तु तस्या भवेत्पुत्रः स्थिरायुर्वृद्धसम्मतः
इति ॥ निर्णयसिन्धौ स्कान्दवचनम् -
हरिद्राकुंकुमञ्चैव सिंदूरं कज्जलं तथा ।
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥
केशसंस्कारकबरीकरकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती वर्जयेद्गर्भिणी न हि
इति ॥
अथ गर्भिणीपतिधर्माः सं॰ मालायाम् -
गर्भिणीवाञ्छितं द्रव्यं तस्यै दद्याद्यथोचितम् ।
सूते चिरायुषं पुत्रमन्यथा दोषमर्हति
इति ॥ याज्ञवल्क्योऽपि -
दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः
इति ॥ सुतचौलादिकं न कर्तव्यमित्युक्तं स्मृतिचिन्तामणौ -
पुंसो भार्या गर्भिणी यस्य चेत्स्यात्सूनोश्चौलं क्षौरकर्मात्मनश्च ।
गेहारम्भः स्तम्भसंस्थापनञ्च वार्धिस्नानं नैव कुर्याच्च यात्राम्
इति ॥ कालविधाने -
क्षौरं शवानुगमनं नखकृन्तनं च युद्धं च वास्तुकरणं त्वतिदूरयानम् ।
उद्वाह औपनयनं जलधेर्वगाह आयुष्क्षयं भवति गर्भिणिकापतीनाम्
इति ॥ एते च नियमाः सप्तममासादूर्ध्वमवश्यं पालनीयाः -
वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः ।
श्राद्धं च सप्तमान्मासादूर्ध्वं चान्यच्च वेदवित्
इति प्र॰ पारिजाते आश्वलायनोक्तेः ॥ तत्रापि नैमित्तिकक्षौरं पित्रोः प्रेतकर्मादिकं कुर्यादित्युक्तं संस्काररत्नमालायाम् -
क्षौरं नैमित्तिकं कुर्यान्निषेधे सत्यपि ध्रुवम् ।
पित्रोः प्रेतविधानं च गर्भिणीपतिरेव च
पित्रोः क्षयाहं दर्शं च गयाश्राद्धं महालयम् ।
ग्रहणान्वष्टकाश्राद्धे कुर्याद्गर्भवतीपतिः
इति ॥
सुखप्रसवोपायः
॥ अथ सुखप्रसवोपायः ॥ (बो. गृ. शे. सू. २. ३. १२-१३)
अथ विजननकाले क्षिप्रप्रसवनं शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या 1 2 उदरमभिमृशति -
यथैव वायुः पवते यया समुद्र एजति ।
एवन्ते गर्भ एजतु सह जरायुणाऽपसर्पतुइति ॥ अथ यदि जरायुर्न पतेर्दर्भैरेव जठरं सम्मार्ष्टि -
तिलदेऽवपद्यस्व न मांसमसि नो दलम् । स्थवित्र्यवपद्यस्व स्वप्स्ये
इति ॥
॥ पुनरुपायान्तरमुक्तं प्रयोगमालायाम् -
हिमवत्युत्तरे पार्श्वे शबरी नाम यक्षिणी । तस्या नूपुरशब्देन विशल्या भवतु गर्भिणी स्वाहा
इत्यनेनैरण्डतैलं महिषीक्षीरमिश्रितमभिमन्त्र्य पाययेदुदरे लेपयेच्च ॥