१८ विष्णुबलिः

॥ अथ विष्णुबलिः ॥ ( हुतः ) (बो. गृ. सू. १. १०-११)

अष्टमे मासि विष्णव आहुतीर्जुहोति - ‘विष्णोर्नुकम्’ इत्येतेन सूक्तेन ॥ विष्णवे बलिमुपहरति ॥ वैष्णवो ह्येष मासो विज्ञायते ॥ विष्णुर्हि गर्भस्य देवता ॥ इति हुतो व्याख्यातः॥ यथैतद्धुते बलिहरणम् ॥ विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्यां रोहिण्यां श्रोणायां वा॥ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ॥ अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावायति।

ओं भूः पुरुषमावाहयामि, ओं भुवः पुरुषं॰, ओं सुवः पुरुषं॰, ओं भूर्भुवः सुवः पुरुषं॰

इत्यावाह्य परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमर्चयति । ‘आपोहिष्ठा’ इति तिसृभिः ‘हिरण्यवर्णा’ इति चतसृभिः ‘पवमानः सुवर्जनः’ इत्येतेनानुवाकेन मार्जयित्वा । अथाद्भिस्तर्पयति -

केशवं तर्पयामि, नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि

इति ॥ एतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः ‘अमुष्मै नमोऽमुष्मै नमः’ इत्यभ्यर्च्य ॥ अथ विष्णव आहुतीर्जुहोति -

विष्णोर्नुकं, तदस्य प्रियं, प्रतद्विष्णुः, परो मात्रया, विचक्रमे, त्रिर्देवः

इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् । अथ गुडपायसं घृतमिश्रमन्नं निवेदयति -

अमुष्मै स्वाहा नमोऽमुष्मै स्वाहा नमः

इति द्वादशभिर्यथालिङ्गम् । वैष्णवीभिर्ऋग्यजुःसामाथर्वभिः स्तोत्रैः स्तुतीभिः स्तुन्वन्ति॥ व्याहृतीभिः पुरुषमुद्वासयामीत्युद्वास्यान्नशेषं पत्नीं प्राशयेत् । पुमानस्यै जायत इति विज्ञायते ॥

प्र॰ पारिजाते वसिष्ठः -

मासेष्टमे च गर्भस्य कुर्याद्विष्णोर्बलिक्रियाम् ।
श्रवणे चैव रोहिण्यां पुष्ये चैव प्रशस्यते ।
द्वितीया सप्तमी चैव द्वादशी च शुभा तिथिः ।
शुभग्रहोदयाः श्रेष्ठास्तेषां च दिवसा अपि ।
पापास्त्र्यायारिगाः श्रेष्ठा नेष्टाः सर्वेऽष्टमस्थिताः

इति । एतेन गर्भादष्टमे मासि शुक्ले पक्षे द्वितीयासप्तमीद्वादशीतिथिषु शुभग्रहवारोदयेषु रोहिणीश्रवणपुष्यनक्षत्रेषु विष्णुबलिं कुर्यादित्यवसीयते॥ (बो. गृ. प. सू. १. १०. १५-१६)

अष्टमासमुष्णोदकेन स्नात्वा विष्णवे बलिमुपहृत्य व्रतयति । अथ पुत्रप्रसूर्भवतीति विज्ञायते ॥

विष्णुबलिप्रयोगः

अथ विष्णुबलिप्रयोगः ॥ कर्ता नान्दीमुखादि प्रतिसरबन्धान्तं पूर्ववत्कृत्वा “सविता प्रीयताम्" इति पुण्याहं वाचयित्वा देवयजनोल्लेखनप्रभृति गृह्याग्निं प्रतिष्ठाप्य देशकालकीर्तनान्ते

ममास्यां भार्यायां विद्यमानगर्भस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरःसरमायुःश्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं बिष्णुबलिहोमं करिष्ये ॥

अन्वाधाने -

शोभनो नामाग्निः, सविता देवता, चरुर्हविः,

इत्यादि संकल्प्यापरिधानात्कृत्वोपोत्थायाग्रेणाग्निं तण्डुलपुञ्जेषु विष्णोः प्रतिमां कलशं वा प्रतिष्ठाप्य,

अस्य गर्भस्य रक्षार्थं पुष्ट्यर्थमायुःश्रीबलवृध्यर्थं विष्णुपूजां करिष्ये

इति सङ्कल्प्य महापुरुषं ध्यात्वा गन्धपुष्पाक्षतैरावाहयति -

ॐ भूः पुरुषमावाहयामि । ॐ भुवः पुरुषमावाहयामि । ॐ सुवः पुरुषमावाहयामि । ॐ भूर्भुवः सुवः पुरुषमावाहयामि । आयातु भगवान्महापुरुषः

इत्यावाह्य स्वागतेनाभिनन्दयति -

स्वागतमधुना भगवतो महापुरुषस्य

इति ।

भगवते महापुरुषायै तदासनमुपक्लृप्तमत्रास्तां भगवान्महापुरुषः

इत्युक्त्वा कूर्चं ददाति -

भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितः सुवर्णस्तं जुषस्व

इति । अथ गायत्र्याभिमंत्रिते पात्रे तिरःपवित्रमप आनीय गन्धादिभिरभ्यर्च्य ओमित्यादित्यं दर्शयित्वा तासामेकदेशं पात्रान्तरेणादाय

त्रिणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । ततो॒ धर्मा॑णि धा॒रय॑न् [[TODO: परिष्कार्यम्]]

इति पाद्यं दत्वा

ॐ इ॒दं विष्णुः॒॰ पाँसु॒रे

इत्यर्घ्यमाचमनीयं च दद्यात् । ततः परिधानप्रभृति अग्निमुखान्तं कृत्वा, अथैनं स्नापयति आपो हिष्ठेति तिसृभिर्हिरण्यवर्णा इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वाद्भिस्तर्पयति -

केशवं तर्पयामि । नारायणं त॰ । माधवं त॰ । गोविन्दं त॰ । विष्णुं त॰ । मधुसूदनं त॰ । त्रिविक्रमं त॰ । वामनं त॰ । श्रीधरं त॰ । हृषीकेशं त॰ । पद्मनाभं त॰ । दामोदरं तर्पयामि

इति तर्पयित्वा एतैरेव नामधेयैरमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पाक्षतधूपदीपैः क्रमेणाभ्यर्च्य पक्वाज्जुहोति -

ॐ भूर्भुवस्सुवरो३म् तत्सवितुः॰ चोदयात्स्वाहा

(सवित्र इदं॰) ॥ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

विष्णोर्नु कं, तदस्य प्रियं, प्रतद्विष्णुः, परो मात्रया, विचक्रमे, त्रिर्देवः

इति षड्भिरनुच्छन्दसम् ॥ ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा विष्णवे बलिमुपहरति गुडपायसं घृतमिश्रमन्नं च -

ॐ केशवाय स्वाहा नमः ॥ नारायणाय स्वाहा नमः ॥ माधवाय स्वाहा नमः ॥ गोविन्दाय॰ ॥ विष्णवे॰॥ मधुसूदनाय॰ ॥ त्रिविक्रमाय॰ ॥ वामनाय॰ ॥ श्रीधराय॰ ॥ हृषीकेशाय॰ ॥ पद्मनाभाय॰ ॥ दामोदराय स्वाहा नमः

इति द्वादशभिः ॥ पुनस्तैरेव नामभिः “केशवं तर्पयामि" इत्यादिभिस्तर्पयित्वा वैष्णवीभिर्ऋग्यजुस्सामाथर्वभिः स्तुतिभिः स्तुत्वा व्याहृतिभिः पुरुषमुद्रासयेत् ।

ॐ भूः पुरुषमुद्वासयामि । ॐ भुवः पुरुषमुद्वासयामि । ॐ सुवः पुरुषमु॰ । ॐ भूर्भुवस्सुवः पुरुषमुद्वासयामि ॥ प्रयातु भगवान्महापुरुषः क्षेमाय विजयाय पुनस्सन्दर्शनाय च

इत्युद्वास्यान्नशेषं पत्नीं प्राशयेत् ॥ तत उत्तरपरिषेकादिशेषं कर्म समापयेत् ॥ मासमेकं पत्नी शुचिरुष्णोदकेन स्नात्वाहरहर्विष्णवे बलिमुपहृत्य व्रतयति ॥ पुमानस्यै जायत इति विज्ञायते ॥ इति विष्णुबलिप्रयोगः ॥