॥ अथ सीमन्तोन्नयनम् ॥ ( हुतः ) ( बो. गृ. सू. १. ३)
तत्र यद्धूयेत स हुतः यथैतद्विवाहः सीमन्तोन्नयनं चेति ॥
( बो. गृ. सू. १. १० )
प्रथमगर्भायाश्चतुर्थे मासि सीमन्तोन्नयनम् ॥ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ॥ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति ॥ ‘धाता ददातु नः’ इति पुरोनुवाक्यामनूच्य
धाता प्रजाया उत राय ईशे
इति याज्यया जुहोति ॥ अथाज्याहुतीरुपजुहोति -
धाता ददातु नो रयिं प्राचीम्
इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथास्यास्त्रेण्या शलल्या त्रिभिर्दर्भपुज्जीलैरुदुम्बरप्रसूनैर्यवप्रसूनैरिति केशान्विभजन् सीमन्तमुन्नयति -‘राकामहं, यास्ते राके’ इति द्वाभ्याम् ॥ अथास्यै यवप्रसूनान्याबध्नाति -
यवोसि यवयास्मद्वेषो यवयारातीः
इति ॥ अथैनौ वीणागाथिनाविति प्रतिगृह्णीते ॥ अथैनौ संशास्ति - ‘गायतम्’ इति ॥ तावेतां गाथां गायतः -
सोम एव नो राजेत्याहुर्बाह्मणीः प्रजाः । विवृत्तचका आसीनास्तीरेणासौ तव
इति यस्यै नद्यास्तीरे संश्रिता वसन्ति तस्यै नाम गृह्णाति ॥
नक्षत्रादिकमुक्तं प्रयोगपारिजाते -
सीमन्ते तिष्यहस्तादितिहरिशशभृत्पौष्णविध्युत्तराख्याः
पक्षच्छिद्रञ्च रिक्तां पितृतिथिमपहायापराः स्युः प्रशस्ताः ।
सिंहाली वर्जयित्वा शुभफलबहुला राशयोऽप्यंशकाश्च
श्रेष्ठाः स्युः श्वेतरोचिर्भृगुबुधधिषणानां विशुद्धे चाष्टमेऽह्नि
इति ॥ षठ्यष्टमीद्वादश्या पक्षाच्छद्राः, चतुर्थीनवमीचतुर्दश्यो रिक्ताः, एतास्तिथीवर्जयित्वान्यासु तिथिषु चन्द्रबुधगुरुशुक्राणां वारराश्यंकेषु तिष्यहस्तपुनर्वसुश्रवणमृगशिरोरेवतीरोहिण्युत्तरात्रयेषु नक्षत्रेषु लग्नाष्टमशुद्धौ सीमन्तोन्नयनं कुर्यादित्यर्थः ॥ वर्ज्यतिथिष्वपि त्याज्या त्याज्यनाडिकाः प्राह निर्णयसिन्धौ वसिष्ठः -
चतुर्दशी चतुर्थी च अष्टमी नवमी तथा ।
षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वयाः स्मृताः ॥
क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः ।
भूताष्टमनुतत्वाङ्कदशशेषास्तु शोभनाः
इति ॥
सीमन्तोन्नयनप्रयोगः
अथ सीमन्तोन्नयनप्रयोगः ॥ कर्ता पूर्वेद्युर्नांदीं र्प्रतिसरञ्च कृत्वाऽपरेद्युः स्नानदिचतुष्टयं कृत्वा गणपतिं सम्पूज्य “धाता प्रीयताम्" इति पुण्याहं वाचयित्वा स्थण्डिलोल्लेखनादि गृह्याग्निं प्रतिष्ठाप्याचमनप्राणायामादि देशकालकीर्तनान्ते
ममास्यां भार्यायां विद्यमानगर्भस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरं क्षेत्रसंस्कारातिशयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनहोमं करिष्ये
इति सङ्कल्प्य ॥ अन्वाधाने -
मङ्गलो नामाग्निः, धाता देवता, चरुर्हविः
इत्यादि । पात्रासादनकाले त्रेणीं शललीं1 दर्भानुदुम्बरप्रसूनानि यवप्रसूनानि2 च प्राकृतपात्रेण सहासाद्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति -
ॐ धाता ददातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनों ३ धाता प्र॒जाया उत राय ईशे धातेदं विश्वं भुवनं जजान । धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतवद्विधेम स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(धात्र इदं॰) ॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजहोति–
धाता ददातु नो रयिं प्राचीं॰ सत्यराधसः स्वाहा ॥ (धात्र इदं॰) ॥ धाता ददातु दाशुषे॰ सजोषाः स्वाहा ॥ (धात्र इदं॰) ॥ अनु नोऽद्यानुमतिः॰ मयः स्वाहा । अन्विदनुमते॰ तारिषः स्वाहा ॥ अनुमन्यता॰ यच्छतु स्वाहा ॥ यस्यामिदं॰ यच्छतु स्वाहा ॥ (एतेषां चतुर्णां, अनुमत्या इदं॰) ॥ राकामहं॰ उक्थ्यँ स्वाहा ॥ यास्तै राके॰ रराणा स्वाहा ॥ (द्वयोः, राकाया इदं॰) ॥ सिनीवालि॰ दिदिहि नः स्वाहा ॥ या सुपाणिः॰ जुहोतन स्वाहा ॥ (इत्येतयोः, सिनीवाल्या इदं॰) ॥ कुहूमहं॰ विधेम स्वाहा ॥ कुहूर्देवानां॰ चिकितुषे दधातु स्वाहा ॥ (एतयोर्द्वयोः, कुह्वा इदं॰) [[TODO: परिष्कार्यम्]]
इति द्वादश स्रुवाहुतीर्हुत्वा स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वा, अथास्यास्त्रेण्या शलल्या दर्भैरुदुम्बरप्रसूनैर्यवप्रसूनैश्च शिरोमध्ये केशान्विभजन् (भ्रूमध्यमारभ्य पिठरान्तम्) सीमन्तमुन्नयति - “राकामहम्, यास्ते राके” इति द्वाभ्याम् ॥ शलल्यादीनुत्तरतो निरस्याप उपस्पृश्य अस्याः शिरसि यवप्रसूनान्याबध्नाति -
यवो॑ऽसि य॒वया॒स्म द्वेषो॑ य॒वयारा॑तीः
इति ॥ अथ वीणागाथिनौ संशास्ति - “गायतम्” इति ॥ तावेतां गाथां गायतः -
सोम एव नो राजेत्याहुब्राह्मणीः प्रजाः ॥ विवृत्तचक्रा आसीनास्तीरेणासौ तव [[TODO: परिष्कार्यम्]]
इति यस्या नद्यास्तीरे वसति तस्या नाम ‘असौ’ इति पदस्थाने सम्बुद्ध्यन्तं निर्दिशेत् - ‘गङ्गे तव’ ‘कावेरि तव’ इति ॥ अथोत्तरपरिषेकादि कर्मशेषं समाप्य ब्राह्मणान् भोजायित्वाशिषो3 गृह्णीयात् ॥ इति सीमन्तोन्नयनप्रयोगः॥