१६ पुंसवनम्

( बो. 2. सू. १. ९)

विज्ञाते गर्भ तिष्ये पुंसवनम् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति -

प्रजापते तन्वं मे जुषस्व त्वष्टुर्देवेभिः सह साम इन्द्र । विश्वैर्देवै रातिभिः सँरराणः पुँसां बहूनां मातरः स्याम स्वाहा

इति । अथाज्याहुतीरुपजुहोति -

गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् '

इति तिसृभिरनुच्छन्दसम् ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अथास्या आज्यशेषमास्ये प्रच्योतयति –

अस्मे देवासो वपुषे चिकित्सत

इति चतसृभिरनुच्छन्दसम् ॥

मासप्रोक्ताः क्रिया याः स्युस्ताः सर्वाः सौरमानतः

इति सौरो मासो ग्राह्य इति केचित्, सावन इत्यन्ये । विद्यामाधवस्तु “साम्यं तयोरुत्तमम्" इति व्याचख्यौ । गुरुशुक्रास्तादि दोषोऽत्र नास्तीत्युक्तं सं॰ मालायाम् -

मासि प्रयुक्तकार्येषु मूढत्वं गुरु शुक्रयोः ।
न दोषकृत्तदा मासलक्षणो बलवानिति

वृद्धिर्दास्यं पुंसवाद्यं प्रेतकर्मानुमासिके । मलमासेऽपि कुर्वीत

इति । अत्र वारनक्षत्रादयः प्रोक्ता मुहूर्तशतके -

कुर्यात्पुंसवनाख्यकर्मविदिते गर्भे तृतीये स्त्रिया
मासे सद्दिवसे1 हरीन्दुदिनकृत्पुष्येष्वरिक्तातिथौ ।
कन्याकर्कियमानिते शुभगृहे पुन्नामभे वा विधौ
वीर्याढ्ये च शुभग्रहे तनुगते शुद्ध ग्रहैरष्टमे

इति । तथा च पुंसवनं विज्ञाते गर्भे तृतीये मासि शुभग्रहाणां वारे रिक्तार्जितायां तिथौ मृगशीर्षतिष्यहस्तश्रवणान्यतमे नक्षत्रे मिथुनकर्ककन्यावर्जिते अष्टमशुद्धियुते

शुभपुराशिलग्ने चन्द्रबलयुते शुभमुहूर्ते कर्तव्यमिति निष्कर्षः ॥ (बो. गृ. प. सू. १. १०. १४)

पुंसवनप्रभृत्याज्याभिधारितं पत्न्यश्नात्या प्रसवात् ॥

पुंसवनप्रयोगः

अथ पुंसवनप्रयोगः ॥ कर्ता पूर्वेद्युर्नांदीश्राद्धं प्रतिसरबन्धं च कृत्वा श्वोभूते कृतस्नानादिचतुष्टयो गणपतिं सम्पूज्य ब्राह्मणाननुज्ञाप्य “प्रजापतिः प्रीयताम्" इति पुण्याहं वाचयित्वा देवयजनोल्लेखनप्रभृति गृह्याग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालो सङ्कीर्त्य

ममास्यां भार्यायां विद्यमानगर्भस्य पुंस्त्वप्रतिपादनपूर्वकबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनहोमं करिष्ये,2

अन्वाधाने -

चन्द्रमा नामाग्निः, प्रजापतिर्देवता, चरुर्हविः, अग्निः स्विष्टकृत्,

इत्यादि सङ्कल्प्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

ॐ प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिः सह साम इन्द्र । विश्वैर्देवै रातिभिः सँ रराणा पुँसा बहूनां मातरः स्यामों३ प्रजापते तन्वं॰ स्याम स्वाहा [[TODO: परिष्कार्यम्]]

(प्रजापतय इदं॰)॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -

गर्भो॑ अ॒स्योष॑धीनाम्,3 प्र॒सद्य॒ भस्म॑ना, पुन॑रा॒सध॒ सद॑नम्

इति तिसृभिरनुच्छन्दसम् । सर्वत्र “अग्नये गर्भायेदं॰" इत्युद्देशत्यागः ॥ ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा आज्यशेषं पत्न्या आस्ये प्रच्योतयति -

अस्मे देवासो वपुषे चिकित्सत

इति चतसृभिरनुच्छन्दसम् ॥ अथोत्तरपरिषेकादि कर्मशेषं समापयेत् ॥ अतःपरं पत्नी सर्पिर्बहुलमन्नं भुञ्जीत ॥ इति पुंसवनप्रयोगः ॥


  1. चन्द्रबुधगुरुशुक्राणां वासरे ॥ ↩︎

  2. अयं होमसंकल्पः । अयमेव होमपदस्थाने कर्मपदयोजनेन प्रधानसंकल्पो भवति स च कर्मारंभे कर्तव्यः। अत्र विस्तरभयान्नोलिखितः । एवमुत्तरत्राप्यनुसन्धेयम् ॥ ↩︎

  3. अत्र मन्त्राः प्रतीकतो निदर्शिताः, कृत्स्नशस्त्वग्रे समानतन्त्रप्रयोगावसरे लेखिष्यन्ते ॥ ↩︎