१५ गर्भाधानम्

अथेदानीमवसरप्राप्तेषु संस्कारेषु प्रथमं गर्भाधानमभिधीयते । अत्र संस्कारेषु

एतदन्तस्त्वनुक्रान्तः प्रजासंस्कार इष्यते ।
केचित्तु गर्भसंस्कारं1 जन्मनः2 प्राक्प्रचक्षते

इति उपनयनव्रतोत्सर्जनान्ते वक्ष्यमाणेन गृह्यसंग्रहवचनेन गर्भाधानादयः सर्वे प्रजासंस्कारा इति बहवः समामनन्ति, केचित्तु गर्भाधानादिविष्णुबल्यन्ताः क्षेत्रसंस्काराः जातकर्मादयः प्रजासंस्काराः इत्यपि मन्यन्ते, इत्येवं पक्षद्वयं प्रतीयते ॥ तत्र प्रजासंस्कारपक्षे “प्रतिप्रधानं गुणावृत्तिः” इति न्यायाद्गर्भाधानादयः सर्वेऽपि प्रतिगर्भमावर्तनीया भवन्ति । क्षेत्रसंस्कारपक्षे तु ग

सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता

इति देवलवचनेन गर्भाधानादिविष्णुबल्यन्ताः संस्काराः स्त्रियः प्रथमगर्भे सकृत्करणेन सर्वत्र गतार्थाः स्युरित्यवगन्तव्यम् ॥ (बो. गृ. शे. सू. २. २ )

पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य ‘पुण्याहं स्वस्त्यृद्धिम्’ इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘प्रबंधसे॰ हेड्यान् स्वाहा’ इति । स्विष्टकृतमवदाय तमन्तःपरिधि सादायित्वाऽथाज्याहुतीरुपजुहोति - '

ज्येष्ठाय स्वाहा, श्रेष्ठाय स्वाहा, प्रतिष्ठाय स्वाहा, प्रतिष्ठित्यै स्वाहा, सम्पत्यै स्वाहा, सम्पतये स्वाहा, ब्रह्मणे स्वाहा, आयतनवते स्वाहा

इति ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ हविष्यमन्नमभिमन्त्रयते -

तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् ॥ श्रेष्ठँ सर्व धातमम् । तुरं भगस्य धीमहि

इति । अपरेणाग्निमुभौ जायापती प्राश्नीयाताम् - ‘तत्सवितुर्वरेण्यम्’ इति । प्राश्याप आचम्य जठरमभिमृशति -

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः

इति द्वाभ्याम् । यं कामं कामयते तं मनसा ध्यायेत् ॥

(बो. गृ. सू. १. ५)

ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनात् ‘जातः’ इत्यभिधीयते । उपनीतमात्रो व्रतानुचारी, वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रोत्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्यायी ऋषिकल्पः । सूत्रप्रवचनाध्यायी भ्रूणः । चतुर्वेदादृषिः । अत ऊर्ध्व देवः ॥ अथ यदि कामयेत श्रोत्रियं जनयेयमिति आ अरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणावासाते । अथ यदि कामयेतानूचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत् ॥ अथ यदि भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतंचरेत् ॥ अथ यदि कामयेत ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत् ॥ अथ यदि कामयेत देवं जनययामिति संवत्सरमेतंद्व्रतं चरेत् ॥ अथ यदेषा मलवद्वासा स्यात्

नैनया सह संवदेत न सहासीत नास्या अन्नमद्यात् ब्रह्महत्यायै ह्येषा वर्णं प्रतिमुच्यास्तेऽथो खल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्य काममन्यत्

इति । नैनामुपेयात् । नारण्ये । न पराचीम् ॥ न स्नाति । नाभ्यङ्क्ते । न प्रलिखते । नाङ्क्ते। न तो धावते । न नखानि निकृन्तते । न कृणात्ति । न रज्जुं सृजति । न पर्णेन पिबति ॥ न खर्वेण पिबति ।

तस्यै खर्वस्तिस्रो रात्रीव्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय

इति ब्राह्मणम् । चतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयनेऽभिमन्त्रयते -

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँ शतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
यथाग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी ।
वायुर्यथा दिशां गर्भ एवं गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥
हिरण्ययी अरणी यन्निर्मन्थतो अश्विना ।
तं ते गर्भं दधाम्यहं दशप्रे मासि सूतवे ।
नेजमेष परापत सुपुत्रः पुनरापत ।
अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमान् ॥

अथैनां परिष्वजति -

अमूहमस्मि सा त्वं धौरहं पृथिवी त्वं रेतोऽहं रेतोभृत्त्वं मनोहमस्मि वाक्त्वं सामाहमस्मि ऋक्त्वं तावेहि संभवाव सह रेतो दधावहै पुँ से पुत्राय वेत्तवै रायस्पोषाय सुप्रजासत्वाय सुवीर्याय

इति । आत्मानं प्रत्यभिभृशते –

अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वंतः । अहं प्रजामजनयन्पितृणामहं जनिभ्यो अपरेषु पुत्रान्

इति । अथैनामुपैति –

तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेपम्

इति । स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति । प्रजानिश्रेयसमृतुगमनमित्याचार्याः । सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः । यच्चादौ यच्चार्तादिति शालीकिः ।

(बो. ग. शे. सू. ५. ३)

अथ ऋतुशान्ति व्याख्यास्यामः - तिथिवारनक्षत्रयोगकरणलग्नदोषशान्त्यर्थं चतुर्थे वा पञ्चमेऽह्नि वा शान्तिस्नानं प्रकुर्वीत । देवालये गृहे वा प्रस्थाष्टभिर्धान्यैस्तदर्धं तण्डुलैस्तदर्धं तिलैश्चोपर्युपरि चतुरश्रमरत्निमात्रं चतुरश्रं स्थण्डिलं कृत्वा तन्मध्ये नळिनमुल्लिख्य तस्मिन् तन्तुवेष्टितं कुम्भं निधाय तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य ब्रह्म जज्ञानमिति कुम्भं निधाय सपवित्रेण ‘आपो वा इदँ सर्वम्’ इत्येतेनानुवाकेन अब्लिङ्गाभिश्च कुम्भमुदकैः पूरयित्वा गन्धादिभिरलङ्कृत्य कूर्चमन्तर्धाय

गजाश्वरथवल्मीकमृदमाहृत्य गोकुलात् ।
चतुष्पथाद्राजगृहात्तुलसीबिल्वमूलयोः ॥
देवालयात्पर्वताद्वा गृह्णीयात्पञ्च मृत्तिकाः ॥
पालाशोदुम्बराश्वत्थवटप्लक्षकयाज्ञिषु ॥
जम्बूबिल्वकपित्थाम्रशिरीषेषु च पल्लवान् ।
त्वेषां त्वचश्च पञ्चैव गृह्णीयात्संभवेषु वै

इत्युक्तरीत्या पञ्च मृत्तिकाः पञ्च पल्लवान् पञ्च त्वचश्च निक्षिप्य नवरत्नमीषत्काञ्चनं नववस्त्रेणाच्छाद्य चूतपल्लवैर्बिल्वपल्लवैर्वाविकीर्य नाळिकेरफलेनापिधाय दर्भैर्दूर्वादिना प्रतिच्छाद्यालंकृत्य सम्परिस्तीर्य पुरुषं पुण्डरीकाक्षं ध्यात्वा कुम्भं सम्पूज्य श्रोत्रियान्विप्रान् षडष्टौ वा वरणपूर्वकमभ्यार्च्याचार्यं चाभ्यर्चयत् ॥ त ऋत्विजः कुम्भमन्वारभ्य वैष्णवीं गायत्रीमष्टसहस्रमष्टशतं वा वदन्तो वेदादीन् ‘आपो हि ष्ठा मयोभुवः’ इति तिस्रः ‘हिरण्यवर्णाः, पवमानः’ इत्यनुवाकौ वरुणसूक्तं श्रीसूक्तं पुरुषसूक्तं पञ्चशान्तिम्, ‘ऋचां प्राची’ इत्येतमनुवाकं च जपेयुः।

नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह’

इति ब्राह्मणम् । प्रणवेनोत्थाप्य ‘आभिर्गीर्भिः’ इति जपेयुः । अथालङ्कृतामुरुविष्टर आसीनां ‘देवस्य त्वा’ इति प्रोक्ष्य ‘ऋतं च सत्यं च’ इति त्रिभिर्मन्त्रैः ऋत्विजः स्नापयेयुः । ततो नारीं पञ्चगव्यं प्राशयेत् ।

गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम्

इति पञ्चगव्यम् । अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रमुपलिप्य लौकिकमाग्नं श्रोत्रियागारादाहृत्य स्वगृह्योक्तविधानेनाग्निमुखात्कृत्वा पालाशसमिद्भिरष्टोत्तरशतं विष्णुसूक्तेन जुहुयात् । तथा ब्रह्मसूक्तेनान्नं रुद्रसूक्तेनाज्यम् । एतानि सूक्तान्यष्टादशकृत्वा प्रत्येकमावर्तयेत्तदानीमष्टोत्तरशतं सम्पद्यते । अथर्तुनक्षत्रस्य समिदन्नाज्याहुतीःप्रत्येकमष्टाविंशतिकृत्वः तन्मन्त्रेण जुहुयात् । मन्त्रौ चतुर्दशकृत्व आवर्तयेत् । अथ त्रियम्बकेन तिलहोममष्टोत्तरशतं जुहुयात् ॥ अथाज्याहुतीर्घृतसूक्तेनाष्टौ जुहुयात् । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अथ ऋत्विग्भ्यो दक्षिणां ददात्याचार्याय विशेषतः । एवं यदि शान्तिं कुर्यात्ततो नारी दोषात्प्रमुच्यते सर्वारिष्टशान्तिरस्त्वित्याह भगवान् बोधायनः ॥

(बो. 2. सू. ४. १२)

अथ गृहस्थस्य विद्यार्थिनस्त्रियाभ्यनुज्ञातस्य ऋतुसंवेशनविच्छेदप्रायाश्चत्तं व्याख्यास्यामः । वसन्तो ग्रीष्मो वर्षाश्शरद्धेमन्तशिशिरेणर्तुकालमुक्त्वा ब्राह्मणेभ्यो निवेदयित्वा चीर्णव्रतान्तेन प्रदोषे देवयजनमुदानयति । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘यस्त्वा हृदा कीरिणा मन्यमानः’ इति पुरोनुवाक्यामनूच्य ‘यस्मै त्वँ सुकृते जातवेदः’ इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति - ‘मधुश्च स्वाहा । माधवश्च स्वाहा’ इत्याऽन्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । अपरेणाग्निमाज्यशेषमुदकशेषं चोभौ जायापती प्राश्नीयाताम् ॥

अथ गर्भाधाननिमित्तस्य रजसो लक्षणमुक्तं प्रयोगपारिजाते –

नाभिभूले स्थितं पुष्पं चतुर्दलसमन्वितम् ।
तस्मिन्सर्वाश्च दधते गर्भसम्भवकारणम् ॥
अधोमुखं स्थितं स्त्रीणां तद्बाल्ये मुकुलीकृतम् ।
बाल्यात्परवयः प्राप्ते मुकुलं विकसद्भवेत् ॥
उत्फुलकुसुमात्स्त्रीणां स्वभावेन स्रवेद्रजः ।
तदाप्रभृति सर्वासां मासि मासि ऋतुर्भवेत्

इति ॥ ॥ अथ प्रथमरजोदर्शने मासपक्षतिथिनक्षत्रादीनां शुभाशुभफलानि कानिचिन्निरूप्यन्ते ॥ तत्र मासफलमुक्तं सं॰ रत्नमालायाम् -

आद्यर्तौ विधवा नारी चैत्रमासे भवेद्ध्रुवम् ।
वैशाखे बहुपुत्रा स्याज्ज्येष्ठे रोगातुरा भवेत् ॥
आषाढे त्वनपत्या स्याच्छ्रावणे धनिनी भवेत् ।
भाद्रे तु दुर्भगा क्लीवा ह्याश्विने च तपस्विनी ॥
कार्तिके विधवा बाला मार्गशीर्षे बहुप्रजा ।
पौषे स्यात्पुंश्चली नारी माघे पुत्रसुतान्विता ॥
फाल्गुने सुखसम्पन्ना प्रथमर्तौ फलं स्मृतम्

इति ॥ ॥ पक्षफलं तत्रैव -

शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् ।
कृष्णस्य दशमीयावन्मध्यमं फलमादिशेत्

॥ ॥ तिथिफलं प्रयोगपारिजाते -

प्रथमायां पति हन्ति द्वितीयायां सुखं भवेत् ।
तृतीयायां श्रियै स्याच्च चतुर्थ्यां वृषली भवेत् ॥
पञ्चम्यां पुत्रलाभश्च षष्ठ्यां चारित्रविक्रिया ।
सप्तम्यां पुत्रवृद्धिः स्यादृष्टम्यां सुतनाशनम् ॥
नवम्यां रुदती नित्यं दशम्यां धर्मशालिनी ।
एकादश्यां पतिस्निग्धा द्वादश्यां क्रन्दिनी भवेत् ॥
त्रयोदश्यां मानधना तत्परा बहुदोषकृत् ।
पर्वण्यन्यगृहीता स्याद्विद्यादेवं तिथेर्वशात्

इति ॥ ॥ वारफलं सं॰ मालायाम्

रुग्णा पतिव्रता दुःखी पुत्रिणी भोगभागिनी ।
पतिप्रिया क्लेशवती सूर्यवारादिषु क्रमात्

इति ॥ ॥ नक्षत्रफलञ्च तत्रैवोक्तम्

अश्विनी सुखदा स्त्रीणां भरणी कामवर्धिनी ।
कृत्तिका दैन्यदा ज्ञेया रोहिणी सुखदा भवेत् ॥
मृगस्तु कामभोगाय सुखदं रुद्रदैवतम् ।
आदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्धनम् ॥
आश्लेषाः सुखनाशाय मघा वैधव्यदाः स्मृताः ।
पूर्वा फल्गुनिका पुत्रकन्यासुखविवर्धिनी ॥
उत्तरा ह्यर्थनाशाय हस्तः पुत्रप्रवर्धनः ।
चित्रा चित्रतनुं नारीं कुरुते नात्र संशयः ॥
स्वाती शुभाय नारीणां विशाखा सुखनाशिनी ।
अनुराधार्थभोगाय ज्येष्ठा भर्तृवियोगदा ॥
शुभं वाऽप्यशुभं मूलं पूर्वाषाढार्थनाशिनी ।
सुखदा चोत्तराषाढा श्रवणः सुखवर्धनः ॥
धनिष्ठापञ्चकं स्त्रीणां प्रथमर्तौ सुखप्रदम्

इति ॥ ॥ अमासङ्क्रांत्यादौ विशेषतो वय॑घटिकाः प्रोक्तास्तत्रैव -

अमासङ्क्रांतिविष्ट्यादौ व्यतीपाते च वैधृते ।
परिघस्य तु पूर्वार्धे षट् षट् गण्डातिगण्डयोः ॥
व्याधाते नव शूले च नाड्यः पञ्चर्तुदर्शने

वर्जनीया इति शेषः ॥ ॥ ग्रहणफलं चोक्तम् -

प्रसूतिर्यदि जायेत ग्रहणे चन्द्रसूर्ययोः ।
सङ्क्रांती च तदा स्त्रीणामादौ च ऋतुदर्शने ॥
व्याधिः पीडा च दारिद्र्यं शोकश्च कलहो भवेत्

इति ॥ ॥ वेलाफलमप्युक्तं तत्रैव -

प्रातःकाले रजस्स्त्रीणां प्रथमं शोकवर्धनम् ।
सङ्गवे सुखसन्तत्यै मध्याह्ने धनसन्तती ॥
अपराह्ने धनाऽवाप्तिः सायाह्ने मध्यमं फलम् ।
पूर्वरात्रे सुखायाऽलं मध्यरात्रे धनक्षयः ॥
पररात्रेऽर्थनाशश्च प्रथमर्तौ फलं भवेत् ।
महद्भयं सन्ध्ययोः स्यादर्थहानिस्तथैव च

इति ॥ ॥ लग्नफलं निर्णयसिन्धौ -

कुलीरवृषचापान्त्यनृयुक्कन्यातुलाघटाः ।
राशयः शुभदा ज्ञेया नारीणां प्रथमार्तवे

इति ॥ ॥ अथ परिहितवस्त्रफलं शोणितबिन्दुफलञ्चोक्तं प्रयोगपारिजाते -

सुभगा श्वेतवस्त्रा स्यादृढवस्त्रा पतिव्रता ।
क्षौमवस्त्राऽन्विता प्राज्ञा नववस्त्रा सुखाऽन्विता ॥
दुर्भगा जीर्णवस्त्रा स्याद्रोगिणी रक्तवाससा ।
नीलाम्बरधरा नारी पुष्पिणी विधवा भवेत् ॥
मलिनाम्बरधृङ्नारी दरिद्रा स्याद्रजस्वला ॥
वस्त्रेषु विषमै रक्तबिन्दुभिः पुत्रमाप्नुयात् ।
समैश्च कन्यकां चैव फलं स्यात्प्रथमार्तवे

इति ॥ ॥ रजोदर्शनकालीनक्रियाफलमपि तत्रैवोक्तम् -

सम्मानीकाष्ठतृणाऽग्निशूर्पान् हस्ते दधाना कुलटा तदा स्यात् ।
तल्पोपभोगे तपसि स्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्

इति ॥ ॥ अथ द्रष्टफलं सं॰ मालायाम् –

पुरन्ध्या दृभ्यते यत्तु रजस्स्त्रीणां सुखाय तत् ।
विशस्तया तु यद्दृष्टं रजो वैधव्यदं स्मृतम् ॥
रजः पश्यति चेत्कन्या पुमान्वा तत्सुखं भवेत् ।
स्वयं दृष्टा तथा स्त्रीणामात्मघाताय कल्पते

इति ॥ ॥ अथ रजोदर्शनदिननिर्णयमाह याज्ञवल्क्यः –

रात्रिं कुर्यात् त्रिभागां तु द्वौ भागौ पूर्वगामिनौ ।
उत्तमोंऽशः प्रभातेन युज्यते ऋतुसूतके

इति ॥ स्मृत्यन्तरेषु –

विहाय सन्ध्याद्वितयं त्रिधैव विभक्तरात्रेस्तु तृतीयभागात् ।
पुरा यदि स्याज्जननं मृतिर्वा ऋतुस्तदा पूर्वदिनाद्यघं स्यात्

अर्धरात्रादार्धरात्रं दिनं स्यात्सृतकादिषु

रात्रावेव समुत्पन्ने मृते रजसि सूतके ।
पूर्वमेव दिन ग्राह्यं यावन्नाभ्युदितो रविः

इति च यदुक्तं तत्र देशाचाराद्व्यवस्था ज्ञेया ॥ ॥ अथ सामान्यतो रजस्वलानियमाः – निर्णयसिन्धौ -

वर्जयेन्मधुमांसश्च पात्रे खर्वे च भोजनम् ।
गन्धमाल्ये दिवास्वापं ताम्बूलञ्चास्यशोधनम् ॥
दग्धे शरावे भुञ्जीत पेयञ्चाञ्जलिना पिबेत्

इति ॥ प्र॰ तिलके तु -

यदा पुष्पवती च स्यात्पत्नी सैतानि वर्जयेत् ।
स्नानं भूषां दिवानिद्रां शिल्पविद्यां गृहक्रियाम् ॥
ताम्बूलमध्वगमनं रात्रिभोजनमेव च ॥
गोविप्रस्पर्शनञ्चैव ज्योतिषामीक्षणं तथा ॥
अन्त्यजैस्सह सम्भाषां पायसान्नं घृतौदनम् ।
न गच्छेदेववेश्मानि न वसेच्छूद्रमन्दिरे ॥
इत्थं व्रतं त्रिरात्रं सा चरित्वाऽपरवासरे ।
स्नात्वा स्वपतिमर्कं वा पश्येन्नान्यं निरीक्षयेत्

इति ॥ ॥ रजस्वलयोरन्योन्यं सम्भाषणे स्पर्शने च प्रायश्चित्तमुक्तं प्र॰ पारिजाते –

सम्भाषेतां स्पृशेतां वा ब्राह्मण्यौ च रजस्वले ।
आस्नानकालं नाश्नीतमुभे मत्या मिथः क्वचित् ॥
स्नात्वोपवासं कुर्यातां पञ्चगव्येन शुध्यतः ।
उपवासे त्वशक्ता चेत्तत्समं दानमाचरेत्

इति ॥ ॥ चाण्डालादिस्पर्शे सं॰ मालायां बोधायनवचनमुदाहृतम् -

रजस्वलातु संस्पृष्टा चाण्डालान्त्यश्ववायसै ।
तावत्तिष्ठेन्निराहारा यावत्कालेन शुध्यति ॥

अत्र पञ्चगव्याऽशनमप्यर्थात्प्राप्तम् -

रजस्वला तु भुञ्जाना श्वान्त्यजादीन् स्पृशेद्यदि ।
गोमूत्रयावकाऽऽहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वाऽथ भोजनम्

इति ॥ ॥ रजस्वलानैमित्तिकस्नानप्राप्तौ तत्रैव पराशरः -

स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत्

इति ॥ ॥ अथ प्रथमर्तौ नियमविशेष उक्तः प्र॰ पारिजाते –

प्रथमर्तौ तु पुष्पिण्या पतिपुत्रयुताः स्त्रियः ।
अक्षतैरासनं कुर्युस्तस्मिंस्तामुपवेशयेत् ॥
हरिद्रापुष्पगन्धादीन्दद्यात्ताम्बूलकं स्रजम् ।
आशिषो वाचयेयुस्ताः पतिपुत्रवती भव ॥
दीपैर्नीराजनं कुर्यात्सदीपे वासयेद्गृहे ।
ताः सर्वाः पूजयेत्पश्चाद्गन्धपुष्पाक्षतादिभिः ॥
भक्षणाऽपूपमुद्गादि दद्यात्ताभ्यः स्वशक्तितः

इति ॥ ॥ अथ रजस्वलाशुद्धिमाह कात्यायनः प्र॰ पारिजाते -

प्रथमेऽहनि1 चाण्डाली द्वितीये रजकी स्मृता ।
तृतीयेऽहनि शूद्री स्याच्चतुर्थेऽहनि शुध्यति ।
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति

इति ।

केचित्तु चतुर्थदिवसे दर्शष्ट्यादि श्रौतकर्माणि कर्तव्यानीत्याहुः ॥ ॥ अथ चतुर्थेऽह्नि स्नानविधिः सं॰ मालायाम् -

रजस्वला चतुर्थेऽह्नि मृत्तिकापष्टिभिः पृथक् ।
शौचं कृत्वा यथान्यायं दन्तानां धावनं तथा ॥
कृत्वा तु सङ्गवेऽतीते सचैलं स्नानमाचरेत् ।
भस्मगोमयमृद्भिश्च सर्वैरन्यतमेन वा ॥
स्नात्वांशुकं परिच्छाद्य गन्धपुष्पैरलङ्कृता ।
आचम्य पुष्पैरादित्यमर्चयित्वा यथोचितम् ॥
ऐन्द्रं वरं प्रभो मामिदानीं दातुमर्हसि ।
इत्युक्त्वाथैन्द्रभावेन प्रार्थयेत्तु स्वकं पतिम् ॥
ऋतुस्नाता तु या नारी यं स्नेहान्नरमीक्षते ।
तादृशं जनयेत्पुत्रं पतिमेव निरीक्षयेत्

इति ॥ ॥ आतुरायाः स्नानविधिः प्र॰ पारिजाते -

आतुरे चेदृतुमती तस्याः स्नानं कथं भवेत् ।
स्पृष्ट्वा तु तां परा स्नायाद्दशकृत्वो ह्यनातुरा ॥
वासोभिर्दशभिश्चैव परिधाप्य यथाक्रमम् ।
ब्राह्मणान्भोजयित्वाऽथ पुण्याहेन विशुध्यति ॥
आतुराणान्तु सर्वेषामेवं शुद्धिविधीयते

इति ॥ ॥ अथ रजःस्नातायाः पुनः स्वकालादर्वाग्रजोदर्शने निर्णयः प्र॰ पारिजाते -

रजस्वला यदि स्नाता पुनरेव रजस्वला ।
अष्टादशदिनादार्वागशुचित्वं न विद्यते ॥
एकोनविंशतेरर्वागेकाहं स्यात्ततो द्व्यहम् ॥
विंशात्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत्

इति ॥

एकादशाहे त्वेकाहं द्विरात्रं द्वादशेऽहनि ।
ऊर्ध्वं त्रिरात्रं विज्ञेयमिति कुण्डिलचोदितम्

इति च ॥ अत्रैवं व्यवस्था - यस्याः प्रायेण मासे मासे रजोदर्शनं तस्याः सप्तदशदिनपर्यन्तं पुना रजोदर्शने स्नानाच्छुद्धिः । अष्टादशाहे एकरात्रमशुचित्वं, एकोनविंशद्विरात्रं, विंशात्प्रभृति त्रिरात्रम् ॥ यस्याः पुनः पक्षे पक्षे रजोदर्शनं तस्या दशदिनपर्यन्तं पुना रजोदर्शने स्नानाच्छुद्धिः। एकादशाहे त्वेकरात्रमशुचित्वं, द्वादशाहे द्विरात्रं, तदूर्ध्वं त्रिरात्रम्, इति ॥ रोगेणाऽन्वहं रजोदर्शने नाऽस्पृश्यत्वं, किन्तु रजोनिवृत्तिपर्यन्तं पाक-देव-पित्र्य-कर्माऽनधिकारमात्रं, साऽपि मासजं रजः सावधानं निरीक्ष्य त्रिरात्रमशुचिर्भवेत् । सर्वत्र रजसः सूतकवज्ज्ञानकालमारभ्यैव दोषोऽवगन्तव्यः ॥

व्यसनात्कार्यकरणान्निद्राविस्मरणादपि ।
रजःस्रावमविज्ञाय सा शुचिः पूर्वकर्मस्

इति सं॰ मालायां यमोक्तः॥

अथ गर्भाऽधानकालनिर्णयः ॥ तत्र मनुः -

ऋतुस्स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
त्रयोदशी च शेषाः स्युः प्रशस्ता दशरात्रयः ॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युम्मासु पुत्रार्थी संविशेदार्तवे स्त्रियाम्

इति ॥ ज्योतिषेऽपि चतुर्थीप्रभृतिषु त्रयोदशरात्रिषूपगमने पृथक्पृथक्फलं निर्दिष्टम् -

पुत्रोऽल्पायु दारिका वंशकर्ता वन्ध्या पुत्रः सुन्दरीशोऽतिदुष्टा ।
श्रीमान्पापा पुण्यशीलो गुणाढ्या सर्वज्ञस्स्यात्तुर्यरात्रिक्रमेण

इति ॥ एतेन ऋतुसंवेशने रजोदर्शनप्रभृतिषोडशरात्रिषु आद्याश्चतस्रः एकादशी त्रयोदशी चेति षड्रात्रयो निन्दिताः । अन्या दशरात्रयः प्रशस्ताः तत्राऽपि युग्माः प्रशस्ततराः इति सामान्यतः पर्यवस्यति ॥

स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति

इति गृह्ये चतुर्थ्यामप्युपगमनविधानं तत्सुतरां रजोनिवृत्तावेवेति द्रष्टव्यं अनिवृत्ते रजस्युपगमनस्य सर्वत्रनिषेधात् । तथा च पराशरः -

स्नात्वा रजस्वला या तु चतुर्थेऽहनि शुध्यति ।
कुर्याद्रजोनिवृत्ते तु दैवपित्र्यादिकर्म च ॥
साध्वाऽऽचारा न तावत्सा रजो यावत्प्रवर्तते ।
रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि

इति ॥ ॥ धर्मसूत्रेऽपि ( बौ. ध. सू. ४.१.२१)

ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोः पापमयोनौ यश्च सिञ्चति

इति ऋतावगमनं अनृतौ गमनं अयोनौ निषेचनं च निषेधन्नाचार्यो ऋतावेव भार्यामुपेयात्प्रतिषिद्धवर्ज्यमिति विदधाति ॥ यञ्च (तै.सं. २.५.१)

ता अब्रुवन्वरं वृणामहा ऋत्वियात्मजां विन्दामहै काममा विजनितोः सम्भवामेति तस्मादृत्वियात्स्त्रियः प्रजां विन्दते काममाविजनितोः सम्भवन्ति

इति स्त्रीणां

ऋतौ गर्भधारणं ततश्चाऽऽप्रसवं यथाकामं पुरुषसम्भोगश्च

इतीन्द्रदत्तवरश्रवणादनृतावपि गमनं स्मर्यते तत्कामयमानायामेव स्त्रियामिति वेदितव्यम् ॥ ॥ अथ प्रतिषिद्धान्याह सं॰ मालायां गर्गः -

अमासङ्क्रान्तिविष्ट्यादौ प्रातकालेऽपि नाचरेत्

इति ॥ मनुरपि -

अमावास्यामष्टमीञ्च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः

इति ॥ श्रुतिश्च (तै. सं. २.५.६)

नामावास्यायां च पौर्णमास्यां च स्त्रियमुपेयाद्यदुपेयान्निरिन्द्रियः स्यात्

इति ॥ हेमाद्रौ च -

दिवा जन्मदिने चैव न कुर्यान्मैथुनं व्रती ।
श्राद्धं कृत्वा च भुक्त्वा च श्रेयोऽर्थी न च पर्वसु[^१-१]

इति ॥

॥ अथात्र निषेककर्मणि ग्राह्यतिथ्यादि विशेषमाह नि॰ श्रीधरः –

षष्ठ्यष्टमीं पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र हित्वा ।
शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्काऽऽर्यसितेन्दुजानाम् ॥ ॥

विष्णु प्रजेशरविमित्रसमीरपौष्णमूलोत्तरावरुणभानि निषेककार्ये ।
पूज्यानि पुष्यवसुशीतकराश्चिचित्रादित्याश्च मध्यमकला विपुला स्युरन्ये

इति ॥ ॥ वैद्यना॰ -

वृषभमिथुनकर्किसिंहकन्यातुलघटचापझषाः शुभाः भवन्ति ।
यदि शुभबलकारिणोऽनुकूला निधनविशुद्धिकरा निषेककार्ये

इति ॥ ॥ अत्र गुरुशुक्रयोरस्तदोषो3 मलमासश्च नास्तीत्युक्तं सं॰ मालायाम् –

उत्सवेषु च सर्वेषु सीमन्तऋतुजन्मनोः ।
सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते

गर्भाधानादिकर्मणि नाधिमासे विवर्जयेत्

इति ॥ ॥ अथ गर्भाधानं प्रथमार्तवे तिथ्याद्यन्यतमदोषस्य नित्यत्वाच्छान्तिपूर्वकं कार्यं, शान्तिश्च रजोनिवृत्तिनिश्चये चतुर्थेऽह्नि अन्यथा पञ्चमेऽह्नि प्रकर्तव्या -

तिथिवारनक्षत्रयोगकरणलग्नशान्त्यर्थं चतुर्थे वा पञ्चमेऽह्नि वा शान्तिस्नानं प्रकुर्वीत

इति सूत्रोक्तेः ।

अर्थपुत्रादिलाभाय दम्पत्योरभिवृद्धये ।
पञ्चमेऽह्नि चतुर्थे वा ग्रहयज्ञपुरःसरम् ।
तस्मिन्नहनि कर्तव्यमृतुहोमो विधानतः

इति प्र॰ पारजातोक्तेश्च ॥ ग्रहयज्ञस्त्वत्र न नियतो बौधायनानाम्, स्वयं ऋतुशान्तिं विदधताऽऽचार्येण स्फुटमनुक्तत्वात् ॥ तथा चात्र प्रथमार्तवे ऋतुशान्तिः ऋतुसंवेशनं गर्भाधानहोमश्चेति त्रीणि कर्तव्यानि भवन्ति ।

गर्भाधानप्रयोगः

अथ गर्भाधानप्रयोगः ॥ कर्ता पूर्वोक्तनिर्णयान्निर्णीते जन्मनक्षत्रवर्जिते शुभे मुहूर्ते सभार्यः प्रातर्मंगलस्नानादि नित्यकर्म कृत्वा वैश्वदेवं हुत्वा स्नानादिचतुष्टयं विधाय पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य

मम अस्यां भार्यायां जनिष्यमाणगर्भस्य बीजगर्भसमुद्भवैनोनिबर्हणपूर्वकं प्रजासंस्कारातिशयप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्म करिष्ये, तदादौ मम भार्यायाः प्रथमरजोदर्शनकाले समुत्थिततिथिवारनक्षत्रयोगकरणलग्नदोषशांत्यर्थं ऋतुशांति करिष्ये, (ग्रहशांतिं चिकीर्षायां ग्रहशांतिपूर्वकमृतुशांतिं करिष्ये, इत्यूहेत् ) तदंगत्वेनादौ शांत्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृद्ध्यर्थमभ्युदयार्थञ्चैभिर्ब्राह्मणैः सह पुण्याहवाचनपूर्वकं नांदीश्राद्धं स्वस्तिपुण्याहवाचनं निर्विघ्नतासिध्यर्थमादौ गणपतिपूजनं च करिष्ये

इति संकल्प्य गणपतिपूजनं नांदीसमाराधनं3 उदकशांतिप्रतिसरबन्धौ च कृत्वा प्रधानपुण्याहवाचनं कुर्यात् । तत्र “सवितृवेधसौ प्रीयेतां” इति विशेषः ॥ अथर्तुशांतिं कुर्वन् देवालये गृहे वा शुचौ समे देशे उद्धृत्यावोक्ष्य प्रस्थाष्टभिर्धान्यैस्तदर्धतंडुलैस्तदर्धतिलैश्चोपर्युपरि अरत्निमात्रं समचतुरश्रं स्थंडिलं कृत्वा तन्मध्ये नळिनमष्टदळमुल्लिख्य दूर्वाक्षतफलैरवकीर्य प्रागग्रान्दर्भान् संस्तीर्य गंधोदकेनाभ्युक्ष्य पुष्पैरवकीर्य तंतुवेष्टितं सुधूपितं कुंभं प्रोक्षण्या सहोत्तरतः सादयित्वा तूष्णीं संस्कृताभिः प्रोक्षणीभिः प्रोक्ष्य “ब्रह्म जज्ञानम्" इति मन्त्रेण स्थण्डिलमध्ये कुम्भं निधाय पवित्रमन्तर्धाय

आपो वा इदँ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्प्राडापो विराडापः स्वराडापश्छन्दाँ स्यापो ज्योतीँ ज्यापो यजूँ ष्यापः सत्यमापः सर्वी देवता आपो भूर्भुवः सुवराप ओम् [[TODO: परिष्कार्यम्]]

इत्यनुवाकेन अब्लिङ्गाभिश्चोदकैः पूरयित्वा गन्धादिभिरलंकृत्य पञ्च मृत्तिकाः पञ्च पल्लवान् पञ्च त्वचश्च निक्षिप्य नवरत्नमीषत्काञ्चनं4 प्रक्षिप्य नववस्त्रेणाच्छाद्य चूतपल्लवैर्बिल्वपल्लवैर्वावकीर्य नाळिकेरफलेनापिधाय दर्भैर्दूर्वादिना प्रतिच्छाद्य सम्परिस्तीर्य कुम्भे वरुणमावाह्य सम्पूज्य तत्रैव “ब्रह्म जज्ञानम्” इति मन्त्रेण पुरुषं पुण्डरीकाक्षं ध्यात्वा व्याहृतिभिरावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ (अत्र कुम्भस्योत्तरतः कूर्चान्तर्हिते पात्रे

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिकाव्णेति वै दधि ॥
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम्

इत्येवं क्रमेण पञ्चगव्यं संयोज्य प्रणवेनालोड्य कुम्भे किञ्चिन्निक्षिपेत् ॥) ततोऽस्मिन् ऋतुशान्तिकर्मणि पूर्वस्यां दिशि जपार्थ त्वामहं वृणे, इत्यादि चतुरोऽष्टौ वा श्रोत्रियान्विप्रानाचार्यञ्च वृत्वा गन्धादिभिरभ्यर्चयेत् ॥ अथाचान्ता ऋत्विजः कुम्भमन्वारभ्य जपेयुः -

ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् [[TODO: परिष्कार्यम्]]

इति वैष्णवीं गायत्रीमष्टसहस्रमष्टशतं वा ।

अ॒ग्निमी॑ळे॰ ॥ इ॒षे त्वो॒र्जे त्वा॑॰ ॥ अग्न॒ आया॑हि॰ ॥ शं नो॑ दे॒वीः

इति वेदादीन् । “आपो॒ हि ष्ठा" इति तिस्त्रः ॥ “हिर॑ण्यवर्णाः॒ शुच॑यः, पव॑मानः॒ सुव॒र्जनः॑” इति द्वावनुवाकौ ॥ वरुणसूक्तं5, श्रीसूक्तं, पुरुषसूक्तम् ॥

ॐ भद्रं कर्णभिः शृणुयाम देवाः ॥ भदं पश्येमाक्षमिर्यजत्राः ॥ स्थिरैरलैस्तुष्टुवारसस्तनूभिः॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इंद्रो वृद्धा श्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ ॐनमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ॥ नमो वाचे नमो वाचस्पतये नमो विष्णवे || बृहते करोमि ॥ ॐ शान्तिः शान्तिः शान्तिः॥ ॥ॐ तच्छं योरावृणीमहे ॥ गातुं यज्ञाय ॥ गातु यज्ञप॑तये ॥ देवी स्वस्तिरस्तु नः ॥ स्वस्तिर्मानुषेभ्यः ॥ ऊर्ध्व जिंगातु भेषजम् ॥ शं नो अस्तु द्विपदे । शं चतुष्पदे.॥ॐ शान्तिः ॥ ॥ॐनमो वाचे या चोदिता या चानुदिता तस्यै’ वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृयो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो’ मन्त्रपतयः परादुर्माहमृषीन्मन्त्रकृतो’ मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यास शिवामदस्तां जुष्टो देवेभ्यः शर्म मे द्यौः शर्म पृथिवी शर्म है। | विश्वमिदं जगत् !। शर्म’ चन्द्रश्च सूर्यश्च शमै ब्रह्मप्रजापती ॥ भूतं वदिष्ये भुवनं वदिष्ये तेजो’ वदिष्ये यशो वदिष्ये तपो’ वदिष्ये । ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुप स्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै ।। पशूनां भूयास प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु । वदिष्यामि मधुमती देवेभ्यो वाचमुद्यास’ शुश्रूषेण्यां’ मनुष्यभ्यस्तम्मा देवा अवंतु शोभायै पितरोऽनुमवन्तु ॥ ॐ शान्तिः ॥ ॥ॐ शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः ॥ अहानि शं भवन्तु नः शर रात्रिः प्रतिधी यताम् ॥ शमुषानो व्युच्छतु शमादित्य उदतु नः ॥ शिवा नः शन्तमा भव समृडीका सरस्वति ॥ मा ते व्योम सन्दृशि ॥ इडायै वास्त्वसि वास्तुमास्तुमन्तो भूयास्म मा वास्तौश्छित्स्मावास्तुः स भूयायो ऽस्मान्द्वेष्टि यच वयं द्विष्मः॥ प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायोश्छित्स्मह्यप्रतिष्ठः स भूयाद्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥ आ वात वाहि भेषजं वि वात वाहि यद्रपः॥ त्व- हि विश्वभेषजो देवानी दूत ईय॑से । द्वाविमौ वातौ वात आसिन्धोरापरावतः ॥ दक्षं मे अन्य आ वातु परान्यो वातु यदपः ॥ यदो वात ते गृहे’ऽमृतस्य निधिर्हितः ॥ ततो नो देहि जीवसे ततो नो धेहि भेषजम् ॥ ततो नो मह आ वह वात आवातु भेषजम् ॥ शम्भूर्मयोभू!’ हृदे प्र ण आयू षि तारिषत् ॥ इन्द्रस्य गृहो’ऽसि तं त्वा प्रपद्ये सगुः साश्वः ॥ सह यन्मे अस्ति तेन ॥ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्येऽना देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये ॥ प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओं प्रपद्ये ॥ अन्तरिक्ष म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्ति मान्तया स्वस्त्या स्वस्ति मानसानि ॥ प्राणापानौ मृत्योर्मा’ पातं प्राणापानौ मा मा हासिष्टं मयि मेधां माय’ प्र॒जां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्र॒जां मर्यान्द्र इंद्रियं दधातु मर्यि मेधां मयि प्र॒जां मयि सूर्यो भ्राजो दधातु ॥ झुभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्चिना सौभगेभिः ॥ तन्नो मित्रो वरुणो मामहन्तामदितिः सिंधुः पृथिवी उत द्यौः॥ कया नश्चित्र आभुवदूती सदावृधः सखा ॥ कया शचिया वृता ॥ कस्त्वा सत्यो मदानां महिष्ठी मत्सदन्धसः ॥ दृढाचिदारुजे वसु ॥ अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः॥ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः॥ अपध्वान्तमूणुहि पूर्धि चक्षुमुर्मुग्ध्यस्मानिधयेव। बद्धान् ॥ शं नो देवीरभिष्टय आपो भवन्तु पीतये ॥ शं योरभिस्रवन्तु नः ॥ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ॥ अपो याचामि भेषजम् ॥ सुमित्रा न आप ओषधयः सन्तु दुमित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥ आपो हि धा मयो भुवस्तान ऊर्जे दधातन ॥ महे रणाय चक्षसे ॥ यो वः शिवतमोरसस्तस्य भाजयतेह नः॥ उशतीरिव मातरः॥ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ॥ आपो जनयथा च नः॥ पृथिवी शान्ता साग्निना शान्ता सा मै शान्ता शुच ५ शमयतु ॥ अन्तरिक्ष शान्त तद्वायुना शान्तं तन्मे शान्तः शुच शमयतु ॥ द्यौः शान्ता सादित्येन शान्ता सा मे शान्ता शुच शमयतु ॥धृथिवी शान्तिरन्त रिक्ष शान्तिीः शान्तिर्दिशः शान्तिरवान्तरदिशाः शान्तिराग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चद्रमाः शान्तिनक्षत्राणि शान्तिरापः शान्तिरोषधयश्शान्तिवनस्पतयः शान्तिर्गौः शान्तिरजा शान्तिरश्वः शान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिाह्मणः शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः॥ तयाऽहर शान्त्या सर्वशान्त्या मह द्विपदे चतुष्पदे च शान्ति करोमि शान्ति अस्तु शान्तिः ॥ एह श्रीश्च ह्रीश्च धृतिश्च तपो’ मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोतिष्ठन्तमत्तिष्ठन्तु मा मा श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः॥ उदायुषा स्वायुषोदोषधीनार रसेनोत्पर्जन्यस्य शुष्मेणोवस्थाममृता अर्नु ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शत५ गुणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदः शतं ज्योश्च सूर्य दृशे ॥ य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समावृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ॥ ब्रह्मणश्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमे ऽनेन महदन्तरिक्षं दिव दाधार पृथिवीर सदेवा यदहं वेद तदहं । धारयाणि मा मद्वेदोऽधि विस्रसत् ॥ मेधामनीषे माविशता ५ समीची’ भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि ॥ आभिर्गीर्भिर्यदतो’ न ऊनमाप्यायय हरिवो वर्धमानः ॥ यदा स्तोतृभ्यो महि गोत्रा जासि भूयिष्ठभाजो अर्थ ते स्याम ॥ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ॐ शान्तिः शान्तिः शान्तिः ॥ [[TODO: परिष्कार्यम्]]

इति पञ्चशान्तिम् ॥ ॥

ऋचां प्राची महती दिगुच्यते ॥ दक्षिणामाहुर्यजुषामपाराम् ॥ अथर्वणामङ्गिरसा प्रतीची ॥ साम्नामुदीची महती दिगुच्यते ॥ ऋग्भिः पूर्वाह्ने दिवि देव ईयते॥ यजुर्वेदे तिष्ठति मध्ये अह्नः ॥ सामवेदेनास्तमये महीयते॥ वेदैरशून्यस्त्रिभिरेति सूर्यः॥ ऋग्भ्यो जाताँ सर्वशो मूर्तिमाहुः ॥ सर्वा गतिर्याजुषी हैव शश्चत् ॥ सर्व तेजः सामरूप्य है शश्वत् ॥ सर्वँ हेदं ब्रह्मणा हैव सृष्टम् ॥ ऋग्भ्यो जातं वैश्यं वर्णमाहुः ॥ यजुर्वेद क्षत्रियस्याहुर्यो निम्॥ सामवेदो ब्राह्मणानां प्रसूतिः॥ पूर्वे पूर्वभ्यो बच एतदूचुः॥ आदर्शमग्निं चिन्वानाः ॥ पूर्व विश्वसृजोमृताः ॥ शतं वर्षस | हस्राणि ॥ दीक्षिताः सत्रमासत॥ तप आसीद्गृहप॑तिः॥ ब्रह्म ब्रह्माभवत्स्वयम् ॥ सत्यँ ह होतेषामासीत् ॥ यद्विश्वसृज आसत ॥ अमृतमभ्य उद्गायत् ॥ सहस्र परिवत्सरान् ॥ भूतँ है प्रस्तोतैषामासीत् । भविष्यत्प्रति चाहरत् ॥ प्राणो अध्वर्युरभवत् ॥ इद्ँ सर्वँ सिांसताम् ॥ अपानो विद्वानावृतः ॥ प्रति प्रातिष्ठध्वरे ॥ आर्तवा उपगातारः ॥ सदस्या ऋतोऽभवन् ॥ अर्धमासाश्च मासाश्च ॥ चमसाध्वर्यवोऽभवन् ॥ अशरसद्ब्रह्मणस्तेजः ॥ अच्छावाकोऽभवद्यशः ॥ ऋतमेषां प्रशास्तासीत् ॥ यद्विश्वसृज आसत ॥ ऊर्याजानमुदवहत् ॥ ध्रुवगोपः सहोऽभवत् ॥ ओजोभ्यष्टौद्मादणः ॥ यद्विश्वसृज आसत ॥ | अपचिप्तिः पोत्रीयोमयजत् ॥ नेष्ट्रीयामयजत्विर्षिः॥ आग्नीधाद्विदुषी’ सत्यम् ॥ श्रद्धा हैवार्यजत्स्वयम् ॥ इरा पत्नी विश्वसृजाम् ॥ आकूतिरपिनढविः ॥ इध्म ५ ह क्षुच्चैभ्य उने ॥ तृष्णा चावहतामुभे॥ वागेषा सुब्रह्मण्यासीत् ॥ छन्दोयोगान्विजानती ॥ कल्पतन्त्राणि तन्वानाहः ॥ स र स्थाश्च सर्वशः ॥ अहोरात्रे पशुपाल्यौ । मुहुर्ताः प्रेष्या अभवन् । मृत्युस्तदभवद्धाता ॥ शमितोयो । विशांपतिः ॥ विश्वसृजः प्रथमास्सत्रमासत ॥ सहस्रसम प्रसुतेन यन्तः ॥ ततो ह जज्ञे भुवनस्य गोपाः ॥ हिरण्मयः शकुनिर्ब्रह्म है नाम ॥ येन सूर्यस्तपति तेजसेद्धः ॥ पिता पुत्रेण पितृमान्योनियोनौ ॥ नावेदविन्मनुते तं बृहन्तम् ॥ सर्वानुभुमात्मान सम्पराये ॥ एष नित्यो महिमा ब्राह्मणस्य ॥ न कर्मणा वर्धते नो कनीयान् ॥ तस्यै वात्मापदवित्तं विदित्वा ॥ न कर्मणा लिप्यते पापैकेन ॥ पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः॥ पञ्चपञ्चाशतः पञ्चदशाः ॥ पञ्चपञ्चाशतस्सप्तदशाः । पञ्चपञ्चाशत एकवि ५ शाः॥ | विश्वसृजार सहस्रसंवत्सरम् ॥ एतेन वै विश्वसृज इदं विश्वमसृजन्त ॥ यद्विश्वम जन्त ।। तस्माद्विश्वसृजः ॥ विश्वमेनाननुप्रजायते ॥ ब्रह्मणस्सायुज्य सलोकता’ यति ॥ एतासामेव देवतानार सायुज्यम् ॥ साष्टितार समानलोकतां’ यन्ति । य एत | दुपयन्ति । ये चैनत्याहुः ॥ येभ्यश्चैनत्माहुः ओम्" [[TODO: परिष्कार्यम्]]

इत्येतमनुवाकञ्च जपित्वा ॥

नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒॰ बृह॒ते क॑रोमि

इति परिधानीयां त्रिरनूच्य प्रणवेन कुम्भमुत्थाप्य ॥ “आभिर्गीर्भिः" इति मन्त्रं जपेयुः ॥ अथ कुम्भं पुनस्सम्पूज्य ॥ व्याहृतिभिर्देवतामुद्वास्यालंकृतां पत्नीमङ्गणे विष्टरे प्राङ्मुखीमुपवेश्य ऋत्विजः कुम्भोदकैः “आपो हि ष्ठा" इति तिसृभिः “देवस्य त्वा" इति त्रिभिः पर्यायैश्च प्रोक्ष्य ॥

ऋतञ्च सत्यं चाभीद्धात्तपसोध्यजायत । ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥ समुद्रादर्णवादधिसंवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ॥ दिवं च पृथिवीं चान्तरिक्षमथो सुवः [[TODO: परिष्कार्यम्]]

इति त्रिभिर्मन्त्रैः स्नापयेयुः ॥ ततस्तामहतवासोविभूषितां प्राङ्मुखोपविष्टामाचार्यः पञ्चगव्यं

यत्वगस्थिगतं पापं देहे तिष्ठति मामके ॥
प्राशनं पञ्चगव्यस्य दहत्वग्निरिवेन्धनम्

इति वाचयन्प्राशयेत् ॥

ऋतुशान्तिहोमप्रयोगः

अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलमुपलिप्योल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

मम भार्यायाः प्रथमरजोदर्शनकाले जनिततिथिवारनक्षत्रयोगकरणलग्नादिदोषशान्त्यर्थं ऋतुशान्तिहोमं6 करिष्ये ॥ ऋतुशान्तिहोमः कर्म, आघारवत्तन्त्रम्, पञ्चदश सामिधेन्यः, वरदो नामाग्निः, सविता देवता, चरुर्हविः, उपहोमश्च-विष्णुसूक्तेन पलाशसमिद्भिः प्रत्यृचमष्टादशावृत्याष्टोत्तरशतसंख्याहुतिभिः, एवं ब्रह्मसूक्तेनान्नेन, रुद्रसूक्तेनाज्येन, चाष्टोत्तरशतसंख्याहुतिभिः, ऋतुनक्षत्रमन्त्राभ्यां समिच्चर्वाज्यद्रव्यैः प्रत्येकं प्रतिमन्त्रं चतुर्दशावृत्याष्टाविंशत्याहुतिभिः, त्र्यंबकमन्त्रेण तिलद्रव्येणाष्टोत्तरशताहुतिभिः, घृतसूक्तेनाज्येन मन्त्रसंख्ययाष्टाहुतिभिः अग्निः स्विष्टकृत्

इत्यादि सङ्कल्प्याग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा पलाशसमिद्भिः

विष्णोर्नु कं, तदस्य प्रियं, प्रतद्विष्णुः, परो मात्रया, विचक्रमे, त्रिदेवः

इति षण्मन्त्रेण विष्णुसूक्तेन प्रतिमन्त्रमष्टादशावृत्याष्टोत्तरशताहुतीर्जुहुयात् ॥ एवं

ब्रह्म जज्ञानम्, पिता विराजाम्, ब्रह्म देवान्, अन्तरस्मिन्, ब्रह्मन्दवाः, चतस्त्र आशाः

इति षण्मन्त्रेण ब्रह्मसूक्तेनान्नेन॰ ।

परि णो रुद्रस्य, स्तुहि श्रुतम्, मीढुष्टम, अर्हन्बिभर्षि, त्वमग्ने रुद्रः, आवो राजानम्

इति षण्मन्त्रेण रुद्रसूक्तेनाज्येन चाष्टोत्तरशताहुतीर्जुहुयात् ॥ एतेषु त्रिषूद्देशत्यागः क्रमेण -

विष्णव इंद॰ । ब्रह्मण इदं॰ । रुद्रायेदं॰ ।

इति ॥ ततः “अग्निर्नः पातु, यस्य भांति” इति मन्त्राभ्यां कृत्तिकानक्षत्रस्य ॥ “प्रजापते रोहिणी, रोहिणी देवी" इति रोहिण्याः ॥ “सोमो राजा, यत्ते नक्षत्रं मृगशीर्षम्” इति मृगशीर्षस्य ॥ “आईया रुद्रः, हेती रुद्रस्य" इत्यार्द्रायाः ॥ “पुनों देवी, एवान देवी" इति पुनर्वस्वोः ॥ “बृहस्पतिः प्रथमम्, तिष्यः पुरस्तात्" इति तिष्यस्य ॥ “इदँ सर्पेभ्यो, ये रोचने" इत्याश्लेषानक्षत्रस्य ॥ “उपहूताः पित्तरः, ये अग्निदग्धाः” इति मघायाः ॥ “गवां पतिः, येनेमा विश्वा” इति पूर्वाफल्गुन्योः ॥ “श्रेष्ठो देवानां भगवः, भगो ह दाता" इत्युत्तराफल्गुन्योः ॥ “आयातु देवः, हस्तः प्रयच्छतु" इति हस्तस्य ॥ “त्वष्टा नक्षत्रं, तन्नस्त्वष्टा" इति चित्रायाः ॥ वायुर्नक्षत्रं, तन्नो वायुः" इति स्वात्याः ॥ “दूरमस्मत्, नक्षत्राणामधिपत्नी” इति विशाखयोः ॥ “ऋध्यास्म हव्यैः, चित्रं नक्षत्रम्" इत्यनूराधायाः ॥ “इन्द्रो ज्येष्ठां, पुरन्दराय” इति ज्येष्ठायाः ॥ “मूलं प्रजां, अहर्नो अद्य” इति मूलस्य ॥ “ या दिव्या आपः, याश्च कूप्याः” इति पूर्वाषाढायाः ॥ “तन्नौ विश्वे, शुभ्राः कन्याः" इत्युत्तराषाढायाः ॥ “शृण्वन्ति श्रोणां, त्रेधा विष्णुः” इति श्रवणस्य ॥ “अष्टौ देवा वसवः, यज्ञं नः पान्तु वसवः” इति धनिष्ठायाः ॥ “क्षत्रस्य राजा, यज्ञं नो राजा" इति शतभिषजः ॥ अज एकपात्, विभ्राजमानः ” इति पूर्वाप्रोष्ठपदः ॥ “अहिर्बुन्धियः प्रथमानः, चत्वार एकम्” इत्युत्तराप्रोष्ठपदः ॥ “पूषा रेवती, क्षुद्रान्पशून् रक्षतु ” इति रेवत्याः ॥ “तदश्विनौ, यौ देवानाम्” इत्यश्विन्याः ॥ “अप पाप्मानं, यस्मिन्नक्षत्रे यमः" इति भरण्याः ॥ एवं तत्तन्नक्षत्रोक्तमन्त्राभ्यां प्रतिमन्त्रं चतुर्दशावृत्याष्टाविंशत्यष्टाविंशतिसमिच्चर्वाज्याहुतीर्जुहुयात् ॥ त्यागे तत्तनक्षत्रदेवता उद्दिशेत् ॥ तद्यथा -

अग्नये कृत्तिकाभ्य इदं॰ ॥ प्रजापतये रोहिण्या इदं॰ ॥ सोमाय मृगशीर्षायेदं॰ ॥ रुद्रायाऽऽद्रार्या इदं॰ ॥ अदित्यै पुनर्वसुभ्यामिदं॰ ॥ बृहस्पतये तिष्यायेदं॰ ॥ सर्पेभ्य आश्लेषाभ्य इदं॰ ॥ पितृभ्यो मघाभ्य इदं॰ ॥ अर्थम्णे फल्गुनीभ्यामिदं॰ ॥ भगाय फल्गुनीभ्यामिदं॰ ॥ सवित्रे हस्तायेदं॰ ॥ त्वष्ट्रे चित्राया इदं॰॥ वायवे निष्ठ्याया इदं॰ ॥ इन्द्राग्निभ्यां विशाखाभ्यामिद॰ ॥ मित्रायाऽनूराधेभ्य इदं॰ । इन्द्राय ज्येष्ठाया इदं॰ ॥ प्रजापतये मूलायेदं॰ ॥ अद्भ्योऽषाढाभ्य इदं॰ ॥ विश्वेभ्यो देवेभ्योऽषाढाभ्य इदं॰॥ विष्णवे श्रोणाया इदं॰ ॥ वसुभ्यः श्रविष्ठाभ्य इदं॰ ॥ वरुणाय शतभिषजे भेषजेभ्य इदं॰ ॥ अजायैकपदे प्रोष्ठपदेभ्य इदं॰ ॥ अहये बुध्नियाय प्रोष्ठपदेभ्य इदं॰ ॥ पूष्णे रेवत्या इदं॰ ॥ अश्विभ्यामश्वयुग्भ्यामिदं॰ ॥ यमायाऽपभरणीभ्य इदं॰ ॥

इति ॥ ततः “व्यम्बकं यजामहे" इति मन्त्रेणाऽष्टोत्तरशततिलाहुतीर्तुत्वा (त्र्यंबकायेद॰)॥ अथ ‘यो ब्रह्म ब्रह्मण॰ घृतेन स्वाहा’ ॥ (ब्रह्मण इदं॰) ॥ ‘विभ्राजमानः॰ घृतमत्तु देवः स्वा॰ ॥ (देवायेदं॰) ॥ ‘ब्रह्म ज्योतिः॰ वर्धयामो घृतेन स्वाहा’ ॥ (अर्कायेदं॰) ॥ श्रियं लक्ष्मीं॰ तर्पयामो घृतेन स्वाहा’ ॥ (विद्याया इदं॰)॥ ‘दाक्षायण्यः॰ घृतमिदं जुषंताँ स्वाहा’ ॥ (दाक्षायणीभ्य इदं॰)॥ ‘दिव्या गणा बहुरूपाः॰ वीरान् स्वाहा’ ॥ (दिव्येभ्यो गणेभ्य इदं॰) ॥ ‘एकः पुरस्ताद्यः॰ आयुषेत्तु देवः स्वाहा’ ॥ (देवायेदं॰) ॥ ‘वसून् रुद्राना॰ शश्वत्स्वाहा’॥ (वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भ्यः साध्येभ्यो ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भृगुभ्यः सर्पेभ्योङ्गिरोभ्य इदं॰) ॥ इत्यष्टौ घृताहुतीश्च जुहुयात् ॥ ततः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथ “प्रजापतिः प्रीयताम्” इति पुण्याहं वाचयित्वा होमशेषं समाप्य ऋत्विग्भ्यो दक्षिणां ददात्याचार्याय विशेषतः ॥ ततः पत्नी दोषात्प्रमुक्ता भर्तारमादित्यञ्चेक्षेत ॥ इत्यृतुशान्तिप्रयोगः ॥

प्रथमसंवेशनविच्छेदप्रायश्चित्तम्

॥ अथ प्रथमर्तुसंवेशनविच्छेदप्रायश्चित्तम् ॥ अथ यदि गृहस्थस्य विद्यार्थिनः स्त्रियाभ्यनुज्ञातस्य प्रथमर्तुसंवेशनविच्छेदस्स्यात्तदा स ब्राह्मणेभ्यो निवेद्य तदुपदिष्टव्रतं

ऋतुस्नातां न चेद्गच्छेन्नियतां धर्मचारिणीम् ॥
नियमातिक्रमे तस्य प्राणायामशतं स्मृतम्

इति धर्मसूत्रोक्तं शतप्राणायामरूपकृच्छ्रं वा चरित्वा अग्निमुपसमाधायाचम्य प्राणानायम्य देशकालो सङ्कीर्त्य

मम भार्यायाः प्रथमर्तुसंवेशनप्रायश्चित्तहोमाख्यं कर्म करिष्ये ॥ चित्तिर्नामाग्निः, जातवेदोऽग्निर्देवता, चरुर्हविः

इत्यादि संकल्प्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति –

ॐ यस्त्वा हृदा कीरिणा मन्यमानोऽ मर्त्यं मर्त्यो जोहवीमि ॥ जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्यों ३ यस्मै त्वँ सुकृते जातवेद उलोकमग्ने कृणवः स्योनम् ॥ अश्विनँ सपुत्रिणं वीरवन्तं गोमन्तँ रयिं नशते स्वस्ति स्वाहा ॥ [[TODO: परिष्कार्यम्]]

(जातवेदसेग्नय इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति ॥

मधु॑श्च॒ स्वाहा॑, (मधव इदं॰) ॥ माध॑वश्च॒ स्वाहा॑, (माधवायेदं॰)॥ शु॒क्रश्च॒ स्वाहा॑, (शुक्रायेदं॰) ॥ शुचि॑श्च॒ स्वाहा॑, (शुचय इदं॰) ॥ नभ॑श्च॒ स्वाहा॑, (नभायेदं॰)॥ न॒भ॒स्य॑श्च॒ स्वाहा॑, (नभस्यायेदं॰) ॥ इ॒षश्च॒ स्वाहा॑, (इषायेदं॰)॥ ऊ॒र्जश्च॒ स्वाहा॑, (ऊर्जायेदं॰)॥ सह॑श्च॒ स्वाहा॑, (सहायेदं॰) ॥ स॒ह॒स्य॑श्च॒ स्वाहा॑, (सहस्यायेदं॰)॥ तप॑श्च॒ स्वाहा॑, (तपायेदं॰) ॥ त॒प॒स्य॑श्च॒ स्वाहा॑, (तपस्यायेदं॰) ॥ सँ॒ सर्पो॑ऽस्यँ हस्प॒त्याय॑ त्वा॒ स्वाहा॑, (सँ सर्पायाऽँहस्पत्यायेदं॰) ॥ इति ॥

एवं त्रयोदश स्रुवाहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्कृत्वा अपरेणाग्निमाज्यशेषमुदकशेषं चोभौ जायापती प्राश्नीयाताम् ॥ गायत्र्या प्राश्याप आचम्य

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः

इति द्वाभ्यां जठरमभिस्पृश्य होमशेषं समापयेत् ॥ इत्यृतुसंवेशनविच्छेदप्रायश्चित्तम् ॥

गर्भाधानहोमः

अथ गर्भाधानहोमः ॥ यजमानः सपत्नीकः शुचौ समे देशे देवयजनोल्लेखनप्रभृतिगृह्याग्निं7 प्रतिष्ठाप्याचमनादिदेशकालकीर्तनान्ते

ममास्यां भार्यायां जनिष्यमाणगर्भस्य बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरं प्रजासंस्कारातिशयद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानहोमं करिष्ये ॥

अन्वाधाने - मारुतो नामाग्निः, वेधा देवता, चरुर्हविः, इत्यादि सङ्कल्प्याऽग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

ॐ प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अ॒स्त्वव देवान्यजे हेड्यो ३म् प्रवेधसे॰ यजे हेड्यान्त्स्वाहा ॥ [[TODO: परिष्कार्यम्]]

(वेधस इदं॰) ॥ ततः स्विष्टकृतमवदायाऽन्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति -

ॐ ज्येष्ठाय स्वाहा, (ज्येष्ठाय इदं॰) ॥ ॐ श्रेष्ठाय॰, (श्रेष्ठाय इदं॰) ॥ ॐ प्रतिष्ठायै॰, (प्रतिष्ठाया इदं॰) ॥ ॐ प्रतिष्ठित्यै॰, (प्रतिष्ठित्या इदं॰) ॥ ॐ सम्पत्यै॰, (सम्पत्या इदं॰) ॥ ॐ सम्पतये॰, (सम्पतय इदं॰) ॥ ॐ ब्रह्मणे॰, (ब्रह्मण इदं॰) ॥ ॐ आयतनवते॰ (आयतनवत | इदं॰) ॥ एवमष्टभिर्तुत्वा स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात्कृत्वा हविष्यमन्नमभिमन्त्रयते -

तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् ॥ श्रेष्ठँ सर्वधातमम् । तुरंभगस्य धीमहि [[TODO: परिष्कार्यम्]]

इति । अपरेणाग्निमुपविश्य जायापती प्राश्नीयाताम् - “तत्सवितुर्वरेण्यं॰ प्रचोदयात्" इति प्राश्याप आचम्य जठरमभिमृशति -

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः

इति द्वाभ्याम् ॥

तत उत्तरपरिषेकादि होमशेषं समापयेत् ॥ यं कामं कामयते तं मनसा ध्यायेत् ॥ यथाशक्ति ब्राह्मणान्सम्भोज्य दक्षिणादिभिः सन्तोष्य तेभ्यश्चाशिषो गृहीयात् ॥ इति गर्भाधानहोमः॥

ऋतुसंवेशनम्

अथ ऋतुसंवेशनम् ॥ अथ निशायां यजमानः स्वयमलङ्कृतः पत्नीञ्चालङ्कृत्याऽऽचम्य देशकालौ सङ्कीर्त्य

ममास्यां भार्यायामायुष्मत्स्वरूपसुगुणसुपुत्रमुत्पादयितुमृतुसंवेशनं करिष्ये

इति सङ्कल्प्य गणपतिं सम्पूज्य सुवासिनीब्राह्मणांश्च गन्धपुष्पादिभिरभ्यर्च्य -

फलं मनोरथफलं प्रददाति सदा नृणाम् ।
पुत्रपौत्राऽभिवृध्यर्थमतः शान्ति प्रयच्छ मे

ताम्बूलं श्रीकरं भद्रं ब्रह्मविष्णुशिवात्मकम् ।
तस्मादस्य प्रदानेन स मे विष्णुः प्रसीदतु

हिरण्यगर्भगर्भस्थं॰ प्रयच्छ मे

इति फलताम्बूलहिरण्यानि तेभ्यो दद्यात् ॥ अथ पुरन्ध्र्यः पत्न्याः परिहितमङ्गलवस्त्रे फलताम्बूलतण्डुलादिकं पूरयेयुः –

याः फलिनीः॰ अँ हसः ॥ पुष्पावतीः प्रसूवतीः फलिनीरफला उत । अश्वा इव सजित्वरीवर्वीरुधः पारायिष्णवः

इति ॥ ततो बान्धवा दम्पत्योर्मङ्गलवस्त्राणि दद्युः पुरन्ध्र्यो मङ्गलार्तिक्यं कुर्युः ब्राह्मणा मन्त्राक्षतान्दद्युः ॥ अथालङ्कृतां भार्यां हस्ते फलताम्बूलतण्डुलैः पूर्णं पात्रं दत्वा शयनेऽभिमन्त्रयते -

ॐ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते॥ यथाग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी । वायुर्या दिशां गर्भ एवं गर्भं दधातु ते ॥ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भन्ते अश्विनौ देवावाधत्तां पुष्करस्रजा॥ हिरण्ययी अरणी यन्निर्मन्थतो अश्विना । तं ते गर्भँ हवामहे दशमे मासि सूतवे ॥ नेजमेष परापत सुपुत्रः पुनरापत । अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमान् [[TODO: परिष्कार्यम्]]

इति ॥ अथैनां परिष्वजति -

अमूहमस्मि । सात्वम् । धौरहं । पृथिवी त्वम् । रेतोहम् । रेतोभृत्वम् । मनोहमस्मि । वाक्त्वम् । सामाहमस्मि । ऋक्त्वम् ॥ तावेहि सम्भवाव । सह रेतो दधावहै । पुँसे पुत्राय वेत्तवै । रायस्पोषाय सुप्रजासत्वाय सुवीर्याय [[TODO: परिष्कार्यम्]]

इति ॥ आत्मानं प्रत्यभिमृशते -

अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पितृणामहं जनिभ्यो अपरीषु पुत्रान् [[TODO: परिष्कार्यम्]]

इति ॥ अप उपस्पृश्याऽथैनामुपैति -

तां पूषञ्छिवतमामेरेयस्व यस्यां बीज मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहराम शेपम् [[TODO: परिष्कार्यम्]]

इति ॥ ततो मूत्रवच्छौचं कृत्वा द्विराचामेत् ॥ एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति ॥ प्रजानिःश्रेयसमृतुगमनमित्याचार्याः ॥ सर्वाण्यृतुगमनानि मन्त्रवन्ति भवन्तीति बोधायनः ॥ यच्चादौ यच्चर्ताविति शालीकिः ॥ रात्रौ मन्त्रवदृतुगमने स्वयमशक्तो दिवैव गर्भाधानहोमानन्तरं तत्पूर्वं वा तन्मन्त्रपठनं कृत्वा रात्रौ तूष्णीमुपगच्छेदिति शिष्टाचारः ॥ इति ऋतुसंवेशनम् ॥


  1. क्षेत्रसंस्कारमित्यर्थः ॥ ↩︎ ↩︎

  2. जातकर्मण इत्यर्थः ॥ ↩︎

  3. क्वचिद्वितीयादिरजसि गर्भाधानकरणे अस्तादिदोषोऽस्तीत्युक्तम् । ↩︎ ↩︎

  4. “मुक्ता फलं हिरण्यञ्च वैडूर्यं पद्मरागकम् ।
    पुष्यरागं च गोमेदं नीलं गारुत्मकं तथा ॥
    प्रवालयुक्तान्युक्तानि महारत्नानि वै नव" ॥

    सर्वेषामभावे सुवर्णम् ॥ ↩︎

  5. “वारुणं सूक्तमुक्त्वा च विष्णुसूकं ततः परम् ।
    रुद्रसूक्तं ब्रह्मसूक्तं दुर्गाश्रीसूक्तमेव च”

    इति कारिकान्तरे ॥ ↩︎

  6. ग्राहशान्तिकरणपक्षे ग्रहशान्तिपूर्वकमृतुशान्ति करिष्ये, इति संकल्प्य ग्रहशान्तिहोमानन्तरमृतुशान्तिहोमं कुर्यात् ॥ उभयमपि तन्त्रेण वा कुर्यात् ॥ ↩︎

  7. “गर्भादिजातकर्मान्तं कुर्यादौपासनेऽनले” इति गृ॰ समहे ॥ ↩︎