१४ ग्रहशान्तिविधिःः

( बो. गृ. शे. सू. १. १६ )

अश्रद्दधानमशुचिमजपं त्यक्तमङ्गळम् ।
ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् ॥
ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् ।
उपचारान्प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि ॥

मासिमास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे शुभाशुभे जन्मनक्षत्रे वा तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान्कामानवाप्नोति । उक्तमेकाग्निविधानम् ।

एको वा विषमस्थः स्यात्सर्व एवार्चनीया भवन्ति

इति ।

भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ ।
सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ ॥
कृष्णं शनैश्चरं विद्याद्राहुं केतुं तथैव च ।
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत् ॥
बलींश्चैवोपचारांश्च गंधमाल्ये तथैव च ।
यथाक्रमेणो पहरेत्सर्वेषामानुपूर्वशः ॥

अर्कसमिधमादित्याय खादिरमङ्गारकायौदुम्बरं शुक्राय पालाशं सोमायापामार्गं बुधायाश्वत्थं बृहस्पतये शमीमयं शनैश्चराय राहवे दूर्वाः केतवे कुशा

इति । सर्वेषामलाभे पालाशीर्वा ॥ अथोपोत्थायाग्रेणाग्निं तण्डुलैः स्थंण्डिलं कृत्वा ग्रहदेवता आवाहयति ॥

मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।
पूर्वे तु भार्गवं विद्यात्पूर्वदक्षिणतः शशी ॥
पूर्वोत्तरे बुधं विद्यादुत्तरे तु गुरुं तथा ।
पश्चिमे तु शनिं विद्याद्राहुं दक्षिणपश्चिमे ॥
पश्चिमोत्तरतः केतुर्ग्रहस्थानं विधीयते ।
दक्षिणोत्तरभागे तु साधिप्रत्यधिदेवताः ॥

वृत्तमादित्याय त्रिकोणमङ्गारकाय पञ्चकोणं शुक्राय चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये धनुः शनैश्चराय राहवे शूर्पं केतवे ध्वजमिति ।

अर्कः शुक्रो बुधः पूर्वो गुरुरुत्तरतो मुखः ।
पश्चिमे तु शनिश्चन्द्रः शेषा दक्षिणतोमुखाः ॥
यवा आढक्यस्तण्डुलाः श्यामाका मुद्गमेव च ।
चणकास्तिलमाषाश्च कुळित्थाश्च क्रमात्क्षिपेत् ॥
अग्नीश्वरौ भास्करस्य भूक्षेत्रेशौ कुजस्य हि ।
इन्द्राणीन्द्रौ सितस्याथ ह्यापो गौरी निशापतेः ॥
विष्णुर्विष्णुर्बुधस्येन्द्रो मरुत्वान्ब्र ब्रह्म वै गुरोः ।
शनेः प्रजापतियमौ राहोः सर्पश्च निर्ऋतिः ॥
केतोर्ब्रह्मा च चित्रश्च स्वस्वमन्त्रैः स्वनामाभिः ।
लोकपालान् दुर्गविघ्नक्षेत्रवास्तुत्रियम्बकान् ॥
अभयङ्करमृत्यू च ह्यग्निं वैश्वानरं क्रमात् ।
आवाहयेद्व्याहृतिभिर्यजेद्व्यष्टोपचारकैः ॥

नवानां ग्रहाणां पक्वं हुत्वा घृतान्वक्तानां समिधामष्टसहस्रमष्टशतमष्टाविंशतिं वा जुहुयात्प्रत्यृचं हविषो जुहुयात्प्रत्यृचमाज्यस्य जुहुयात्प्र्त्यृचम् ।

गुळोदनमादित्याय हविष्यमन्नमङ्गारकाय घृतोदनं शुक्राय धृतपायसं सोमाय क्षीरोदनं बुधाय दध्योदनं बृहस्पतये तिलपिष्टमिश्रमाषोदनं शनैश्चराय राहोर्माषोदनं केतोश्चित्रोदनमिति ॥

सर्वेषामलाभे हविष्यं वा ॥ इति ॥ यदाष्टसहस्रं तदाधिप्रत्यधिदेवतानामष्टाविंशतिं यदाष्टशतं तदाष्टावष्टौ यदाष्टविंशति तदा तिस्रस्तिस्र आहुतीर्जुहुयादेवमेव लोकपालादीनाम् ॥

कपिलां धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय रजतं शुक्राय शङ्खं सोमाय काञ्चनं बुधाय वासो बृहस्पतये कृष्णां गां शनैश्चराय राहवे छागं केतवे कुञ्जरमिति ।

सर्वेषामलाभे हिरण्यं वा ॥ आचार्याय धेनुं ददाति ।

यथा समुत्थितं घोरयन्त्रेण प्रतिहन्यते ।
एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत्सदा ॥
यथाशस्त्रप्रहरणात्कवचं स्यान्निवारणम् ।
एवं दैवोपघातानां शान्तिर्भवति वारणम् ॥
अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च ।
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः ॥
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः ।
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ॥
ईश्वरं भास्करं विद्यात्स्कन्दमङ्गारकं तथा ।
शुक्रं शचीपतिं विद्यादुमां चैव निशाकरम् ॥
बुधं नारायणं विद्याद्ब्रह्माणं च बृहस्पतिम् ।
यमं शनैश्चरं विद्याद्राहुं कालं तथैव च ॥
केतुमग्निमयं विद्याद्देवं देवा यथा ग्रहाः ।
देवता ग्रहरुपेण दर्शयन्ति शुभाशुभम् ॥

दर्शयन्ति शुभाशुभमित्याह भगवान बोधायनः ॥

अथ मन्त्रानुक्रमः -

आसत्येन, अग्निं दूतं, येषामीशे, इत्यादित्याय

(साधिप्रत्यधिदेवताय इति वेदितव्यम्) ।

अग्निर्मूर्धा, स्योना पृथिवि, क्षेत्रस्य पते,

इत्यङ्गारकाय ।

प्र वः शुक्राय, इन्द्राणी, इन्द्रं वो विश्वतः,

इति शुक्राय ।

आ प्यायस्व, अप्सु मे सोमोअब्रवीत्, गौरीमिमाय,

इति सोमाय ।

उद्बुध्यस्वाग्ने, विष्णोर्नुकं, विष्णोरराटमासि,

इति बुधाय ।

बृहस्पते, इन्द्र मरुत्वः, ब्रह्म जज्ञानम्,

इति बृहस्पतये ।

शं नो देवीः, प्रजापते, इमं यम प्रस्तरम्,

इति शनैश्चराय ।

कया नः, आयङ्गौः, यत्ते देवी,

इति राहवे ।

केतुं कृण्वन्, ब्रह्मा देवानाम्, सचित्र चित्रम्,

इति केतवे ॥

त्रातारमिन्द्रम्, अग्निर्दा द्रविणम्, यमो दाधार पृथिवीम्, असुन्वन्तम्, सधमादो द्युम्निनीः, आ नो नियुद्भिः, सोमो धेनुम्, सहस्राणि सहस्रधा,

इति लोकपालानाम् ॥

जातवेदसे, गणानान्त्वा, क्षेत्रस्य पतिना वयम्, वास्तोष्पते, त्र्यवंक यजामहे, यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः, ये ते सहस्रम्, मूर्धानं दिवो अरतिम्,

इति दुर्गादीनाम् । एवमेव हुत्वाऽऽज्यमिश्रतिलव्रीहिभिर्व्याहृतिभिर्हुत्वा सर्वस्मात्सकृत्सकृदवदाय द्विरभिधार्य स्विष्टकृतं ‘अर्यमणम्’ इति पुरोनुवाक्यामनूच्य ‘सोमँ राजानम्’ इति याज्यया जुहोति । मेक्षणमभ्यादाय जयप्रभृतिसिद्धम् । ‘मूर्धानं दिवो अरतिम्’ इति पूर्णां हुत्वाऽग्रेणाग्निं ग्रहानभ्यर्चयति – ‘आपो हि ष्ठा’ इति तिसृभिः ‘हिरण्यवर्णाः’ इति चतसृभिः ‘पवमानः सुवर्जनः’ इत्येतेनानुवाकेन मार्जयित्वा स्वस्वनामभिस्तर्पयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य लाजापूपपृथुकाद्युपहारांश्च दत्वा नमस्कृत्य प्रवाह्य जघनेनाग्निमुपविश्याद्भिर्मार्जयति - ‘आपो हि ष्ठा’ इति तिसृभिः ‘देवस्य त्वा’ इति तिसृभिः शंयुवाकेन च ॥

गृह्यसंग्रहे -

एकाग्नावेक ऋत्विग्वा बहवो वात्र सम्मताः ।
ग्रहशान्तिं प्रकुर्वीत यो नर्ध्नोत्यशुभोदयात् ॥
विषमस्थो ग्रहो हन्याच्छुभमात्मकृतं सदा ।
तस्मात्संपूज्य तं कुर्याद्भूतिकर्मणि चादितः

इति । प्र॰ पारिजाते -

कार्यारम्भेषु सर्वेषु प्रतिष्ठास्वध्वरेषु च ।
नववेश्मप्रवेशे च गर्भाधानादिकर्मसु ।
आरोग्यस्नानसमये संक्रान्तौ रोगसम्भवे ।
आभिचारे च यः कुर्याद्ग्रहपूजां विधानतः ।
सोऽभीष्टफलमानोति निर्विघ्नेन न संशयः

इति ॥ याज्ञवल्क्योऽपि -

श्रीकामः शान्तिकामो वा ग्रहपूजां समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि

इति च ॥ एतैर्वचनैः प्रतिकूलग्रहाणामानुकूल्यतासिध्यर्थं शुभाभीष्टप्राप्त्यर्थं च मासिमासीत्याद्युक्तकालेषु गर्भाधानादिशुभकर्मारंभेषु रोगाद्यनिष्टसंपातेषु आयुःश्रीपुष्टिवृष्ट्यादिकामनासु चैकाग्नावेकेनर्त्विजा बहुभिर्वा ऋत्विग्भिः ग्रहशान्तिः कर्तव्येति विधीयते ॥

नवग्रहशान्तिप्रयोगः

अथ नवग्रहशान्तिप्रयोगः ॥ यजमानः प्रातः स्नानादि नित्यकर्म कृत्वा वैश्वदेवं हुत्वा सपत्नीको दर्भेष्वासीनो दर्भान्धारयमाण आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

अस्माकं सकुटुम्बानां सपरिवाराणां द्विपच्चतुष्पदसहितानां समस्तग्रहचारपीडानिवृत्ति-क्षेमायुस्सकलैश्वर्याभिवृद्धि-सर्वग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहशान्तिं करिष्ये । तदादौ शान्त्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृध्यर्थमभ्युदयार्थञ्चैभिर्ब्राह्मणैस्सह नान्दीसमाराधनं स्वस्तिपुण्याहवाचनं निर्विघ्नतासिध्यर्थं गणपतिपूजनञ्च करिष्ये

इति सङ्कल्प्य कामनाविशेषे तु “अमुककामनासिद्धिद्वारा” इत्यादि यथाकामं सङ्कल्प्य । गणपतिपूजनं नान्दीसमाराधनं पुण्याहवाचनञ्च यथाक्रमं कुर्यात् । पुण्याहवाचने - “आदित्यादिनवग्रहाः प्रीयन्ताम्" इति विशेषः ॥ ततः

अस्मिन् ग्रहशान्तिकर्मण्याचार्यादि ऋत्विजो वरयिष्ये

इति सङ्कल्प्य ब्राह्मणान्नमस्कृत्य

आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यागेऽस्मिन्नाचार्यो भव सुव्रत"

इति प्रार्थ्य

अमुकगोत्रोत्पन्नममुकशर्माणं ब्राह्मणमस्मिन् ग्रहशान्तिकर्मण्याचार्यं त्वां वृणे

इत्याचार्यं वृणुयात् । ‘वृतोस्मि’ इति प्रतिवचनम् ॥ एवमेव

यथा चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः ।
तथा त्वं मम यागेऽस्मिन् ब्रह्मा भव द्विजोत्तम

इति प्रार्थ्य

अमुकगोत्रोत्पन्नममुकशर्माणं ब्राह्मणमस्मिन् ग्रहशान्तिहवनकर्मणि ब्रह्माणं त्वां वृणे

इति ब्रह्मवरणम् । एवमुपहोमादिकर्मण्यन्यानपि यथानुकूलं वृत्वा तान् गन्धादिभिरभ्यर्च्य

अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया ।
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम्

इति प्रार्थयेत् ॥ अथाचार्यः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

यजमानेन वृतोऽहं ग्रहशान्तिहोमं कर्तुं स्थण्डिलील्लेखनादि करिष्ये

इति सङ्कल्प्य स्थण्डिलोल्लेखनाद्यग्निप्रतिष्ठापनान्तं कृत्वान्वादध्यात् -

आदित्यादिनवग्रहानुकूलतासिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं ग्रहशान्तिहोमं करिष्ये । ग्रहशान्तिहोमः कर्म । आघारवत्तन्त्रम् । पञ्चदश दारुरिध्मः । अग्नीषोमावाज्यभागौ । कपिलो नामाग्निः, आदित्यो देवता । धूमकेतुर्नामाग्निः, अङ्गारको देवता । हाटको नामाग्निः, शुक्रो देवता । पिङ्गलो नामाग्निः, चन्द्रो देवता । जाठरो नामाग्निः, बुधो देवता । शिखी नामाग्निः, बृहस्पतिर्देवता । महातेजा नामाग्निः, शनैश्चरो देवता । हुताशनो नामाग्निः, राहुर्देवता । रौद्रो नामाग्निः, केतुर्देवता । चरर्हविः ॥ उपहोमश्चादित्यादीनां नवानां ग्रहाणां क्रमेणार्कखदिरौदुम्बरपालाशापामार्गाश्वत्थशमीदूर्वाकुशाख्यसमिच्यर्वाज्यद्रव्यैः प्रत्येकं “अष्टसहस्रमष्टशतमष्टाविंशतिर्वा” इति सूत्रोक्तान्यतमसङ्ख्या । अधिप्रत्यधिदेवतानां तैरेव द्रव्यैः, इन्द्रादिलोकपालानांदुर्गादीनां च समिच्चर्वाज्यद्रव्यैः प्रत्येकं प्रत्येकं प्रधानानुगुणममुकसंख्यया । आज्यमिश्रतिळव्रीहिभिः समस्तव्याहृतिभिरमुकसंख्यया । स्विष्टकृतः अर्यमादयो देवताः । आज्यस्य मान्त्रवर्णिक्यो देवताः । अङ्गदेवताः प्रधानदेवताश्च सर्वा अत्र सन्निहिताः सन्तु । एवं साङ्गेनकर्मणा सद्यो यक्ष्ये

इति सङ्कल्प्य समिदाधानाद्याप्रणीताभ्यः कृत्वा हवींषि निर्वपति –

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याँ सवि॒त्रे वो॒ जुष्टं॒ निर्व॑पामि

इति त्रिर्यजुषा सकृत्तूष्णीम् ॥

एवमेव अङ्गारकाय जुष्टं निर्वपामि । शुक्राय॰ । सोमाय॰ । बुधाय॰ । बृहस्पतये॰ । शनैश्चराय॰ । राहवे॰ । केतवे जुष्टं निर्वपामि । इति त्रिर्मंत्रेण सकृतूष्णीं निरुप्य ॥

दे॒वस्य॑ त्वा॰ हस्ताभ्याँ सवि॒त्रे वो॒ जुष्टं॒ प्रोक्षा॑मि अङ्गारकाय शुक्राय सोमाय बुधाय बृहस्पतये शनैश्चराय राहवे केतवे

इति सकृन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्याज्यसंस्कारादि हविरुद्वासनप्रतिष्ठिताभिघारणान्तं कुर्यात् ॥ अथाग्रेणाग्निमीशान्यभागेऽष्टदलं1 पद्ममालिख्य तत्राक्षतपुञ्जैः तन्तुवेष्टितं शुद्धजलपूरितं पञ्चरत्नसहितं सपल्लवं सफलं सकूर्चं वस्त्रवेष्टितमव्रणं कलशं प्रतिष्ठाप्य पूर्वभागे तण्डुलैः स्थण्डिलं कृत्वा तत्राष्टदळं सकर्णिकं नळिनमुलिख्य मध्ये कर्णिकायामादित्याय रक्तवर्णकैर्वृत्ताकारं मंडलं विलिख्य तत्र यवधान्यपूरितं पात्रं निधाय तदुपरि फलं प्रतिमां2 कूर्चं वा विन्यस्य वस्त्रयुगेनावेष्टयेत् ॥

एवमेव दक्षिणदळे अङ्गारकाय रक्तवर्णैस्त्रिकोणाकारमण्डलं विलिख्य फलप्रतिमादियुतमाढकीधान्यपूरितं पात्रम् । पूर्वदळे शुक्राय शुक्लवर्णैः पञ्चकोणाकृतिमण्डलमालिख्य फलप्रतिमादिसहितं तण्डुलपूर्णपात्रम् । आग्नेयदळे सोमाय शुक्लवर्णैश्चतुरश्रमण्डलं विरच्य फलादिसंयुतं श्यामाकपूर्णपात्रम् । ईशान्यदळे बुधाय पीतवर्णरचिते बाणाकारमण्डले फलादियुतं मुद्गपूरितपात्रम् । उत्तरदळे बृहस्पतये पीतवर्णैः कृते दीर्घचतुरश्रमण्डले फलप्रतिमादियुतं चणकपात्रम् । पश्चिमदळे शनैश्चराय कृष्णवर्णकैर्धनुराकारं मण्डलं विलिख्य फलादिसहितं तिलपूर्णपात्रम् । नैर्ऋतदळे राहवे कृष्णवर्णैरेव विरचिते शूर्पाकारमण्डले फलादियुतं माषपूरितपात्रम् । वायव्यदळे केतवे धूम्रवर्णैर्ध्वजाकारं मण्डल लिखित्वा फलप्रतिमादियुतं कुळित्थधान्यपूरितं पात्रं चेति यथाक्रमं निधाय दर्भेषु प्राङ्मुख उपविश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यामुकफलसिद्धिद्वारा आदित्यादिनवग्रहप्रीत्यर्थं नवग्रहपूजां करिष्ये,

इति सङ्कल्प्यासनभूशुध्यादि विधाय “मही द्यौः" इत्यादि कलशे वरुणपूजान्तं कृत्वा

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः

इति भावयित्वा3, ग्रहमण्डले ग्रहानावायति - मध्ये कर्णिकायामादित्यं

पद्मासनं पद्महस्तं पद्मगर्भसमद्युतिम् ।
सप्ताश्वं सारुणरथं द्विभुजं काश्यपिं रविम् ॥
त्रैलोक्यदीपकं देवं गुणरूपं त्रयीमयम् ।
स्थापयामि महाभक्त्या भास्करं ग्रहनायकम् ॥

मध्ये वर्तुलाकारमण्डले प्रत्यङ्मुखं कलिङ्गदेशजं काश्यपगोत्रजं विश्वामित्रार्षं विशाखानक्षत्रजं त्रिष्टुप्छन्दसं कपिलाग्निकं पद्मासनं पद्मवर्णं द्विभुजं रक्तवस्त्रं रक्तगन्धं माणिक्यरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिनं छन्दोमयहरितसप्ताश्वं सप्तरज्जुकमेकचक्रं रक्तं रथमारुह्य दिव्यं मेहं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमाधिदेवताग्निं प्रत्यधिदेवतारुद्रं च ,

इत्येवं ध्यात्वा ।

ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवना वि पश्यन् ॥ ॐ भूर्भुवस्सुवः4 आदित्याय नमः आदित्यमावाहयामि । तत्रैव दक्षिणे [[TODO: परिष्कार्यम्]]

ॐ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥ ॐ भूर्भुवस्सुवः आदित्याऽधिदेवायाऽग्नये नमः आदित्याधिदेवमग्निमावाहयामि ॥ एवं सर्वत्र ॥ उत्तरे [[TODO: परिष्कार्यम्]]

ॐ येषामीशे पशुपति ः पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु ॥ ॐ भूर्भुवस्सुवः आदित्यप्रत्यधिदेवं रुद्रमावाहयामि [[TODO: परिष्कार्यम्]]

इत्यावाह्य ॥ ॥ अथ दक्षिणदळेंऽगारकमावाहयेत् -

रक्तस्रगम्बरालेपं गदाशक्त्यासिशूलिनम् ॥
चतुर्भुजं मेषगमं भारद्वाजं धरासुतम् ॥
रक्तकाञ्चनसंकाशं रक्तकिञ्जल्कसन्निभम् ॥
स्थापयामि महारौद्रं रुद्रमूर्तिं महाबलम् ।

सूर्यस्य दक्षिणदिग्भागे त्रिकोणाकारमण्डले दक्षिणाभिमुखमवन्तीदेशजं भारद्वाजगोत्रजं जामदग्न्यार्षं गायत्रीछन्दसं धूमकेत्वग्निकं खड्गशक्तिशूलगदाधरं चतुर्भुजं रक्ताम्बरधरं रक्तविदुमरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिनं रक्तमेषवाहनमग्निजरक्ताष्टाश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताभूमिं प्रत्यधिदेवताक्षेत्रपालं च, ध्यात्वा ॥

ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाँ रेताँ जिन्वति ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः अङ्गारकाय नमः अङ्गारकमावाहयामि ॥ तद्दक्षिणे

ॐ स्योना पृथिवि भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः अङ्गारकाधिदेवतां भूमिमावाहयामि ॥ तदुत्तरे

ॐ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ॥ मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः अङ्गारकप्रत्यधिदेवं क्षेत्रपालमावाहयामि,

इति ॥ ॥ अथ पूर्वदळे शुक्रमावाहयेत् -

शुक्रं शुक्लतनुं श्वेतवस्त्राढ्यं दैत्यमन्त्रिणम् ।
भार्गवं दण्डवरदकमण्डल्वक्षसूत्रिणम् ॥
कुन्दपुष्पसमानाभं मुक्ताफलसमप्रभम् ।
स्थापयामि महाशान्तं भृगुं दैत्यगुरुं प्रभुम् ॥

सूर्यस्य पूर्वदिग्भागे पञ्चकोणाकारमण्डले प्राङ्मुखं भोजकटकदेशजं भार्गवगोत्रजं शौनकार्षं तिष्यनक्षत्रजं त्रिष्टुप्छन्दसं हाटकाग्निकं श्वेतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं श्वेताम्बरगन्धमाल्यवज्ररत्नाभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताकिनं श्वेताश्ववाहनं भूसंभवश्वेतदशाश्वं श्वेतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतेन्द्राणीं प्रत्यधिदेवतेन्द्रं च, ध्यात्वा ॥

ॐ प्र वः शुक्रार्य भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ॥ यो दैव्यानि मानुषा जनूँषि। अन्तर्विश्वानि विद्मना जिगाति ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः शुक्राय नमः शुक्रमावाहयामि ॥

ॐ इन्द्राणी मासुनारिषु सुपत्नीमहमश्रवम् । नह्यस्या अपरं चन जरसामरते पतिः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः शुक्राधिदेवतामिन्द्राणीमावाहयामि ॥

ॐ इन्द्रं॑ वो वि॒श्वत॒स्परि॰ केव॑लः ॥

ॐ भूर्भुवस्सुवः शुक्रप्रत्यधिदेवमिन्द्रमावाहयामि, इति ॥ ॥ अथ आग्नेयदळे सोममावाहयेत्-

श्वेतवस्त्रधरं श्वेतदशाश्वं रथवाहनम् ।
द्विभुजं साभयगदमात्रेयं सामृतं विधुम् ॥
शान्तं नक्षत्रनाथं च रोहिणीवल्लभं प्रभुम् ।
कुन्दपुष्पोज्वलाकारं स्थापयामि निशाकरम् ॥

सूर्यस्याग्नेयदिग्भागे चतुरस्राकारमण्डले प्रत्यङ्मुखं यमुनादेशजमात्रेयगोत्रजमात्रेयार्षं कृत्तिकानक्षत्रजं गायत्रीछन्दसं पिङ्गलाग्निकं अभयगदाधरं द्विभुजं श्वेताम्बरगन्धमाल्यमुक्ताभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताकिनं वारिसम्भूतदश्वं त्रिचक्रं श्वेतरथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतापं प्रत्यधिदेवतागौरीं च ध्यात्वा ॥

ॐ आ प्या॑यस्व॒ समेतु॑ ते॰ संग॒थे ॥

ॐ भूर्भुवस्सुवः सोमाय नमः सोममावाहयामि ॥

ॐ अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं चे विश्वशम्भुवमापश्च विश्वभेषजीः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः सोमाधिदेवता अप आवाहयामि ॥

ॐ गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः सोमप्रत्याधिदेवतां गौरीमावाहयामि,

इति ॥ ॥ अथेशान्यदळे बुधमावाहयेत् -

पीतस्रग्गन्धवस्त्राढ्यं स्वर्णाभं च चतुर्भुजम् ।
शक्तिचर्मासिगदिनमात्रेयं सिंहगं बुधम् ॥
चाम्पेयपुष्पसंकाशं विशुद्धकनकप्रभम् ।
स्थापयामि महासौम्यं बुधं सोमात्मजं प्रभुम् ॥

सूर्यस्येशानदिग्भागे बाणाकारमण्डले प्राङ्मुखं मगधदेशजमात्रेयगोत्रजं भारद्वाजार्षं श्रविष्ठानक्षत्रजं त्रिष्टुप्छन्दसं जाठराग्निकं शक्तिखड्गचर्मगदाधरं चतुर्भुजं पीताम्बरगन्धमाल्यमरकतरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं पीतसिंहवाहनं वाय्वग्निजपीताष्टाश्वं पीतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताविष्णुं प्रत्यधिदेवताविष्णुं च, ध्यात्वा ॥

ॐ उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सँ सृजेथामयं च । पुनः कृण्वँ स्त्वा पितरं युवानमन्वाताँ सीत् त्वयि तन्तुमेतम् ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः बुधाय नमः बुधमावाहयामि ॥

ॐ विष्णोर्नु कं वीयर्याणि प्रवोचं यः पार्थिवानि विममे रजाँ सि यो अस्कभायदुत्तरँ सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः बुधाधिदेवं विष्णुमावाहयामि ॥

ॐ विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोः श्न्यप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः बुधप्रत्यधिदेवं विष्णुमावाहयामि,

इति ॥ ॥ अथोत्तरदळे बृहस्पतिमावाहयेत् -

आंगिरसं देवगुरुं पीतस्रग्गन्धवाससम् ।
दण्डिनं वरदं पीतं साक्षसूत्रकमण्डलुम् ॥
कुन्दपुष्पसमानाभं तप्तकांचनसन्निभम् ।
स्थापयामि महाभक्त्या प्रसन्नवदनं गुरुम् ॥

सूर्यस्योत्तरदिग्भागे दीर्घचतुरश्रमण्डले उदङ्मुखं सिन्धुदेशजमाङ्गिरसगोत्रजं वसिष्ठार्षमुत्तराफल्गुनीनक्षत्रजं त्रिष्टुप्छन्दसं शिख्यग्निकं पीतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं पीताम्बरगन्धमाल्यपुष्यरागरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं विश्वरूपाख्यपाण्डुराष्ट्राश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवतेन्द्रं प्रत्यधिदेवताब्रह्माणं च ध्यात्वा ॥

ॐ बृहस्पते अति यदर्यो अहाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सवः बृहस्पतये नमः बृहस्पतिमावाहयामि ॥

ॐ इन्द्र मरुत्व इह पाहि सोमं या शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयस्सुयज्ञाः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः बृहस्पत्यधिदेवमिन्द्रं मरुन्वन्तमावाहयामि ॥

ॐ ब्रह्म॑ जज्ञा॒नं॰ विवः॑ ॥

ॐ भूर्भुवस्सुवः बृहस्पतिप्रत्यधिदेवं ब्रह्माणमावाहयामि,

इति ॥ ॥ अथ पश्चिमदळे शनैश्चरमावाहयेत् -

इन्द्रनीलनिभं मन्दं काश्यपिं चित्रभूषणम् ।
चापबाणधरं चर्मशूलिनं गृध्रवाहनम् ॥
इन्द्रनीलसमानाभं नीलोत्पलसमप्रभम् ।
स्थापयामि महारौद्रं सूर्यपुत्रं शनैश्चरम् ॥

सूर्यस्य पश्चिमदिग्भागे धनुराकारमण्डले उदङ्मुखं काश्यपगोत्रजं भृग्वार्षेयं रेवतीनक्षत्रजं सौराष्ट्रदेशजं गायत्रीछन्दसं महातेजोऽग्निकं नीलं चर्मबाणधनुःशूलचतुर्भुजं नीलाम्बरगन्धमाल्यनीलरत्नाभरणभूषितं किरीटिनं नीलच्छत्रध्वजपताकिनं नीलगृध्रवाहनमाकाशजजम्बालाष्टाश्वं नीलं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताप्रजापतिं प्रत्यधिदेवतायमं च, ध्यात्वा ॥

ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः शनैश्चराय नमः शनैश्चरमावाहयामि ॥

ॐ प्रजा॑पते॒ न त्वदे॒तानि॒॰ रयी॒णाम् ॥

ॐ भूर्भु वस्सुवः शनैश्चराधिदेवं प्रजापतिमावाहयामि ॥

ॐ इमं यम प्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मंत्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः शनैश्चरप्रत्यधिदेवं यममावाहयामि,

इति ॥ ॥ अथ नैर्ऋत्यदळे राहुमावाहयेत् -

सैंहिकेयं कराळास्यं कौण्डिनेयं तमोमयम् ।
खड्गचर्मधरं भीमं नीलसिंहासने स्थितम् ॥
नीलाञ्जनसमानाभं नीलमेघसमद्युतिम् ।
स्थापयामि महावक्त्रं राहुं चन्द्रार्कवैरिणम् ॥

सूर्यस्य नैर्ऋत्यदिग्भागे शूर्पाकारमण्डले दाक्षिणाभिमुखं बर्बरदेशजं पैठीनसिगोत्रजमाङ्गिरसार्षमश्विनीनक्षत्रजं गायत्रीछन्दसं हुताशनाग्निकं कृष्णं खड्गचर्मधरं द्विभुजं कृष्णाम्बरगन्धमाल्यगोमेदरत्नाभरणभूषितं किरीटिनं कृष्णच्छत्रध्वजपताकिनं कराळवदनमुरगालंकारं कृष्णसिंहासने स्थितमष्टाश्वं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिंदेवतासर्पं प्रत्यधिदेवतानिर्ऋतिं च, ध्यात्वा॥

ॐ कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः राहवे नमः राहुमावाहयामि ॥

ॐ आयङ्गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः राह्वाधिदेवं सर्पमावाहयामि ॥

ॐ यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् । इदं ते तद्विष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः राहु प्रत्यधिदेवं निर्ऋतिमावाहयामि,

इति ॥ ॥ अथ वायव्यदळे केतुमावाहयेत् -

धूम्रान् द्विबाहुगदिनो विकृतास्यांच्छतात्मकान् ।
गृध्रासनगतान् केतून वरदान् ब्रह्मणः सुतान् ॥
नीलमेघसमानाभं चित्रवर्णं महाबलम् ।
स्थापयामि महारौद्रं केतुं सर्वफलप्रदम् ॥

सूर्यस्य वायव्यदिग्भागे ध्वजाकारमण्डले दक्षिणाभिमुखमन्तर्वेदिदेशजं जैमिनिसूत्रजं रौद्राग्निकं धूम्रं वरदगदाधरं द्विभुजं चित्राम्बरगन्धमाल्यवैडूर्यरत्नाभरणभूषितं किरीटिनं धूम्रच्छत्रध्वजपताकिनं चित्रगृध्रवाहनं धूमारुणाष्टाश्वं धूम्रं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताब्रह्माणं प्रत्यधिदेवताचित्रगुप्तं च, ध्वात्वा ॥

ॐ केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः केतवे नमः केतुमावाहयामि ॥

ॐ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृधाणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्यति रेभन् ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः केत्वधिदेवं ब्रह्माणमावाहयामि ॥

ॐ सचित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयो धाम् । चन्द्रँ रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिगृणते युवस्व ॥ [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः केतुप्रत्यधिदेवं चित्रगुप्तमावाहयामि,

इति ग्रहानावाह्य, पूर्वाद्यष्टदिक्षु इन्द्रादीन् ग्रहमण्डलस्य पश्चिमभागे उदगपवर्गं दुर्गादींश्चाक्षतपुञ्जेष्वावाहयेत - पूर्वदळाने “ॐ त्रा॒तार॒मिंद्र॑म्॰ इन्द्रः॑” ॐ भूर्भुवस्सुवः इन्द्रमावाहयामि ॥ आग्नेयदळाग्रे

अग्निार्दा द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा सनोति । अग्निर्दिवि हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः अमिमावाहयामि ।। दक्षिणदळाग्रे

ॐ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् ॥ यमाय सर्वमित्रस्थे यत्प्राणवायुरक्षितम् [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः यममावाहयामि ॥ नैर्ऋत्यदळाग्रे

ॐ असुन्वन्तमयजमानमिच्छस्तेनस्येत्यां तस्करस्यान्वेषि । अन्यमस्मदिच्छसात हत्या नमो देवि निर्ऋते तुभ्यमस्तु [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः निर्ऋतिमावाहयामि ॥ पश्चिमदळाग्रे

ॐ सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानाः । पस्त्यासु चक्रे वरुणः सधस्थमपाँ शिशुर्मातृतमास्वन्तः" [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः वरुणमावाहयामि ॥ वायव्यदळाग्रे

ॐ आनो नियुद्भिः शतिनीभिरध्वरँ सहस्रिणीभिरुपयाहि यज्ञम् । वायो अस्मिन् हविषि मादयस्व यूयं पात स्वस्तिभिः सदा नः" [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः वायुमावाहयामि ॥ उत्तरदळाग्रे

ॐ सोमो धेनुँ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ॥ सादन्य विदथ्यँ सभेयम् । पितुः श्रवणं यो ददाशदस्मै [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः सोममावाहयामि ॥ ईशानदळाग्रे

ॐ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीनामुखा कृधि [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः ईशानमावाहयामि ॥ अथ मण्डलस्य पश्चिमभागे “ॐ जा॒तवे॑दसे॰ अ॒ग्निः” ॐ भूर्भुवस्सुवः दुर्गामावाहयामि॥ तदुत्तरे “ॐ ग॒णानां॑ त्वा॰ साद॑नम्” ॐ भूर्भुवस्सुवः गणपतिमावाहयामि ॥ तदुत्तरे “ॐ क्षेत्र॑स्य॒ पति॑ना॰ मृडाती॒दृशे॑" ॐ भूर्भुवस्सुवः क्षेत्रपालमावाहयामि ॥ तदुत्तरे “ॐ वास्तो॑ष्पते॒ प्रति॑जानीहि॰ चतु॑ष्पदे" ॐ भूर्भुवस्सुवः वास्तोष्पतिमावाहयामि ॥ तदुत्तरे “ॐ त्र्य॑म्बकं यजामहे॰ मामृता॑त्" ॐ भूर्भुवस्सुवः त्र्यम्बकमावाहयामि ॥ तदुत्तरे

यत॑ इन्द्र॒॰ विमृधो॑ जहि ॥ स्व॒स्तिदा॒॰ अ॑भयङ्क॒रः

ॐ भूर्भुवस्सुवः अभयङ्करेन्द्रमावाहयामि ॥ तदुत्तरे

ॐ ये ते सहस्रमयुतं पाशा मृत्यो माय हन्तवे । तान्यज्ञस्य मायया सर्वानवयजामहे [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः मृत्युमावाहयामि ॥ तदुत्तरे

ॐ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम् ॥ कविँ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः [[TODO: परिष्कार्यम्]]

ॐ भूर्भुवस्सुवः अग्निं वैश्वानरमावाहयामि ॥

इत्येवं क्रमेण देवता आवाह्य

ॐ आदित्याय नमः ॥ ॐ अङ्गारकाय नमः

इत्यादिनाममंत्रैरासनं पाद्यमर्घ्यमाचमनीयञ्च दद्यात् ॥ अथ परिधानप्रभृत्यग्निमुखान्तं कृत्वा चरुं नवधा विभज्य

आदित्याय त्वा, अङ्गारकाय त्वा

इत्यादि यथाक्रममभिमृश्य पक्वाज्जुहोति ॥ सर्वत्रावदानधर्मेण पक्वमवदाय पुरस्तात्स्रुवाहुतिं हुत्वा ॥

तत्स॑वि॒तुर्वरे॑ण्यं० प्रचो॒दयो ३ म्

इति पुरोनुवाक्यामनूच्य तत्तदुक्तयाज्यया पक्वं हुत्वा उपरिष्टात्स्रुवाहुतिं जुहुयात् ॥“आसत्येन" इत्यादित्याय ॥ “अग्निर्मूर्धा" इत्यङ्गारकाय ॥ “प्र वः शुक्राय" इति शुक्राय ॥ “आ प्यायस्व" इति सोमाय ॥ “उद्बुध्यस्व" इति बुधाय ॥ “बृहस्पते अतियदर्यो अर्हात्” इति बृहस्पतये ॥ “शं नो देवीरभिष्टये " इति शनैश्वराय ॥ “कयानश्चित्र आभुवत्” इति राहवे ॥ “केतुं कृण्वन्” इति केतवे ॥ इति याज्यामन्त्रैः क्रमेण नवानां ग्रहाणां पक्व हुत्वा घृतान्वक्ता अर्कखदिरौदुम्बरपलाशापामार्गाश्वत्थशमीदूर्वाकुशाख्याः समिधः क्रमेण “आसत्येन" इत्यादिभिः प्रत्यृचमष्टसहस्रमष्टशतमष्टाविंशतिं वोपहुत्याधिप्रत्याधिदेवतानां च “अग्निं दूतं, येषामीशे’ इत्यादिभिः प्रधामस्याष्टसहस्रोपहोमे अष्टाविंशत्यष्टाविंशतिं, अष्टशतोपहोमे अष्टावष्टौ, अष्टाविंशत्युपहोमे तु तिस्रस्तिस्रः इत्येवं क्रमेणोपजुहुयात् । एवमेव तत्तद्ग्रहोक्तान्योदनानि हविष्यं वोपहुत्याज्यं च यथाक्रमं जुहुयात् ॥ अथेन्द्रादीनां दुर्गादीनां च समिच्चर्वाज्यैः “त्रातारमिन्द्रं” इत्यादिभिः प्रतिमन्त्रमधिप्रत्यधिदेवताहुतिसङ्ख्ययोपहुत्याज्यमिश्रैस्तिलव्रीहिभिश्च व्याहृतिभिरष्टोत्तरशतमष्टाविंशतिं वोपजुहुयात् ॥ ततः स्विष्टकृतं प्रतिपक्वमुत्तरार्धात्सकृत्सकृदवदाय द्विरभिघार्य पुरस्तात्स्रुवाहुतिं हुत्वा

अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं विष्णुँ सरस्वतीँ सवितारं च वाजिनो ३ म्, सोमँ राजानं वरुणमग्निमन्वारभामहे । आदित्यान्विष्णुँ सूर्यं ब्रह्माणं च बृहस्पतिँ स्वाहा [[TODO: परिष्कार्यम्]]

इत्युत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहुयात् ॥ (अर्यम्णे, बृहस्पतये, इन्द्राय, वाचे, विष्णवे, सरस्वत्यै, सवित्रे, सोमाय राज्ञे, वरुणाय, अग्नये, आदित्येभ्यः, सूर्याय, ब्रह्मणे स्विष्टकृत इदं न मम) ॥ अथवा (अग्नये स्विष्टकृत इदं॰) ॥ अथोपरिष्टात्स्रुवाहुतिं हुत्वा मेक्षणप्रहरणादि शुल्बप्रहरणान्ते जयप्रभृति प्रायश्चित्तहवनान्तं कृत्वा

ॐ मू॒र्धानं॑ दि॒वो॰ दे॒वाः स्वाहा॑

इति पूर्णाहुतिं जुहुयात् ॥ (अग्नये वैश्वानरायेदं॰) ॥ अथाग्रेणाग्निं ग्रहानभ्यर्चयति -“आपो हि ष्ठा मयोभुवः" इति तिसृभिः “हिरण्यवर्णाः शुचयः पावकाः" इति चतसृभिः “पवमानः सुवर्जनः” इत्येतेनानुवाकेन मार्जयित्वा

आदित्यं तर्पयामि । अङ्गारकं तर्पयामि । शुक्रं तर्पयामि । सोमं तर्पयामि । बुधं तर्पयामि। बृहस्पतिं तर्पयामि । शनैश्चरं तर्पयामि । राहुं तर्पयामि । केतुं तर्पयामि ।

इति तर्पयित्वा

ॐ आदित्याय नमः । ॐ अङ्गारकाय नमः

इत्यादिनाममंत्रैर्गन्धपुष्पधूपदीपैरभ्यर्च्य लाजापूपपृथुकाद्युपहारान्निवेद्य

ॐ आदित्याय स्वाहा । ॐ अङ्गारकाय स्वाहा

इत्यादिभिर्हुतशेषेण बलिमुपहृत्य ताम्बूलदक्षिणानीराजनाद्युपचारान्कृत्वा मंत्रपुष्पांजलिं समर्प्य

वन्दे रविं द्युमणिमम्बुरुहे निषण्णं दोर्भ्यां दधानमरुणाम्बुरुहे ग्रहेन्द्रम् । माणिक्यभूषमरुणांशुकगन्धमाल्यैर्भ्राजन्तमर्कममितद्युतिमब्जमित्रम् ॥
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोहरं कल्मषनं भास्करं प्रणमाम्यहम् ॥
दिवाकरं दीप्तसहस्ररश्मिं तेजोमयं जगतः कर्मसाक्षिम् ।
मित्रं भानुं सूर्यमादिं ग्रहणां रविं सदा शरणमहं प्रपद्ये ॥१॥
रक्तस्रग्गन्धवासाः करविधृतगदाशक्तिखड्गत्रिशूलो
भारद्वाजस्त्रिणेत्रो वसुमतितनयो लोहिताङ्गः शुभाङ्गः ॥
मेषव्याघ्रध्वजोऽर्कद्युतिसदृशमहाकुण्डलाश्लिष्टकर्णः
पायाद्भास्वत्किरीटाङ्गदवलयलसद्विद्रुमालङ्कृतो नः ॥
धरणीगर्भसम्भूतं विद्युत्काञ्चनसन्निभम् ।
कुमारं शक्तिहस्तश्च लोहिताङ्गं नमाम्यहम् ॥
महेश्वरस्याननस्वेदबिन्दार्भूमौ जातं रक्तमाल्याम्बराढ्यम् ।
सुदीधितिं लोहिताङ्गं कुमारमङ्गारकं सदा शरणमहं प्रपद्ये ॥२॥
वन्दे विराजितसितांऽशुकगन्धमाल्यमच्छाऽश्वगं तनुविराजितवत्ररत्नम् ।
दोर्भिस्सदण्डगुणकुण्डितमक्षसूत्रं बिभ्राणमासुरगुरुं भृगुपुत्रमीड्यम् ॥
हिमकुन्दतुषाराभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रपदातारं भार्गवं प्रणमाम्यहम् ॥
वर्षप्लवं चिन्तितार्थानुकूलं नयप्रधानं विनयोपन्नम् ।
तं भार्गवं योगविशुद्धसत्वं शुकं सदा शरणमहं प्रपद्ये ॥३॥
श्वेताम्बरस्रगनुलेपनमत्रिनेत्रजातं दशाश्वरथवाहनमोषधीशम् ।
दोर्भ्यां धृताऽभयगदं भपतिं सुधांशुं श्रीमत्सुमौक्तिकधरं प्रणमामि चन्द्रम् ॥ दधिशङ्खतुषाराऽऽभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं भक्त्या शम्भोर्मुकुटभूषणम् ॥
यः कालहेतोः क्षयवृद्धिमेति यं देवताः पितरो वा पिबन्ति ।
तं वै वरेण्यं ब्रह्मेन्द्रवन्द्यं सोमं सदा शरणमहं प्रपद्ये ॥४॥
वन्दे बुधं मरकतोज्ज्वलदेहकान्तिं पीताम्बरस्रगनुलेपनभूषिताऽङ्गम् ।
शक्तिञ्च दोर्भिरसिचर्मगदादधानं सिंहध्वजं शशिसुतं बुधमत्रिवंशम् ॥
प्रियङ्गुगुलिकाऽऽभासं रूपेणाऽप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं नमामि शशिनस्सुतम् ॥
विशुद्धबुद्धिं श्रुतिकालबोधं सद्व्याहरं सोमवंशप्रदीपम् ।
सुदीधितिं छान्दसं विश्वरूपं बुधं सदा शरणमहं प्रपद्ये ॥५॥
पीताम्बरं तनुलसध्दृतपुष्यरागं केयूरहारमणिकुण्डलमण्डिताङ्गम् ।
दण्डं वराऽक्षगुणकुण्डियुतं दधानं आङ्गीरसं सुरगुरुं हयगं नमामि ॥
देवतानां ऋषीणाञ्च गुरुं काञ्चनसन्निभम् ।
सुवन्द्यं त्रिषु लोकेषु प्रणमामि बृहस्पतिम् ॥
बुद्ध्यात्मनो यस्य न कश्चिदन्यो मतिं देवा उपजीवन्ति यस्य ।
प्रजापतेरात्मजं धर्मनित्यं बृहस्पतिं सदा शरणमहं प्रपद्ये ॥६॥
दोर्भिर्धनुर्विशिखचर्मधरं त्रिशूलं भास्वत्किरीटमकुटोज्वलितेन्द्रनीलम् ।
नीलातपत्रकुसुमांशुकगन्धभूषं गृध्रस्थितं रविसुतं प्रणतोऽस्मि मन्दम् ॥
नीलाऽञ्जनचयाऽऽकारं रविसूनुं नपुंसकम् ।
छायागर्भसमुद्भूतं वन्दे भक्त्या शनैश्चरम् ।
शनैश्चरं प्रजापति यो हि यस्य शनैर्भोगो गमनं चेष्टितञ्च ।
सूर्यात्मजं क्रोधनसुप्रसन्नं शनैश्चरं सदा शरणमहं प्रपद्ये ॥७॥
राहुं कराग्रपरिमण्डितचर्मखड्गं भीमं तमोमयतनुस्तममिन्द्विनाऽरिम् ।
कौण्डिन्यसूनुमसितांशुकगन्धभूषं गोमेवभूषिततनुं हरिंग नमामि ॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्मसम्भूतं तं राहुं प्रणमाम्यहम् ॥
यो विष्णुमैवाऽमृतं पीयमानं छित्वा शिरो ग्रहभावे नियुक्तः ।
योऽभ्यर्कचन्द्रौ ग्रसति पर्वकाले राहुं सदा शरणमहं प्रपद्ये ॥८॥
गृध्रस्थितान् जलजयोनिसमानवक्त्रान् धूम्रान्वराभयकरान् सुभुजान्कुमारान् ।
वैदूर्यभूषिततनून्वरजैमिनेयान् केतून् भयानकमुखान् द्विभुजान्नमामि ॥
पलाशधूम्रसङ्काशान् तारकाग्रहमस्तकान् ।
रुद्रान् रौद्रात्मकान्घोरान् तान् केतून्प्रणमाम्यहम् ॥
ये ब्रह्मपुत्रा ब्रह्मसमानवक्त्राः ब्रह्मोद्भवा ब्रह्मसमा कुमाराः ।
ब्रह्मोत्तमा वरदा जामदग्न्याः केतून् सदा शरणमहं प्रपद्ये ॥९॥

इति प्रणम्य

शान्तिरस्तु शिवं मेऽस्तु ग्रहाः कुर्वन्तु मङ्गलम् ।
अरिष्टानि प्रणश्यन्तु दुरितानि भयानि च

इति प्रार्थ्य ,

ॐ भूर्भुवस्सुवः आदित्यमधिप्रत्यधिदेवतासहितमुद्वासयामि ॥ ॐ भूर्भुवस्सुवः अङ्गारकमधिप्रत्यधिदेवतासहितमुद्वासयामि

एवमेव शुकं सोमं बुधं बृहस्पतिं शनैश्चरं राहुं केतुं चेति क्रमेणावाहितदेवता उद्वासयेत् ॥ अथाचार्योऽग्नेः पश्चाद्यजमानं सपत्नीकं प्राङ्मुखमुपवेभ्य कलशोदकेन मार्जयेत् - “आपो हि ष्ठा मयोभुवः" इति तिसृभिः “देवस्य त्वा" इति तिसृभिः “तच्छंयोरावृणीमहे” इति शंयुवाकेन, ग्रहमन्त्रैः,

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥
इन्द्राद्या मातराः सर्वा लक्ष्मीश्चोमा सरस्वती ॥
क्क्ष्यपाद्याश्च मुनयो गङ्गाद्याः सरितस्तथा ।
अनन्तादिमहानागा गिरयः सप्त सागराः ॥
सर्वे त्वामभिषिञ्चन्तु सर्वकाम्यार्थसिद्धये ।
सूर्यादयो ग्रहाः सर्वे साधिप्रत्यधिदेवताः ॥
पृथिव्यादीनि भूतानि विघ्नो दुर्गादयस्तथा ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये

इत्येतैश्च मार्जयित्वा उत्तरपरिषेकादिहोमशेषं समाप्य कर्मसाङ्गतासिध्यर्थमादित्यादिग्रहप्रीत्यर्थं तत्तद्ग्रहोक्तदक्षिणा धान्यानि च दद्यात् ॥ ॥

कपिले सर्वदेवानां पूजनीयासि रोहिणी ।
सर्ववेदमयी यस्मादतः शान्तिं प्रयच्छ मे

इति कपिलां धेनुमादित्याय ॥

धर्मस्त्वं वृषरुपेण जगदानन्दकारक ।
अष्टमूर्तेरधिष्ठान अतः शान्तिं प्रयच्छ मे

इति रक्तमनड्वाहमङ्गारकाय ॥

विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः ।
विष्णोरर्कस्य वाहः स्यादतः शान्तिं प्रयच्छ मे

इत्यश्वं शुक्राय ॥

पुण्यस्त्वं शङ्ख पुण्यानां मङ्गळानाञ्च मङ्गळम् ।
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे

इति शङ्खं सोमाय ॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे

इति काञ्चनं बुधाय ॥

पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।
प्रदानादस्य मे विष्णुः प्रीतो भवतु सर्वदा

इति वस्त्रं बृहस्पतये ॥

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादतः शान्तिं प्रयच्छ मे

इति कृष्णां गां शनैश्चराय ॥

यस्मात्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे

इति छागं राहवे ॥

महासत्व महाकाय क्षीरोदार्णवसम्भव ।
सर्वसङ्ग्रामविजय जयं गज कुरुष्व मे

इति कुञ्जरं केतवे ॥ सर्वेषामलाभे हिरण्यं वा । एवं तत्तद्धान्यप्रतिमादियुतं कलशं

कलशं प्रतिमां वस्त्रं प्राप्तपापाऽपनुत्तये ।
तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव

इति ‘हिरण्यगर्भ॰’ इति यथाशक्ति दक्षिणाञ्च आचार्यादिभ्यो दत्वा,

अनेन ग्रहशान्तिकर्मणा श्रीपरमेश्वरः प्रीयताम् । कृतस्य ग्रहशान्तिकर्मणः साङ्तासिध्यर्थं यावच्छक्ति ब्राह्मणान् भोजयिष्ये तेभ्यश्च यथाशक्ति भूयसीं दक्षिणां दातुमुत्सृजे

इति सङ्कल्प्य विष्णुं स्मरेत् ॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे

इति काञ्चनं बुधाय ॥

पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।
प्रदानादस्य मे विष्णुः प्रीतो भवतु सर्वदा

इति वस्त्रं बृहस्पतये ॥

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादतः शान्तिं प्रयच्छ मे

इति कृष्णां गां शनैश्चराय ॥

यस्मात्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे

इति छागं राहवे ॥

महासत्व महाकाय क्षीरोदार्णवसम्भव ।
सर्वसङ्ग्रामविजय जयं गज कुरुष्व मे

इति कुञ्जरं केतवे ॥ सर्वेषामलाभे हिरण्यं वा । एवं तत्तद्धान्यप्रतिमादियुतं कलशं

कलशं प्रतिमां वस्त्रं प्राप्तपापाऽपनुत्तये ।
तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव

इति ‘हिरण्यगर्भ॰’ इति यथाशक्ति दक्षिणाञ्च आचार्यादिभ्यो दत्वा,

अनेन ग्रहशान्तिकर्मणा श्रीपरमेश्वरः प्रीयताम् । कृतस्य ग्रहशान्तिकर्मणः साङ्तासिध्यर्थं यावच्छक्ति ब्राह्मणान् भोजयिष्ये तेभ्यश्च यथाशक्ति भूयसीं दक्षिणां दातुमुत्सृजे

इति सङ्कल्प्य विष्णुं स्मरेत् ॥


  1. विधिवत्कलशस्थानं तदैशान्यां प्रकल्पयेत् ।
    प्राच्यां ग्रहार्चनस्थानं कृत्वा यागमथारभेत्

    इति गृ॰ संग्रहे ॥ ↩︎

  2. “अलाभे प्रतिमानां तु प्रशस्ता दर्भकूर्चकाः” इति गृ॰ संग्रहे ॥

    प्रतिमानां “अश्मन्नूर्जं” इत्यनुवाकेनाग्न्युत्तारणं कृत्वा पञ्चगव्यैः शुद्धोदकेन च प्रक्षाळ्य तत्तत्स्थाने निधाय प्राणप्रतिष्ठां कुर्यात् । इति सं॰ मालायाम् ॥ ↩︎

  3. तत्रैव “क्ष्मादिभूतानि विघ्नं च दुर्गामावाहयेत् क्रमात्” इति ग्रन्थान्तरे ॥ ↩︎

  4. “प्रणवं स्वादितः कृत्वा भूर्भुवः स्वस्ततः परम् ।
    चतुर्थ्या नाम संयुक्तं नमस्कारान्तयोजितम् ॥
    एष मंत्रः समाख्यातो ग्रहपूजाविधायकः ।
    अनेनावाहनं कुर्यादनेनैव विसर्जयेत् ॥”

    इति प्र॰ पारिजाते ॥ सर्वत्र-आवाहने विसर्जने च प्रणवादिः नमोन्तः चतुर्यन्तश्च योजनीयः॥ ↩︎