॥ अथ प्रायश्चित्तानि ॥ अथात्र कर्मणि सम्भाव्यानि प्रायश्चित्तानि ॥
प्रायो विनाश इत्युक्तश्चित्तं सन्धानमुच्यते ।
यस्मात्सन्धीयतेऽनेन प्रायश्चित्तं ततस्स्मृतम्
इत्यनेन प्रयोगतिलकोक्तनिर्वचनेन विहितस्याननुष्ठानादन्यथानुष्ठानाद्वा प्राप्तस्य कर्मवैकल्यस्य निरासेन कर्मसन्धायकानि प्रायश्चित्तपदवाच्यानि भवन्ति ॥ ॥ अथ प्रायश्चित्ताहुतीः प्रधानादौ प्रधानान्ते स्विष्टकृतः पूर्वं वा जुहुयात् ॥ (बो. गृ. सू. ४.५ )
प्रवृत्ते कर्मणि प्रधानादौ जुहुयादिति बोधायनः ॥ प्रधानान्त इति शालीकिः ॥ पुरस्तात्स्विष्टकृत इत्यौपमन्यवः
इति ॥ गृ॰ सङ्ग्रहे च -
प्रधानस्यादितोऽन्ते वा प्राक्स्विष्टकृत एव वा ॥
प्रायश्चित्ताहुतीः कुर्यादर्थलुप्तेष्वनादरः1
इति ॥
( बो. गृ. सू. ४.१ )
तत्रादित एवोपलिप्ते श्वा वेटको वा यदि गच्छेत्कीटो वा पिण्डकारी स्यात्तत्पुनरुपलिप्य प्रोक्षति
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम॒ग्नेस्तेस्तेज॑सा॒ प्रोक्षा॑मि
इति प्रोक्ष्य स्थण्डिलमुद्धरेत् ॥ स्थण्डिलमुध्दृतं गौरश्वो वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तत्पदमभ्युक्ष्य जपति -
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मुलं॒ मा हिँ॑सिषम्
इति ॥
अथ यदि प्रणीतापात्रं भिद्येत तदभिमन्त्रयते –
अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन्पुनः
इति ॥ अथान्यदाहरति - ‘घ॒र्मो दे॒वाँ अप्ये॑तु’ इति पूरयित्वा व्याहृतीभिरुपतिष्ठते ॥ ॥ अथ यदि प्रणीताः प्रणीयमानाः प्रणीता वा परासिच्येरंस्ता अभिमन्त्रयते -
अक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिं॑ल्लो॒के
इति । पूरयित्वोपतिष्ठते -
भूरायुर्मे धारयत प्राणं मे धारयत प्रजा मे धारयत पशून्मे धारयत माम आयुः प्राणाः प्रजाः पशवः परांसिच्येरन् [[TODO: परिष्कार्यम्]]
इति ॥
(वो. गृ. सू. ४.२ )
सर्वत्र दर्वीकूर्चप्रस्तरपरिधिबर्हिःपवित्रेध्मद्रव्यसंभाराणां छेददाहोपघातेषु नाशे विनाशे वा अन्यं यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य -
त्वन्नो॑ अग्ने॒, स त्वन्नो॑ अग्ने, त्वम॑ग्ने अ॒यासि॒, प्रजा॑पते॒
इत्येताभिः स्रुवाहुतीर्जुहुयात् ॥
॥ परिस्तरणदाहे– “अ॒ग्नये॒ क्षाम॑वते॒ स्वाहा॑” (अग्नये क्षामवत इदं॰)॥ इति हुत्वा
इन्द्रं॑ वो वि॒श्वत॒स्परि॒, इन्द्रं॒ नरः॑
इति द्वाभ्यां परिस्तीर्य “इन्द्रा॑य॒ स्वाहा॑” इति पुनर्जुहुयात् ॥ (इन्द्रायेदं॰) ॥ ॥ परिधिदाहे अन्यं परिधाय
परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः स्वाहा [[TODO: परिष्कार्यम्]]
इति जुहुयात् ॥ (अग्नय इदं॰) ॥ ॥ अथ वस्त्राणां प्रोक्षितानां चेद्दाहोपघाते नाशे विनाशे वा अन्यद्यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य जुहोति - “सोमा॑य॒ स्वाहा॑” इति ॥ (सोमायेदं॰) ॥ ॥ अथ सिचाभिधातः स्यात्तदभिमन्त्रयते –
सिग॑सि॒ नसि॒ वज्रो॑ऽसि॒ नम॑स्ते अस्तु॒ मा मा॑ हिँ सीः
इति दशासूत्रमादाय मुखवातेन प्रध्वंसयेत् ॥ ॥ अथ यदि गौर्वाऽश्वो वा श्वमृगमहिषवराहदंष्ट्रावन्तो वाऽन्यद्वा श्वापदमपसव्यं गच्छेत्तस्य पदमभ्युक्ष्य जपति
तद्विष्णोः॑ पर॒मं प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम्
इति ॥ ॥ अथ यद्येत एव रौद्रमभिव्याहरेयुः रौद्र्यावृचौ जुहुयाज्जपेद्वा – “त्वमग्ने रुद्रः, आवो राजानं” इति ॥ ॥ अथ यदि शकुनमभिव्याहरेत्तां वाचमनुमन्त्रयते –
द्विपच्चतुष्पदस्माकँ सर्वमस्त्वनातुरम् ॥ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु सँससि । स्वस्ति नः शकुने अस्तु प्रति नः सुमना भव [[TODO: परिष्कार्यम्]]
इति ॥ ॥ अथ यदि सालावृकी वाश्येत तामनुमन्त्रयते –
दीर्घमुखि दुर्हणु । मास्म दक्षिणतो वदः । यदि दक्षिणतो वदाद्विषन्तं मेऽव बाधासै [[TODO: परिष्कार्यम्]]
इति ॥ ॥ अथ परिक्षवे परिकासने चाप उपस्पृश्य जपेत् -
अनुहवं परिहवं परीवादM परिक्षपम् । दुःस्वप्नं दुरुदितM तद्विषद्भ्यो दिशाम्यहम् ॥ अनुहूतं परिहूतँ शकुनेर्यदशाकुनम् । मृगस्य सृतमक्ष्णया तद्द्विषद्भ्यो दिशाम्यहम्” [[TODO: परिष्कार्यम्]]
इति ॥
(बो. गृ. सू. ४.३)
सर्वत्र स्वयं प्रज्वलितेऽग्नौ समिधावादधाति -
उद्दीप्यस्व जातवेदोपघ्नं निर्ऋतिं मम । पशूँश्च मह्यमावह जीवनञ्च दिशो दिश स्वाहा ॥ मा नो हिँसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय स्वाहा [[TODO: परिष्कार्यम्]]
इति द्वाभ्याम् ॥
(जातवेदसेऽग्नय इदं॰) ॥ ॥ (बो. गृ. सू. ४.५ ) अथ द्रव्यहविर्मन्त्रकर्मादीनामतिपन्नस्कन्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृतातिशृतानामनाम्नातेषु जुहुयात् –
मनो॒ ज्योतिः॑, अ॒याश्चा॒ग्ने, यद॒स्मिन्कर्म॑णि॒, स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः,
इत्येतैर्ध्याहृतिभिश्च ॥ व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या ब्रुवते ॥ अत्रोदाहरन्ति - भूरित्यूचो भुव इति यजूंषि सुवरिति समानि ॥ ॥ ( बो. गृ. सू. ४.७) अथ विपरीतदर्भास्तरणपवित्रकरणपात्रासादनप्रोक्षणीसंस्कारब्रह्मप्रणीताहविर्निर्वापणाज्यसंस्कारस्रुक्सम्मार्जनपरिधिपरिषेचनेध्माभ्याधानविपरीतेषु -
त॒तम्म॒ आपः॑, यत्पा॑क॒त्रा, मनस्वती, मिन्दाहुती, महाव्याहृतीः, व्याहृतीश्च
प्रायश्चित्तं जुहुयात् ॥ ॥ ( बो. गृ. सू. ४.८ ) अथ भग्ननष्टदुष्टविपरीतस्फुटितद्विजश्वबिडालकाकखरमृगपशुपक्षिसरीसृपाणामन्यतमः कीटो वा ऋत्विजोऽग्नीनन्तरा गच्छेत् -
दुर्गा, मनस्वती, महाव्याहृतीस्तिस्रस्तन्तुमतीश्च
जुहुयात् ॥ ॥ ( बो. गृ. सू. ४.९ ) सर्वत्र स्कन्ने भिन्ने छिन्ने क्षामे विपर्यासे उद्दाहे ऊनातिरिक्ते पवित्रनाशे पात्रमेदे च द्वे मिन्दाहुती जुहोति ॥ ॥ अथ मक्षिकैर्मशकैर्वा2 रोमभिः पिपीलिकैर्वा व्यापद्येत प्रजापतये होमं कुर्यात् – “प्रजा॑पते॒ न त्वत्” इति ॥
॥ व्यापन्नमाज्यमव्यापन्नमन्तर्हितमनाज्ञातप्रायश्चित्तं यज्ञसमृद्धीर्जुहोति- “इ॒ष्टेभ्यः॒ स्वाहा॑” इत्यष्टौ ॥ अथान्तरागमने दशहोतारं3 चानुख्याञ्च जुहोति-
“ॐ चित्तिः स्रुक् ॥ चित्तमाज्यम् ॥ वाग्वेदिः ॥ आधीतं बर्हिः ॥ केतो अग्निः॥ विज्ञातमग्निः ॥ वाक्पतिर्होता ॥ मन उपवक्ता ॥ प्राणो हविः ॥ सामाऽध्वर्युः ॥ वाचस्पते विधे नामन् ॥ विधेम ते नाम ॥ विधेस्त्वमस्माकं नाम ॥ वाचस्पतिः सोमं पिबतु ॥ आस्मासु नृम्णं धात्स्वाहा ॥
(वाचस्पतये ब्रह्मण इदं॰) ॥
ॐ अन्वग्निरुषसामग्रख्यदन्वानि प्रथमो जातवेदाः ॥ अनु सूर्यस्य पुरुत्राच रश्मीननु द्यावापृथिवी आततान स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(अनूख्याग्नय इदं॰) ॥ ॥ अन्तर्हिते चतुर्होतारं चानुख्याञ्च जुहोति -
ॐ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनायक्ष्यसे । यजमानाय वार्यम् । आ सुवस्करस्मै । वाचस्पतिः सोम पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा" [[TODO: परिष्कार्यम्]]
(वाचस्पतये ब्रह्मण इदं॰) ॥ “अन्व॒ग्निरु॒षसां॒” इत्यपि जुहुयात् ॥ ॥ अथ मण्डूकसर्पमूषिकमार्जारान्तरागमने पञ्चहोतारं चानुख्याञ्च जुहोति -
अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमः सोमस्य पुरोगाः । शुक्रः शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः। वातापेर्हवनश्रुतः स्वाहा ॥
(वाचस्पतये ब्रह्मण इदं॰) ॥ “अन्व॒ग्निः" इति च जुहुयात् ॥
अथ विकृतरूपे विकृतशब्द विस्फुटे शंयुवाकं चानुख्यां च जुहोति — “ॐ तच्छं॒योरावृ॑णीमहे॰ चतु॑ष्पदे॒ स्वाहा॑” ॥ (शंयव इदं॰) ॥ “ॐ अन्व॒ग्निः॰ आत॑तान॒ स्वाहा॑” इति ॥ ॥ अनादिष्टं सर्वप्रायश्चित्तं व्याख्यातं वारुणीमिति निर्दिशेत् ॥ देवतामन्त्रतन्त्रकर्मादिविपर्यासे पाहीति पञ्च स्रुवाहुतीर्जुहोति ॥ ॥ अथ स्वराक्षरपदवृत्तभ्रेषेषु “आ॒भिर्गी॒र्भिः” इति जुहुयात् ॥ ( वो. गृ. सू. ४.१० ) अथ यदि होमकालेष्वग्निरुद्वातः स्यात्सर्वं तत् -
अपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमर्नु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः [[TODO: परिष्कार्यम्]]
इति प्रोक्ष्य “अयन्ते योनिः” इति क्षिप्रं तद्भस्म समिधि समारोप्य स्थण्डिलमुद्धृत्य लौकिकाग्निं प्रतिष्ठाप्य “आजुह्वानः, उद्बुध्यस्वाग्ने” इति द्वाभ्यां समारोपितसमिधमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति -
अ॒याश्चा॒ग्ने, पञ्चहोता, ब्रा॒ह्म॒ण एक॑होतेत्यादि दश, मनस्वती, मिन्दाहुती, महाव्याहृतीः, व्याहृतीश्च
इति ॥ यद्युपनयनाग्निर्विवाहाग्निर्जातकर्माग्निः स्मशानाग्निराचतुर्थादादशाहादासञ्चयनादुद्वातः स्यादेतदेव प्रायश्चित्तं जुहुयात् ॥
ॐ ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्र॒जां पशून्पुष्टिं यशः । यज्ञश्च मे भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(यज्ञायेदं॰) ॥
ॐ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्र॒जां पशून्पुष्टिं यशः । भर्ता च मे भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(अग्नय इदं॰) ॥
ॐ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु॰ यशः । प्रतिष्ठा च मे भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(पृथिव्या इदं॰) ॥
ॐ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु॰ यशः । विष्ठाश्च मे भूया त्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(अन्तरिक्षायेदं॰) ॥
ॐ वायुः पञ्चहोता । स प्राणः । स मे॰ यशः । प्राणश्च मे भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(वायव इदं॰) ॥
ॐ चन्द्रमाः षड्ढोता । स ऋतून्कल्पयाति । स मे॰ यशः । ऋतवश्च मे कल्पन्ताँ स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(चन्द्रमस इदं॰) ॥
ॐ अन्नँ सप्तहोता । स प्राणस्य प्राणः । स मे॰ यशः । प्राणस्य च मे प्राणो भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(अन्नायेदं॰) ॥
ॐ द्यौरष्टहोता । सोऽनाधृष्यः । स में॰ यशः । अनाधृष्यश्च भूयासँ स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(दिव इदं॰) ॥
ॐ आदित्यो नवहोता । स तेजस्वी । स मे॰ यशः । तेजस्वी च भूयासँ स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(आदित्यायेदं॰) ॥
ॐ प्रजापतिर्दशहोता । स इदँ सर्वम् । स मे॰ यशः । सर्वञ्च मे भूयात्स्वाहा ॥ [[TODO: परिष्कार्यम्]]
(प्रजापतय इदं॰) ॥ इति ॥ अन्ये मन्त्राः प्रागुक्ताः ॥ ॥
(बो. ग. सू. ४.११)
अथ गृहमेधिनो ब्रह्मचारिणश्चानुगतेऽग्नौ कालातिक्रमे होमयोर्दर्शपूर्णमासयोश्चाग्रयणेनानिष्ट्वा नवान्नप्राशनाज्यस्कन्नावधूतहीनमन्त्राधिककर्मणश्चाकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु यमळजनने रजस्वलाऽभिगमने पतितसंभाषणे दिवामैथुने शूद्रीगमने स्वप्नान्ते रेतस्कन्दने उदके मूत्रपुरीषकरणे कुमारस्य जातस्यासंस्कारेऽकृताग्निसंसर्गे देवताविपर्यासे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणश्च व्रतविपर्यासे मेखलायज्ञोपवीतस्योच्छेदने कृष्णाजिनस्याधारणे कमण्डल्वधारणे दण्डभङ्गे सन्ध्यालोपेऽग्निकार्यलोपे उदकुम्भलोपे भिक्षाचरणस्वाध्यायलोपे शुश्रूषालोपे एतैश्चान्यैश्चानाम्नातेषु प्रायश्चित्तम् ॥ अग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति -
पाहि नो अग्न एनसे स्वाहा ॥ पाहि नो विश्ववेदसे स्वाहा ॥ यज्ञं पाहि विभावसो स्वाहा ॥ सर्वं पाहि शतक्रतो स्वाहा ॥ पाहि नो अग्न एकया । पाह्युत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते । पाहि चतसृभिर्वसो स्वाहा
इति ॥
॥ अथ यद्यग्नेरेकदेशमुपहरेयुस्तदा “मनो॒ ज्योतिः॑” इति स्रुवाहुतिं जुहुयात् ॥ इति प्रयोगमालायाम् ॥ ॥ अवत्तहविस्कन्दनादौ गृ॰ सङ्ग्रहे -
यदावत्तेऽवदाने प्राक् होमाद्भिन्ने निपातिते ।
भूमौ चेत्त्याग एव स्याञ्चरुस्थाल्यान्तु चेत्तदा ॥
किमुत्पतसि मन्त्रेण समाहृत्य पुनः स्रुचि ।
निक्षिप्य जुहुयात्प्राग्वद्भूमौ निपतिते पुनः ॥
अवद्य पक्वमन्त्रेण जुहुयाच्च4 स्रुवाहुतिम् ।
हुत्वापक्वं हुनेत्प्राग्वदिति धर्मो व्यवस्थितः ॥
अग्नौ हुतेऽवदाने च भिन्ने निपतिते बहिः ।
भिन्ने त्वन्नाविमन्त्राभ्यां मनस्वत्याहुतिं हुनेत् ॥
दिशि यस्यां निपतितं तद्दैवत्यस्रुवाहुतिम् ।
हुत्वा स्रुचः पृष्ठकेन समाहृत्य च पूर्ववत् ॥
वह्नेर्मध्ये विनिक्षिप्य हुनेत्पूर्ववदाहुती ।
अग्नौ हुतेऽवदानेऽथ स्कन्दिते परिधेर्बहिः ॥
हुत्वा स्रुवाहुतिं प्राग्वदाहृत्याग्नौ विनिक्षिपेत् ।
चतुर्गृहीतमाज्यञ्च स्रुचादायाथ पक्ववत् ॥
जुहुयात्पक्वमन्त्रेण प्रायश्चित्तार्थमादरात्
इति ॥
किमुत्पतसि किमुत्प्रेष्ठाः शान्तः शन्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनँ स्वम् ॥
मार्जाराद्यन्तरागमने विशेषः - गृ॰ सङ्ग्रहे -
मार्जारमूषकाद्याश्च मनुष्याः पशवो मृगाः ।
ब्रह्माग्न्योरन्तरा याताः प्रायश्चित्तं कथं भवेत् ॥
ब्रह्मप्रतिष्ठा मनसोऽप्यग्निर्होतादिना तथा ।
अन्वग्निश्च मनो ज्योतिर्हुनेदेतैः स्रुवाहुतीः ॥
यजमानस्य वह्नेश्च गच्छेयुस्तेऽन्तरा यदि ।
पृथिवी होतादिनाऽन्वग्निर्मनस्वत्याऽऽहुतीर्हुनेत्
इति ॥ ॥ गृ॰ सङ्ग्रहे -
ऊनातिरिक्ते मन्त्राणां कर्मणाञ्च मनस्वस्तीम् ।
अनाज्ञातादिकांश्चैव व्याहृतीश्च हुनेद्बुधः ॥
अनादिष्टेषु सर्वेषु प्रायश्चित्तेषु वै बुधः ।
पाह्यादि-पञ्चकं तद्वन्मिन्दाहुत्यौ मनस्वती ॥
महाद्या व्याहृतीस्तद्वच्चतस्रो व्याहृतीर्हुनेत् ॥
यदि विस्फोटितोऽङ्गारो निर्गतः परिधेर्बहिः ॥
अध्वर्युब्रह्मपत्न्यग्निपशूनां व्याधिमाहरेत् ॥
यजमानस्य सर्वत्र प्रागारभ्य दिशां क्रमात् ।
तदङ्गारं समाहृत्य स्रुवपृष्ठेन बुद्धिमान् ॥
मा तमाद्येन मन्त्रेण मा हिंसीरन्तकेन तु ।
अमुं स्थाने नाम चैषां नियोज्याग्नौ विनिक्षिपेत् ॥
सहस्रशृङ्गमन्त्रेण जुहुयाच्च स्रुवा हुतिम् ॥
मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् । नमस्ते अस्त्वायते । नमो रुद्र परायते । नमो यत्र निषीदसि । अमुं मा हिँ सीरमुं मा हिँसीः ॥ [[TODO: परिष्कार्यम्]]
सहस्रशृङ्गो वृषभो जातवेदाः । स्तोमपृष्ठोघृतावान्सुप्रतीकः ॥ मा नो हासीन्मेत्थितो नेत्वा जहाम । गोपोषं नो वीरपोष चे यच्छ ॥ [[TODO: परिष्कार्यम्]]
॥ प्र॰ तिलके -
पुरोनुवाक्या याज्याऽन्तरुच्छ्वासे होतुरायुषः ।
क्षयः स्यादायुरायुर्दा इति द्वाभ्यां हुनेद्बुधः ॥
प्रायश्चित्तार्थमथवा जुहुयात्पाहिपञ्चकैः
इति ॥
आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः । पुनस्ते प्राण आयति । परा यक्ष्मँ सुवामि ते स्वाहा॥ आयुर्दा अग्ने हविषो जुषाणो घृतप्रेतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमँ स्वाहा [[TODO: परिष्कार्यम्]]
इति ॥ (आयुर्दाऽग्नय इदं॰) ॥ पाहाति पञ्चभिर्वा जुहुयात् ॥
होता वा यजमानो वा ब्रह्माचोच्छिष्टदूषितः ।
निस्तीर्थोच्छिष्टमाचान्तः पावमानादिभिर्हुनेत्
इति ॥ ॥
-
प्रयोजनशून्येष्वित्यर्थः । ↩︎
-
पिपीलिकादिभिश्चैव जीवैः स्याद्धविषो यदि ।
योगः पञ्चाधिकैर्ज्ञेया तदा तस्य सदोषता ॥
न्यूनश्चेत्पतिताञ्जीवानुध्दृत्याद्भिः समुक्ष्य च ।
लौकिकाभ्यां पवित्राभ्यां पवनात्तस्य योग्यताइति सं॰ रत्नमालायाम् ॥ ↩︎
-
सर्वत्र होतृहोमं मनसानुद्रुत्य चतुर्गृहीतेन सग्रहं जुहुयात् ॥ ↩︎
-
‘द्वे मिन्दाहुती’ इति प्र॰ तिलके पाठः ॥ ↩︎