( बो. गृ. प. सू. २. १)
अथात आग्निहोत्रिकं व्याख्यास्यामः । सर्वमेवैतत्स्वाहाकारप्रदानं कुर्यादिति सिद्धम् । आ परिधानात्कृत्वा ‘अमुष्यै स्वाहा’ इति दैवतं जुहोति । अग्निस्स्विष्टकृद्द्वितीयः । द्विर्जुहोति द्विर्निर्मार्ष्टि द्विः प्राश्नात्युत्सृप्याऽऽचामति निर्लेढि इति । एष आग्निहोत्रिकः ॥
( बो. गृ. सू. १. ५)
अथापरः – परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा सर्वान् मन्त्रान् समनुद्रुत्य सकृदेवाहुतिं जुहोति ॥ अग्निस्स्विष्टकृद्द्वितीयः ॥ द्विर्जुहोति द्विर्निर्मार्ष्टि द्विः प्राश्नात्युत्सृप्याऽऽचामति निर्लेढि इत्येष आग्निहोत्रिकः
इति ॥ कारिकाश्च –
अथापरः समिध्याग्निं पर्युक्ष्यास्तीर्य दर्भकः ।
आज्यस्थालीं स्रुवं चैव स्रुचं च समिधं तथा ॥
प्रोक्षणीं बर्हिरित्येवं कूर्चे पात्राणि सादयेत् ।
प्रोक्ष्य तानि पवित्राभ्यां पूतमाज्यं निरूप्य तत् ॥
संस्कृत्य स्रुक्स्रुवौ मृष्ट्वा स्रुचं कूर्चे निधाय च ।
चतुराज्यं गृहीत्वास्यां समिधं प्रास्य चोपरि ॥
परिषिच्य निधायाग्नौ समिधं चान्तयोः स्पृशेत् ।
अपः स्पृष्ट्वा समिध्येव जुहुयादपरार्धतः ॥
प्रधानमंत्रा यावन्तश्चिकीर्षितस्य कर्मणः ।
तानुक्त्वाऽनुच्छ्वसन्नन्ते सर्वेषामिति निश्चयः ॥
सकृत्स्रुचं तां सन्ताप्य ततः स्विष्टकृदाहुतिः ।
सन्ताप्य चैतां त्रिः कूर्चे निधायाथ स्पृशेद्घृतम् ॥
प्राचोत्तानेन हस्तेन सम्मृज्याकूर्च उत्तरे ॥
पूर्वाह्निकी क्रिया चेत्स्यादथ चेदन्यकालिका ।
प्रत्यग्गतेन हस्तेन नीचा तद्वन्निमार्जयेत् ॥
प्राचीनावीतवांस्तद्वत्प्रमृज्यात्कूर्चदक्षिणे ।
सँस्पृश्यापो द्विरङ्गुल्या तत्प्राश्याचम्य भक्षयेत् ॥
उदङ्मुखः स्रुचैवैतत्स्पृष्ट्वा प्रागूर्ध्वदण्डया ।
आचम्य दर्भैर्निर्णिज्य स्रुचं निष्टप्य चोत्सृजेत् ॥ आग्निहोत्रिक एष स्यात्
इति गृ॰ सङ्ग्रहे ॥
प्रयोगः
अथ प्रयोगः॥ स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य
अमुकहोमं करिष्ये, अमुकहोमः कर्म, आग्निहोत्रिकं तन्त्रं, अमुको नामाग्निः, अमुको देवता, आज्यं हविः, अग्निः स्विष्टकृत्, सद्यो यक्ष्ये
इति सङ्कल्प्याग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याऽऽज्यस्थालीं स्रुवं स्रुचं समिधं प्रोक्षणीं बर्हिश्चेति कूर्चे पात्राण्यासाद्य संस्कृताभिः प्रोक्षणीभिः प्रोक्ष्याज्यं संस्कृत्य स्रुवं स्रुचं च संमृज्य कूर्चे स्रुचं निधाय तस्यां चतुर्गृहीतमाज्यं गृहीत्वात्रैताँ समिधं निधायाग्निं परिषिच्यालङ्कृत्याथैताँ समिधमग्नावभ्याधायाऽऽद्यन्तयोः स्पृष्ट्वाप उपस्पृश्य तस्यामादीप्तायामुद्दिष्टकर्मणः प्रधानमन्त्रान्सर्वाननुच्छ्वसन्ननुद्रुत्य सर्वान्ते स्वाहाकारमनुसन्धाय समिधोपरार्धे प्रथमामाहुतिं स्रुवपरिमितां जुहोति ॥ “अमुकदेवताभ्य इदं न ममेत्युद्देशत्यागः” । ततः स्रुचं सकृत्सन्ताप्यावशिष्टात् “अग्नये स्विष्टकृते स्वाहा” इति स्रुवद्वयपरिमितां द्वितीयामाहुतिं समिध्येव पूर्वार्धे जुहोति ॥ (अग्नये स्विष्टकृत इदं॰)॥ स्रुचं त्रिः सन्ताप्य कूर्चे निधाय पूर्वाह्निके कर्मणि प्राचोत्तानेन पाणिना स्रुग्बिलस्थघृतमूर्ध्वमुन्मृज्योत्तरार्धे कूर्चे लेपमुन्मार्ष्टि ॥ अन्यकालिके तु कर्मणि प्रतीचा नीचा पाणिना स्रुग्बिलमवाचीनमवमृज्य कूर्चे लेपं निमार्ष्टि ॥ एवमेव प्राचीनावीती दक्षिणार्धे सम्भृज्याप उपस्पृश्य यज्ञोपवीती स्रुक्स्थं हुतावशिष्टघृतं द्विरङ्गुल्या प्राश्याप आचम्योदङ्मुखः प्राचीनदण्डया स्रुचा भक्षयित्वाऽऽचम्य दर्भैः स्रुचं निर्णिज्य निष्टप्याद्भिः पूरयित्वा प्रायश्चित्तार्थं मिन्दाहुतीर्व्याहृतीश्च हुत्वोत्तरपरिषेकादि शेषं समाप्यापो निनयेत् ॥ इत्याग्निहोत्रिकप्रयोगः ॥
अपूर्वविधिः
अथापूर्वविधि ॥ (बो. गृ. सू. १.४)
अथापरः - परिसमूह्य पर्युक्ष्य परिस्तार्य प्राकृतेन हविषा यावदाम्नातमाहुतीर्जुहोत्येष ह्यपूर्वः ॥
( बो. गृ. प. सू. २.१)
अथातोऽपूर्वं व्याख्यास्यामः ।
सायंप्रातर्दशहोतारं जुहुयात्पर्वसु चतुर्होतारमाग्रयणेष्वज्यानीः चातुर्मास्येषु पञ्चहोतारं पशुबन्धे षड्ढोतारमृतुमुख ऋतुमुखीयं सोमे सप्तहोतारम्
इति
पयसा दशहोतारं जुहुयादन्नेन चतुर्होतारं पायसेनाज्यानीः पृषदाज्येन पञ्चहोतारमामिक्षया षड्ढोतारमाज्येन ऋतुमुखीयं सोमेन सप्तहोतारं
इति । स एष औपासननिष्ठानां याथातथ्यदर्शिनां निरीप्सितानां श्रद्दधानानामपूर्वो होमः प्रजासंस्कारार्थो वा किञ्चिज्ज्ञानां प्राकृतेन हविषा यत्कामयते तज्जुहोति हुतमेवास्य तद्भवति ॥
इत्यपूर्वविधिः॥
आपूर्विकविधिः
अथाऽऽपूर्विकविधिः ॥ (वो. ग. शे. सू. १.३)
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्योपसमाधायाऽलङ्कृत्य यावदाम्नातमाहुतीर्जुहोत्याद्यन्तयोर्व्याहृतीभिराज्याहुतीः परिधान प्रणीताप्रणयनं ब्रह्मोपवेशनञ्च न विद्यते विद्यते वा ॥
अस्य विवरणं गृ॰ सङ्ग्रहे -
आपात्रासादनात्तद्वत्पात्राण्येतानि सादयेत् ।
आज्यस्थालीं स्रुवञ्चैव चरुस्थालीं समेक्षणाम् ॥
दर्वीञ्च प्रोक्षणीं बर्हिश्चतस्रस्समिधस्तथा ।
संस्कृत्य प्रोक्षणीं प्रोक्ष्य सादयेत्पूर्ववद्धविः ॥
तद्द्रव्यकं हविर्ज्ञेयं यद्द्रव्यं कर्म तद्भवेत् ।
सिद्धं हविस्तथोद्वास्य स्रुवदर्व्यो विशोध्य च ॥
परिषिच्य निधायैतास्समिधो जुहुयात्ततः ।
व्याहृतीरवदायाऽथ स्वैर्मन्त्रैर्जुहुयाद्धविः ॥
मन्त्रोक्तिः पूर्ववज्ज्ञेया देवतानामभिस्तु वा ॥
पुनश्च व्याहृतीर्हुत्वा स्वनाम्ना1 स्विष्टकृद्भवेत् ।
आपूर्वविधिरेतावान्न सन्त्यन्ये त्वचोदनात्
इति ॥
अशक्तस्सङ्कटे रोगे द्रव्याभावे नृपाद्भये ।
कुर्यादापूर्विकेनैव सुकृता चैव सा क्रिया
इति कारिकान्तरे ॥
प्रयोगः
अथ प्रयोगः ॥ स्थण्डिलोल्लेखनाद्याग्निं प्रतिष्ठाप्य ॥
अमुकहोमः कर्म, आपूर्विकं तन्त्रं, चतस्रः सामिधेन्यः, अमुको नामाग्निः, अमुको देवता, अमुकं हविः, उपहोमश्चामुकमन्त्रेणामुकद्रव्येणामुकसङ्ख्यया, अग्निः स्विष्टकृत्, आज्यस्य मान्त्रवर्णिक्यो देवताः, अङ्गदेवताः प्रधानदेवताश्च तास्सर्वा अत्र सन्निहितास्सन्तु ॥ एवं साङ्गेन कर्मणा सद्यो यक्ष्ये
इति सङ्कल्प्य, अन्वाधानादि पात्रासादनेआज्यस्थालीं स्रुवं चरुस्थालीं मेक्षणं दर्वीं प्रोक्षणीं बर्हिश्चतस्रस्समिधश्चेत्यासाद्य, पवित्रकरणादि प्रतिष्ठिताभिघारणान्तं कृत्वा प्रदक्षिणमग्निं परिषिच्यालङ्कृत्य चतस्रस्समिधोऽग्नावभ्याधाय व्याहृतीर्हुत्वा चरूसेत्कप्रायश्चित्तान्ते अवदानधर्मेण चरुमवदाय तत्तत्कर्मोक्तयाज्यानुवाक्याभ्यां पक्वं हुत्वा व्याहृतीर्जुहुयात् ॥ तथैवावत्तं स्विष्टकृतमुपहोमान्ते ‘अग्नये स्विष्टकृते स्वाहा’ इति हुत्वा मेक्षणमग्नौ प्रहृत्य दर्वीसाङ्क्षाळनं परिधिदेशेऽन्तर्बहिश्च निनीय ॥ “मनो॒ ज्योतिः॑” इत्यादिभिर्यथासम्भवं प्रायश्चित्तं2 “यद॑स्य॒ कर्मणः॒” इति सौविष्टकृतं च हुत्वा परिस्तरणप्रहरणादि होमशेष समापयेत् ॥ इत्यापूर्विकविधिः ॥