११ अग्निमुखम्

(चो. गृ. शे. सू. ५.१)

शुचौ समे देशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य, तत्र प्राङ्मुखस्स्नानादिपञ्चकं कृत्वोपविश्य स्फ्येनोद्धत्याऽवोक्ष्य, पञ्चप्रस्थसिकताभिस्स्थण्डिलकरणं व्याहृतीभिर्नियुप्यारत्निमात्रं समचतुरश्रं कृत्वा, तस्मिन्प्रादेशमात्रं चतुरश्रं दर्भैस्त्रिःप्राचीनमुल्लिखेदङ्गुष्ठाऽनामिकाभ्यां कनिष्ठिकया वा ‘ब्रह्म जज्ञानं’ इति मध्ये, दक्षिणे ‘नाके सुपर्णं’, उत्तरे ‘आप्यायस्व’ इति । त्रिरुदीचीनम् । मध्ये ‘यो रुद्रः’ इत्यप उपस्पृश्य, पश्चिमे ‘इदं विष्णुः’, प्राच्यां ‘इन्द्रं विश्वा अवीवृधन्’ इति। दर्भं निरस्याप उपस्पृश्याऽग्नेरासनं कल्पयित्वा, यथोक्तमग्निं पत्न्याहृतमङ्गाररूपं व्याहृतीभिर्नियुप्य, तत्पात्रेऽक्षतजलं निनयेत् । अथ प्रोक्षितस्थूलकाष्ठत्रयेण तूष्णीमन्याधायोपतिपतेऽग्निम् — ‘जुष्टो दमूनाः’ इति ॥

(बो. गृ. सू. १.३)

अथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य प्रागग्रैर्दर्भैरग्निं परिस्तृणाति । अपि वोदगग्राः पश्चाच्च पुरस्ताच्च भवन्ति । दक्षिणानुत्तरानुत्तरानधरान्यदि प्रागुदगग्राः । उत्तरेणाऽग्निं प्रागग्रान्दर्भान्संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि संसादयति देवसंयुक्तान्येकैकशः पितृसंयुक्तानि सकृदेव मनुष्यसंयुक्तानि । ‘यत्सह सर्वाणि मानुषाणि’ इत्येतस्माद्ब्राह्मणात् ॥

(बो. ग. शे. सू. ५.१ ) पात्रोत्तराऽऽसनं ब्रह्मदक्षिणाऽऽसनं प्रणीतोत्तराऽऽसनं पश्चादात्माऽऽसनं सर्वं कल्पयित्वा पात्राणि सादयेत् । आज्यस्थालीं, स्रुवं, च जुहूं, प्रणीतां, च चरुस्थालीं , प्रोक्षणीं, चेध्माबर्हिश्चेध्मप्रव्रश्चनानि, मेक्षणं, च सादयित्वा दर्भैः प्रतिच्छाद्य शूर्पं, कृष्णाजिनं, चेत्यत्र दर्वीहोमो विकल्पे । अथ बर्हिषः पवित्रे कुरुते, प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने तरुणे तूष्णीमद्भिरनुमृज्य, कृत्वा प्रोक्षण्यां निधायाऽप आनीय त्रिरुत्पूयाद्भिः प्रोक्ष्योत्तानानि पात्राणि कृत्वा, विस्रस्येध्मं त्रिः प्रोक्ष्य ब्राह्मणमिष्टिवद्दक्षिणत उपवेभ्य

‘ॐ भूर्भुवस्सुवर्ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मन् ब्रह्मणे

इति ब्राह्मणमुपतिष्ठत आदिशो व्युन्नयनादास्ते । यद्वा कूर्चमुपवेश्याभ्यर्च्य प्रणीतायां सपवित्रायां वरुणं पूजयित्वा सह पवित्रण नासिकासममुत्थाप्योत्तरतस्सादयति

भूर्भुवस्सुवरों वरुणोसि धृतव्रतो वारुणमसि

इति तमभ्यर्च्य दर्भैः प्रच्छाद्याथ व्रीहीन्निर्वपति - ‘अमुष्मै जुष्टं निर्वपामि’ इति वा तूष्णीं वा । एवं त्रिस्सकृत्तूष्णीम् । तथा तानभ्युक्ष्यावहत्य, त्रिष्फलीकृत्य, त्रिः प्रक्षाळ्य, निदधाति । तण्डुलान्वा निर्वपति । तानभ्युक्ष्य, त्रिः प्रक्षाळ्यैवं निदधाति । स्थाल्यामपः पयो वाऽऽनीयाऽधिश्रित्य, तिरःपवित्रं तण्डुलानावपति । पक्वमोदनं पायसं वा याचति। तमभ्युक्ष्य स्रुवेण प्रणीताजलं निनयति । अग्नावधिश्रित्याथाज्यस्थाल्यामाज्यं निरुप्योदीचोङ्गारान्निरूह्य व्यन्तान्कृत्वा, तेष्वधिश्रित्याऽभिद्योतनेनाऽभिद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य प्रत्यस्य, पुनरभिद्योत्योभयं त्रिः पर्यग्नि कृत्वा वर्त्मकुर्वन्नुदगुद्वास्य प्रत्यूह्याऽङ्गारानथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्रस्य पवित्रे अद्भिस्संस्पृश्याऽग्नावनुप्रहरति । अथ स्रुवं जुहूं मेक्षणं च सम्मृज्य त्रिरन्तरतस्त्रिर्बाह्यतस्तथा मूलैर्मूलं सम्मृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य निदधाति क्रमेण । अथ दर्भानद्भिस्संस्पृश्याऽग्नावनुप्रहरति । पश्चादग्नेर्बर्हिस्तीर्वा तत्राऽऽज्यं निदधाति । चरुमभिघार्योदञ्जमुद्वास्य बर्हिष्यासाद्य प्रतिष्ठितमभिघारयति । स्थविष्ठो मध्यमो द्राघीयान्दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरत ऊर्ध्वे समिधावादधाति । अथाऽग्निं परिषिञ्चति- ‘अदितेऽनुमन्यस्व’ इति दक्षिणतः प्राचीनं ‘अनुमतेऽनुमन्यस्व’ इति पश्चादुदीचीनं ‘सरस्वतेऽनुमन्यस्व’ इत्युत्तरतः प्राचीनं ‘देव सवितः प्रसुव’ इति समन्तं प्रदक्षिणम् । समन्तमेव वा तूष्णीं परिषिञ्चति । अथाऽग्निमैन्द्रादिक्रमेणाऽभ्यर्च्य परि समिधं शिनष्टि । ब्राह्मणेनानुज्ञातस्स्वाहाकारेणाभ्याधायाऽनूयाजसमिधमिध्मसन्नहनं प्रणीतापात्रं निधायाऽऽघारावाघारयति । ‘प्रजापतये स्वाहा’ इति मनसोत्तरे परिधिसन्धौ संस्पृश्याऽक्ष्णया सन्ततम् । ‘इन्द्राय स्वाहा’ इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याऽक्ष्णया सन्ततम् । अथाऽज्यभागौ जुहोति - ‘अग्नये स्वाहा’ इत्युत्तरार्धपूर्वार्घे । प्रतिमुखं प्रबाहुग् जुहोति - ‘सोमाय स्वाहा’ इति दक्षिणार्धपूर्वार्धऽथाऽग्निमुखं जुहोति - ‘युक्तः, चतस्रः’ आरभ्य व्याहृत्यन्तं हुत्वाऽथ चरुप्रायश्चित्तं हुत्वा चरुमभिघार्याऽथाव्रत्यप्रायश्चित्तं कृत्वा स्रुवेण जुह्वामुपस्तीर्य मेक्षणेन चरुमालोड्य पूर्वार्धादवदायाऽपरार्धादवद्यत्यभिघारयति प्रत्यनक्ति पुरस्तात्स्त्रुवाऽऽहुति हुत्वा यथोक्तं पक्वाज्जुहोत्युपरिष्टात्स्रुवाहुतिञ्च । ( वो. ग. शे. सू. १. १ )

यदि पञ्चावती स्याद्दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धादवदायाऽपरार्धादवद्यत्यभिघारयति प्रत्यनक्ति । स्रुवं निमृज्य यथादेवतं पुरोनुवाक्यामनूच्य याज्यया जुहोति ।

( बो. गृ. शे. मू. १. १६)

पुरोनुवाक्यामनूच्य याज्यया जुहोति ‘सदेवत्वाय’ इति ब्राह्मणम् । यत्रैकाऽऽम्नता द्विरभ्यावर्तयेत् ‘तत्सवितुर्वरेण्यम्’ इत्यनुदुत्याऽम्नातया जुहोति वा ॥

( बो. गृ. शे. सू. ५. १ )

अथोपस्तीर्योत्तरार्धात् स्विष्टकृत्सकृदवद्यति द्विरभिघारयति न प्रत्यनक्त्यन्तःपरिधि सह मेक्षणेन सादयित्वा यथोक्तमाज्याहुतीर्जुहोति । अथ पुरस्तात्स्रुवाऽऽहुतिं स्विष्टकृतमुपरिष्टात्स्रुवाहुतिं च हुत्वाऽप उपस्पृश्य मेक्षणमग्नौ प्रहृत्याऽथैनत्संस्रावेणाऽभिजुहोति स्रुक्स्रुवाभ्याम् । जुहूसङ्क्षालनमन्तःपरिधि निनयति । निर्णिज्य स्रुवं निष्टप्याऽद्भिः पूरयित्वा बहिःपरिधि निनयति । स्थालीपाकेऽन्तःपरिधि बहिःपरिधि समन्त्रकम् । अथाऽनूयाजसमिधमाधायेध्मसन्नहनमद्भिः संस्पृश्याऽग्नावनुप्रहरति । अथ जयानभ्यातानान् राष्ट्रभृतोऽमात्यहोमांश्च हुत्वाऽथ चतुर्गृहीतेन स्रुवेण वा प्राजापत्यं हुत्वा इध्मप्रव्रश्चनान्यभ्याऽधाय प्रायश्चित्तानि सौविष्टकृतं च हुत्वा स्रुवेण परिधीननक्ति । अथ परिस्तरांत्समुल्लिप्याऽऽज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छाद्याऽग्नावनुप्रहरति । अप उपस्पृश्य तृणञ्च मध्यमं परिधिमनुप्रहरति । अथेतरावुपसमस्यत्यूर्ध्वसमिधौ च । अथैनान्संस्रावणाऽभिजुहोति - ‘वसुभ्यः’ इति । अत्र बलिं प्राशनं चाऽन्यत्रोपनयनादन्यानि तत्तदुक्तकर्माणि । अथाऽग्निं परिषिञ्चतिब- ‘अन्वमँस्थाः, प्रासावीः’ इति । वरुणमुद्वास्य बर्हिषि दिशो व्युन्नीय ‘प्राच्याम्’ इत्यादिना स्वयञ्च प्रोक्ष्य ब्रह्मणे वरं दत्वा चरुशेषं सघृतं वा ब्रह्माणं विसृजति । स्थालीपाकनक्षत्रहोमाऽऽयुष्यहोमादिषु प्राशनमुक्तम् । अथ बहुदैवत्ये द्वितीयमवदानमपरार्धादवदाय पूर्वार्धादवद्यति । सर्वमेवमाऽन्तात् । अथ स्विष्टकृत उपस्तीर्य यावती देवतासङ्ख्या तावदवदानं सकृत्सकृत् । शेषं समानम् । तथा मध्यादपरार्धात्पूर्वार्धादवद्यति । स्विष्टकृतो द्विर्द्विरवद्यति । शेषं समानं भवति । सर्वन्यायं ज्ञात्वाऽऽचार्यमुखेन कुर्यात् ॥

(बो. गृ. शे. सू. १. ८)

उपलिप्तं वैश्वदेवत्यमुद्धत्यं नाकदेवत्यमवोक्षणं पितृदेवत्यं सैकतं सिन्धुदेवत्यमुल्लेखनं यमदेवत्यं निरसनं रुद्रदेवत्यं स्पर्शनं वरुणदेवत्यमग्निविधानं विष्णुदेवत्यं विहरणं वामदेवत्यं कर्म गायत्र्याः परिस्तरणदर्भाऽऽज्यस्थालीस्रुवजुहूनां पृथिवीदेवत्यं स्रुक्सोमदेवत्यमाज्यं वसुदेवत्यं पवित्रं विष्णुदेवत्यं चरुः प्रजापतिदेवत्यं मेक्षणमग्निदेवत्यं सम्मार्जनं रुद्रदेवत्यं कूर्चं प्रजापतिदेवत्यमुदकुम्भमब्देवत्यं प्रणीता वरुणदेवत्यमश्मा महेन्द्रदेवत्यं वासस्सोमदेवत्यं कर्ता बृहस्पतिदेवत्यं धूममतिथिदेवत्यमिध्ममग्निदेवत्यं मध्यमपरिधिर्यजमानदेवत्यं दक्षिणपरिधिरिन्द्रदेवत्यमुत्तरपरिधिर्वरुणदेवत्यमूर्ध्वसमिधौम सूर्यदेवत्यमिन्द्राग्नियमनिर्ऋतिवरुणवायुसोमेशाना अष्टादिग्देवत्यं व्यजनं वायुदेवत्यं गन्धमश्विनिदेवत्यं पुष्पं गन्धर्वदेवत्यं धूपमिन्द्रदेवत्यं दीपं भानुदेवत्यं प्रयाजाऽनुयाजमृतुदेवत्यं पक्वं प्रधानदेवत्यमुपहोमाः यथालिङ्गदेवत्यं यत्रयत्र होमे मन्त्रविधानं तत्र तल्लिङ्गदेवत्यं परिषद्ब्रह्मदेवत्यं सदस्यास्सर्वदेवत्यमन्येषामनुक्तानां प्रजापतिदेवत्यं योऽस्य दैवतं मन्त्रतः कर्मतो वाऽभिज्ञाय जुहोति सोऽश्नुते श्रियमायुष्यमारोग्यं स्वर्ग्यं च भवति ॥

अग्निहीनमनावृष्टिर्मन्त्रहीनन्तु ऋत्विजः ।
आज्यहीनं कुलं हन्ति स्वाहाहीनन्तु पत्नयः ॥
यज्वानं1 दक्षिणाहीनमन्नहीनन्तु राष्ट्रकम् ।
सर्वहीनं सदस्यानि नास्ति यज्ञसमो रिपुः ॥
तस्मात्सर्वप्रयत्नेन किञ्चिद्द्रव्यस्समाचरेत् ।
श्रियः कामश्चरेत्सर्वं समृद्धं सहदक्षिणम् ॥
एवं ऋषिविधानोक्तं मुनीनां तत्त्ववेदिनाम् ।
सर्व वेदाहृतं ह्येवं सर्वलोकेषु पूजितम् ॥

सर्वलोकेषु पूजितमितीत्याह भगवान्बोधायनः ॥ ॥

अग्निमुखप्रयोगः

अथाग्निमुखप्रयोगः ॥ कर्ता शुचौ समे देशे गोमयेन गोचर्ममात्रं स्थंडिलमुपलिप्य तन्मध्ये पूर्वोक्तप्रकारेण होममण्डलं विलिख्य तत्पश्चात्प्रागग्रेषु दर्भेषु प्राङ्मुख उपविश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य

अमकहोमं कर्तुं स्थाण्डिलोल्लखनादि करिष्ये

इति संकल्प्य स्फ्याग्रेण स्थंडिलमुद्धंति -

उद्धन्यमानम् । अस्या अमेध्यम् । अपपाप्मानम् । यजमानाय हन्तु । शिवा नः सन्तु । प्रदिशश्चतस्रः । शन्नो माता । पृथिवी । तोकसाता” [[TODO: परिष्कार्यम्]]

इति नवपदैः मध्ये - मध्यपश्चिमपूर्वषु, दक्षिणे - मध्याग्नेयनिर्ऋतिषु, उत्तरे - मध्यवायव्येशान्येषु, क्रमेणोद्धत्याप उपस्पृश्य ॥ “शन्नो॑ दे॒वीर॒॰ स्र॑वन्तु नः” इत्यवोक्ष्य तत्र सिकताः शुचयः शुक्ला अनार्द्राः केशकीटादिवर्जिताः पंचप्रस्थसम्मिताः

देवस्य त्वा सवितुः प्रेसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् ॥ भूर्भुवः सुवरोम् [[TODO: परिष्कार्यम्]]

इति नियुप्य ताभिररत्निमात्रं समचतुरश्रं चतुरंगुलोन्नतं प्रागुदक्प्लवं स्थण्डिलमीशान्यादारभ्येशान्यपर्यन्तं कृत्वा तस्य मध्ये सुवर्णरजतताम्रशकलव्रीहियवदर्भाणामन्यतमेन अंगुष्ठोपकनिष्ठिकाभ्यां संगृहीतेन त्रिः प्राचीनं सन्ततमृजुमुल्लिखेत्- “ॐ ब्रह्म जज्ञानं॰ विवः” इति मध्ये ॥

“ॐ नाके सुपर्णमुपयत्पतन्तँ हृदावेनन्तो अभ्यचक्षतत्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् [[TODO: परिष्कार्यम्]]

इति दक्षिणे ॥ अप उपस्पृश्य ॥

ॐ आप्यायस्व स मेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे [[TODO: परिष्कार्यम्]]

इत्युत्तरे । एवं त्रिरुदीचीनमुल्लिखेत् -

ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु” [[TODO: परिष्कार्यम्]]

इति मध्ये ॥ अप उपस्पृश्य ॥

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाँ सुरे [[TODO: परिष्कार्यम्]]

इति पश्चिमे ॥

ॐ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसङ्गिरः । रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् [[TODO: परिष्कार्यम्]]

इति प्राच्याम् ॥ अथैतं शकलमीशान्यां निधायाद्भिरभ्युक्ष्य नैर्ऋत्यां दिशि निरस्याप उपस्पृश्य विरलमुष्ट्या स्थण्डिलमभ्युक्ष्य यथोक्तं समृद्धं विधूमं सुवर्णादिपात्रद्वयेन सम्पुटीकृतं पत्न्या श्रोत्रियागारात्स्वगृहाद्वा समाहृत्याग्नेय्यां निहितमग्निं

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॒ पूष्णो हस्ता॑भ्याम् । भूर्भुव॒स्सुव॒रोम् अमुकनामानमग्निं प्रतिष्ठापयामि

इत्यात्माभिमुखं पाणिभ्यां स्थण्डिले प्रतिष्ठाप्य तत्पात्रमक्षतजलेनोपसिच्येशान्यां निधाय प्रोक्षितेन्धनानि निक्षिप्याग्निं वेणुधमन्या प्रबोध्यान्वादध्यात् ॥ आचम्य प्राणानायम्य प्रोक्षितं स्थूलसमित्त्रयमादाय देशकालौ सङ्कीर्त्य

श्रीपरमेश्वरप्रीत्यर्थं अमुकहोमं करिष्ये ॥ अमुकहोमः कर्म, आघारवत्तन्त्रम्, पञ्चदशदारुरिध्मः, अग्नीषोमावाज्यभागौ, अमुको नामाग्निः, अमुकः प्रधानदेवता, चरुर्हविः उपहोमश्च, अमुकमन्त्रेणामुकद्रव्येणामुकसंख्यया, अग्निः स्विष्टकृत् । आज्यस्य मान्त्रवर्णिक्यो देवताः, अङ्गदेवताः प्रधानदेवताश्च ताः सर्वा अत्र संनिहतास्सन्तु, एवं साङ्गेन कर्मणा सद्यो यक्षे

इति सङ्कल्प्य । समित्रयं “ॐ भूः ॐ भुवः ॐ सुवः” इत्यग्नौ मध्यदक्षिणोत्तरक्रमेणाभ्याधाय उदीचीनाग्रेण शुल्बेन बर्हिर्मुष्टिं तथैवैकविंशतिदारुकमिध्मञ्च सन्नह्योत्तरतो निधायाग्निमुपतिष्ठते -

जुष्टो दमूना अतिथिर्दुरोणे ॥ इमं नो यज्ञमुपयाहि विद्वान् ॥ विश्वा अग्नेऽभियुजो विहत्य॥ शत्रूयतामाभरा भोजनानि” [[TODO: परिष्कार्यम्]]

इत्यथैनमग्निमीशान्यादारभ्य प्रदक्षिणमाशानपर्यंतं त्रिः परिसमूह्य त्रिः पर्युक्ष्य परिस्तृणाति2

ॐदे॒वस्य॑ त्वा॰ हस्ता॑भ्यां । परि॑स्तृणामि

इति पुरस्तादुदगग्रैः षोडशभिर्दर्भैः3 ॥ “ॐ भूर्भुव॒स्सुवः॑। परि॑स्तृणामि” इति दक्षिणतः

प्रागग्रैः सप्तदशभिः ॥

ॐ उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् । परिस्तृणामि [[TODO: परिष्कार्यम्]]

इति । पश्चादुदगग्रैरष्टादशाभिः ॥

ॐ अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बहिर्षि । परिस्तृणामि” [[TODO: परिष्कार्यम्]]

इत्युत्तरतः प्रागग्रैः सप्तदशभिरिति परिस्तीर्य दक्षिणान्दर्भान्पूर्वपश्चिमपरिस्तरणयोरुपरि कुर्यादुत्तराँस्तयोरधः ॥ अथाग्नेरुत्तरतः पात्रासादनार्थं पंचभिर्दर्भैरासनं कल्पयित्वा दक्षिणतो ब्रह्मासनं सप्तदशभिः, उत्तरतः प्रणीतासनं द्वाभ्याम्, पश्चादात्मासनं च द्वाभ्यां कल्पयित्वा पात्राणि सादयेत् ॥ आज्यस्थालीं4 स्रुवं च दर्वीं स्रुचं च प्रणीतां प्रोक्षणीं च चरुस्थालीं मेक्षणं चेध्मावर्हिश्च | स्फ्यमिध्मप्रव्रश्चनानि चेत्येवमेवोपयुक्तान्यन्यान्यपि पात्राणि द्वन्द्वं न्यञ्चि सादायित्वा दर्भैः प्रतिच्छाद्याथ बर्हिषः पवित्रे कुरुते - प्रादेशमाने समे अप्रच्छिन्नाग्रे अनखच्छिन्ने तरुणके तूष्णीमद्भिरनुमृज्य मध्ये ग्रन्थि कृत्वा प्रोक्षणीपात्रमुत्तानं कृत्वा तस्मिन्नुदगग्रे पवित्रे निधायाप आनीयोत्तानहस्तयोरंगुष्ठोपकनिष्ठिकाभ्यां पवित्रे उपसंगृह्य विच्छिद्य विच्छिद्य त्रिरुत्पूयाद्भिरेवापस्त्रिः5 प्रोक्ष्योत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिः सर्वाभिः प्रोक्ष्य उदक्स्थितं ब्राह्मणं

अस्मिन्कर्मणि ब्रह्माणं त्वां वृणे

इति वृत्वा गन्धादिभिरभ्यर्च्य दक्षिणतो ब्रह्मासने उपवेश्य

ॐ भूर्भुवः॒ सुवः॑ ब्रह्म॑न्ब्र॒ह्मासि॒ नम॑स्ते ब्र॒ह्मन्ब्र॒ह्मणे॑

इति तमुपतिष्ठते ॥ ( वृतो ब्रह्मा पवित्रपाणिः प्राङ्मुखो यज्ञोपवीत्यप आचम्याग्रेणाग्निं परीत्योदङ्मुखस्तूष्णीं ब्रह्मसदनमुपस्थायांगुष्ठोपकनिष्ठिकाभ्यामासनात्तृणं नैर्ऋत्यां दिशि निरस्याप उपस्पृश्य द्यावापृथिवी समीक्षमाणो दक्षिणोत्तरेणोपस्थेनोपविशेद्वाचंयमश्चादिशो व्युन्नयनादासीत) यद्वा तस्मिन्स्थाने कूर्चमुपवेश्याभ्योपतिष्ठेत ॥ ततः प्रणीतापात्रे तिरः पवित्रमप आनीय गन्धादिभिरभ्यर्च्य “ब्रह्मन्नपः प्रणेष्यामि ” इति ब्रह्माणमामन्त्र्य ॥ “ॐ प्रणय” इति तेनानुज्ञातस्तत्पात्रं दर्भस्थं दर्भसंच्छन्नं मुखसममुध्दृत्याविषिञ्चन्हृत्वोत्तरेणाग्निं दर्भेषु सादयति - “वरु॑णोसि धृ॒तव्र॑तो वारु॒णम॑सि” इति ।। अथैतद्दर्भैः प्रतिच्छाद्य पवित्रे आदायाग्नेः पश्चाच्चरुस्थाल्यां सिद्धमोदनं[^१_५] निर्वपति -

[१_५]:

जघनेनाऽग्निं कृष्णाजिने व्रीहीन्निर्वपति, व्रीहीन्वा तण्डुलान्वा निर्वपति पक्वमोदनं पायसं वा याचतीति सूत्रे पक्षत्रयमभिहितम् ॥ तत्र व्रीहिनिर्वापपक्षे 

> व्रीहीन्वा तण्डुलान्वापि स्थाल्यावाथ स्रुवेण वा ।  
यजुषा त्रिः सकृत्तूष्णीमन्तर्धाय पवित्रके” 

इति गृ॰ संग्रहोक्तप्रकारेण जघनेनाग्निं कृष्णाजिनं प्रतीचीनग्रीवमुत्तरलोमोपस्तीर्य स्थाल्या स्रुवेण वा पवित्रमन्तर्धाय व्रीहीन् “देवस्य त्वा॰ हस्ताभ्याममुष्मै जुष्टं निर्वपामि" इति त्रिर्यजुषा सकृत्तूष्णीं निरुप्य तथैवामुष्मै वो जुष्टं प्रोक्षामीति सकृन्मंत्रेण द्विस्तूष्णीं प्रोक्ष्य तानुलूखले न्युप्य मुसलेनावहताञ्छूर्पे उद्वाप्य वितुषीकृत्य तुषान्निरस्याप उपस्पृश्य पात्रान्तरे तण्डुलान्प्रस्कन्दयति । एवं त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य समोदकां स्थालीमग्नावधिश्रित्य तत्र तिरः पवित्र किंचित्प्रणीता जलमानीय तण्डुलानावपति ॥ तण्डुलनिर्वापपक्षे त्रिष्फलीकरणवर्ज्यमन्यत्समानम् ॥ अनेकदेवतास्थके तु ॥ 

> अनेकदैवतेऽप्येका स्थाली द्रव्यैक्यमस्ति चेत् ।  
तप्तायां सपवित्रायां तण्डुलान्प्रास्य तान्पचेत्

इति विशेषः ॥

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒मुष्मै॒ जुष्टं॒ । निर्व॑पामि”

इति निर्यजुषा सकृत्तूष्णीं । पञ्चावत्तिनां तु त्रिर्यजुषा द्विस्तूष्णीम् । अथैतत्पवित्रे गृहीत्वा ॥

दे॒वस्य॑ त्वा॰ हस्ता॑भ्याम॒मुष्मै॒ वो॒ जुष्टं॒ प्रोक्षा॑मि ।

इति प्रोक्षणीजलेन सकृन्मन्त्रेण द्विस्तूष्णीं प्रोक्ष्य स्रुवेण प्रणीताजलं किञ्चिन्निनीग्नानावुत्तरतोऽधि श्रयति । अथाज्यं विलीनमप्यग्नावधिश्रित्याग्नेः पश्चादाज्यस्थाल्यां तिरः पवित्रमाज्यं निरुप्योदीचोऽङ्गारान्परिस्तरणाद्बहिरुदङ्निरूह्य[^१_६]

[१_६]:

स्पृष्ट्वै वामहस्तेन घृतस्थाल्यां घृतं वषेत् इति गृ॰ संग्रहे ॥

तेष्वाज्यपात्रमधिश्रित्याभिद्योतनकुशद्वयेनाभिद्योत्यांगुष्ठपर्वमात्रे द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्याज्ये प्रत्यस्य पुनस्तेनैव कुशद्वयेनाभिद्योत्य अन्येन कुशद्वयेन चरुणा सहाज्यं त्रिः पर्यग्निकृत्वाज्यपात्रं वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानथैनदाज्यमुदीचीनाग्राभ्यां पवित्राभ्यामुत्तानाभ्यां पाणिभ्यामंगुष्ठोपकनिष्ठिकाभ्यां पुरस्तान्नीत्वा पश्चादानीय पवित्रे उद्धरति । तदेकं पुनराहारमुत्पवनम्6 । एवं त्रिरुत्पूय विस्रस्य पवित्रे अद्भिः सँस्पृश्याग्नावनु प्रहरति । अथ दक्षिणहस्तेन स्रुवं च दर्वीं मेक्षणं च सव्येन चतुरो दर्भाश्चादाय सहवाग्नौ प्रतितप्य दक्षिणहस्ते तान्दर्भानावेष्ट्य तदग्रैः स्रुवाग्रमन्तरतः प्रागपवर्गं त्रिः सम्मृज्य प्रत्यग्बिलं न्यग्गृहीत्वा बाह्यतः प्रत्यगपवर्गं त्रिः सम्मृजेत्7 । ततः प्रत्यग्दण्डं गृहीत्वा दर्भमूलैर्दण्डमधस्तात्प्रत्यगपवर्गमुपरिष्टात्प्रागपवर्गञ्च त्रिस्त्रिः सम्मृज्याद्भिः सँस्पृश्य पुनर्निष्टप्योत्तरतो निदधाति । एवमेव स्रुचं दर्वीं मेक्षणं च सम्मृज्य तथैव निष्टप्योत्तरतो निधाय दर्भानद्भिः सँस्पृश्याग्नावनु प्रहरति ॥ अथाग्नेः पश्चात्परिस्तरणाद्बहिरात्मनोऽग्रतो भुवं प्रोक्ष्य । तत्र बर्हिः सन्नहनं प्रागुदगग्रं प्रसार्य तस्मिन् प्रागग्रं बर्हि स्तीर्त्वाऽज्यस्थालीं निधाय तस्यां स्रुवं तदुत्तरतः स्रुचं दर्वीं चरुस्थाल्यां मेक्षणं चेति निदधाति । ततः स्रुवेण चरुमभिघार्योदञ्चमुद्वास्याग्न्याज्ययोर्मध्ये नीत्वाऽज्याद्दक्षिणतो बर्हिष्यासाद्य प्रतिष्ठितमभिघारयति ।

अथ परिधीन्परिदधाति – मध्यमं परिधिमुदगग्रं तस्योपरि दक्षिणं प्रागग्रमधस्तादुत्तरं प्रागग्रं परिधाय द्वे उर्ध्वे समिधावाग्नेयेशान्ययोरादधाति । अथाग्नौ “स्वाहा”8 इत्येकां समिधमाधाय ।

जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् । उप स्पृश दिव्यँ सानु स्तूपैः सँरश्मिभिस्ततनः सूर्यस्य । [[TODO: परिष्कार्यम्]]

इत्युपस्थाय9 प्रदक्षिणमग्निं परिषिञ्चति- ‘अदितेऽनु॑मन्यस्व’ ॥ इति दक्षिणतः प्राचीनम् ॥ ‘अ॒नु॒म॒तेऽनु॑मन्यस्व’ ॥ इति पश्चादुदीचीनम् ॥ ‘स॒र॒स्व॒तेऽनु॑मन्यस्व’ ॥ इत्युत्तरतः प्राचीनम् ॥ ‘देव॑ सवितः॒ प्रसु॑व’ ॥ इति समन्तं प्रदक्षिणम् ॥ समन्तमेव वा तूष्णीं परिषिञ्चति॥ अथाग्निमैन्द्रादिक्रमेण

Agnaye j Atavedase sahojase ...{Loading}...

अग्नये नमः, जातवेदसे नमः,
सहोजसे नमः, अजिरा-प्रभवे नमः,
वैश्वानराय नमः, नर्यापसे नमः,
पङ्क्तिराधसे नमः, विसर्पिणे नमः

+++(इति ऐन्द्र्यादिदिक्षु अग्निमर्चयेत् ।)+++

+++(“मध्ये यज्ञपुरुषाय नमः” इति क्वचित्।)+++

विस्तारः (द्रष्टुं नोद्यम्)

“कृताञ्जलिर् उपस्थाय
जुषस्व न इति ब्रुवन् । परिषिच्य क्रमाद् अष्ट-
मूर्तिभिर् वह्निम् अर्चयेत्"

इति प्र॰ तिलके । मूर्तयश्चारण्यके प्रोक्ताः -

अग्निश्च जातवेदाश्च
सहोजा अजिराप्रभुः ।
वैश्वानरो नर्यापाश्च
पङ्क्तिराधाश्च सप्तमः ॥
विसर्पे वाष्टमोऽग्नीनाम्" इति ॥

इति गन्धपुष्पाक्षतैरभ्यर्च्य

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम्"

इति प्रणमेत् । एवमग्निमलंकृत्येध्ममलंकृत्य,10 ब्रह्माणञ्चालंकृत्याथेध्माग्रमध्यमूलान्यभिघार्यैकां समिधमिध्मसन्नहनरज्जुं च प्रणीतापात्रे निधाय ॥

ॐ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ॥ त्रिधा बद्धो वृषभो रोरवीति महो देवोमर्त्याँ आविवेश [[TODO: परिष्कार्यम्]]

इत्यग्निं ध्यात्वा “स्वाहा” इत्यग्नाविध्ममभ्यादधाति ॥ “अग्नय इदं न मम” ॥ इत्युद्देशत्यागः ॥

अथाधारावाधारयति स्रवेणाज्यमादाय ॥ “ॐ प्र॒जाप॑तये॒ स्वाहा॑” ॥ इति मनसा उत्तरपरिधिसन्धिमारभ्याग्निमध्यपर्यन्तमक्ष्णया सन्ततञ्जुहुयात् । (प्रजापतय इदं॰)॥ ततः स्फ्यावेष्टितेनेध्मसन्नहनेन11 परिधीन्मूलादारभ्याग्रपर्यन्तं सम्माष्टिं त्रिर्मध्यमम् ॥ अग्रेणाग्निं पर्याणीय त्रिर्दक्षिणार्घ्यं प्रतिपर्याहृत्य निरुत्तरार्घ्यं सम्मृज्याग्निं च प्राचीनं त्रिः सम्मृज्य तत्प्रणीतापात्रे निधाय ॥ “ॐ इन्द्रा॑य॒ स्वाहा॑” ॥ इत्युत्तराघारमुपाँशु दक्षिणपरिधिसन्धिमारभ्याक्ष्णया सन्ततं पूर्ववत्स्रुवेण जुहोति ॥ (इन्द्रायेदं॰) ॥ अथाज्यभागौ प्रतिमुखं प्रबाहुग्जुहोति - “ॐ अ॒ग्नये॒ स्वाहा॑” ॥ इत्युत्तरार्धपूर्वार्धे ॥ (अग्नय इदं॰) ॥ “ॐ सोमा॑य॒ स्वाहा॑” ॥ इति दक्षिणार्धपूर्वार्धे ॥ (सोमायेदं॰) ॥ अथाग्निमुखं जुहोति -

ॐ युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनोम स्वाहा ॥ (जातवेदसेऽग्नय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

ॐ चतस्र आशाः प्रचरन्त्वग्नय इमन्नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरँ सुवीरं ब्रह्म समिद्भवत्याहुतीनाँ स्वाहा ॥ (घृतं पिन्वते ब्रह्मण इदं॰) ॥ [[TODO: परिष्कार्यम्]]

ॐ आ नो भद्राः कर्तवो यन्तु विश्वतोऽदेब्धासो अपरीतास उद्भिदः । देवा नो यथासमि | वृषेऽसन्नायुवो रक्षितारो दिवेदिवे स्वाहा ॥ (असन्नप्रायुभ्योरक्षितृभ्यो देवेभ्य इदं॰) ॥ [[TODO: परिष्कार्यम्]]

ॐ विरू॑पाक्ष॒ मा विबा॑धिष्ठा॒ मा विबा॑ध॒ विबा॑धिथाः ॥ निरृ॑त्यै त्वा पु॒त्रमा॑हुः॒ स नः॒ कर्मा॑णि साधय॒ स्वाहा॑ ॥ (विरुपाक्षाय निर्ऋतिपुत्रायेदं॰) ॥ [[TODO: परिष्कार्यम्]]

वि॒रु॒पा॒क्षम॒हं य॑जे नि॒जङ्घँ॑श ब॒लोद॑रम् । यो मा॒यं प॑रि॒बाध॑ते श्रि॒यै पुष्ट्यै॑ च॒ नित्य॑दा॒ तस्मै॒ स्वाहा॑ ॥ (विरुपाक्षाय निजङ्घाय शबलोदराय मां परिबाधमानायेदं॰) ॥ [[TODO: परिष्कार्यम्]]

ॐ या तिरश्ची निपद्यसेहं विधरणी इति ॥ तां त्वा घृतस्य धारयाग्नौ सराधिनी यजे स्वाहा ॥ (तिर्यङ्निपद्यमानायै विधरण्यै सँ राधिन्या इदं॰) ॥ ॐ सँ राधिन्यै देव्यै स्वाहा ॥ (सँ राधिन्यै देव्या इदं॰) ॥ ॐ प्रसाधिन्यै देव्यै स्वाहा ॥ (प्रसाधिन्यै देव्या इद॰) ।। ॐ भूः स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ भुवः स्वाहा । (वायव इदं॰) ॥ ॐ सुवः स्वाहा । (सूर्यायेदं॰) ॥ ॐ भूर्भुवः सुवः स्वाहा ॥ (प्रजापतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

“अथ चरूत्सेकप्रायश्चित्तं करिष्ये” इति संकल्प्य ॥

ॐ अग्नये12 स्वाहा ॥ (अग्नय इदं॰) ॥ ॐ यमाय स्वाहा ॥ (यमायेदं॰) ॥ अप उपस्पृश्य ॥ ॐ वरुणाय स्वाहा ।। (वरुणायेदं॰) ॥ ॐ सोमाय स्वाहा ॥ (सोमायेदं॰) ॥ व्याहृतीश्च हुत्वा आज्येन चरुमाप्याययति- ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम्। भवा वाजस्य संगथे ।। सन्ते पयोँ सि समुयन्तु वाजाः संवृष्णियान्यभिमातिषाहः । आप्याय॑मानो अमृतीय सोम दिवि श्रवामस्युत्तमानि धिष्व ॥ [[TODO: परिष्कार्यम्]]

इति द्वाभ्यामाप्याय्य मिन्दाहुती च जुहुयात् ॥ अनेकदेवतास्थले चरुं पृथक्कृत्य ॥ अमुष्मै त्वामुष्मै त्वेति यथादेवतमभिमृशेत् ॥

अथ स्रुवेण दर्व्यामुपस्तीर्य मेक्षणेन चरुमालोड्यांगुष्ठपर्वमात्रं पूर्वार्धादवदायापरार्धादवद्यति, अभिघारयति, प्रत्यनक्ति, पुरस्तात्स्रुवाहुतिं हुत्वा, पक्वं यथादेवतं पुरोनुवाक्यामनूच्य याज्यया जुहोत्युपरिष्टात्स्रुवाहुतिं च ॥ बहुदेवत्ये कर्मणि द्वितीयादिपक्वमपरार्धादवदाय पूर्वार्धादवद्येत् ॥ प्रागपवर्गमुदगपवर्गं वा जुहुयात्॥ पंचावत्तिनामुपस्तरणं मध्यात्पूर्वार्धादपरार्धाच्चावदानमभिघारणं चेति पंचावदानं, द्वितीयादौ तु मध्यादपरार्धात्पूर्वार्धादवदानमिति विशेषः॥ यत्रैकैव ऋगाम्नाता स्यात्तत्र तां द्विरभ्यावर्तयेत् ॥ ‘तत्स॑वि॒तुर्वरे॑ण्यं’ इत्यनुद्रुत्याम्नातया वा जुहुयात् ॥ अनाम्नातेषु ‘भूर्भुवः॒ सुव॒रोम्’ इत्यनुद्रुत्य “तत्स॑वि॒तुर्वरे॑ण्यं” इति जुहुयात् ॥ अथोपस्तीर्य सकृदुत्तरार्धाद्बिल्वफलप्रमाणं स्विष्टकृतमवद्यति द्विरभिघारयति न प्रत्यनक्ति॥ बहुदेवत्ये यावती देवतासंख्या तावदवदानं सकृत्सकृत् ॥ पंचावत्तिनां पंचावत्तसिद्धये उत्तरार्धाद्विरवदाय द्विरभिघारणं सकृदवदाय वा त्रिरभिघारणं कार्यम् ॥ अथावत्तं स्विष्टकृतं मेक्षणेन सहांतःपरिधि सादयित्वा यथाम्नातमाज्याहुतीरुपजुहोति13 ॥ अनाम्नातेषु व्याहृतिभिरुपहुत्य ॥ पुरस्तात्स्रुवाहुतिं हुत्वा स्विष्टकृतमादायोत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोति -

“ॐ हव्यवाहमभिमातिषाहँ रक्षोहणं पृतनासु जिष्णुम् ॥ ज्योतिष्मतं दीद्यतं पुरंधिमग्निँ स्विष्टकृतमाहुवेमों ३ स्विष्टमग्ने अभिताभृणाहि विश्वदेिव पृतना अभिष्य ॥ उरुं नः पंथां प्रदिशन्विाहि ज्योतिष्मद्धेाजरं न आयुः स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (अग्नये स्विष्टकृत इदं॰) ॥ उपरिष्टात्स्रुवाहुतिं हुत्वा मेक्षणमग्नौ प्रहृत्याथैनसँस्रावेणाभिजुहोति स्रुक्स्रुवाभ्याम् ॥ अथ दर्व्यामप आनीय संक्षाळनमंतःपरिधि14 निनयति –

वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सँ शतधारमेतम् ॥ स नः पितरं पितामहं प्रपितामहँ सुवर्गे लोके गच्छतु पिन्वमानँ स्वधानमः [[TODO: परिष्कार्यम्]]

इति ॥ (अग्नये वैश्वानरायेदं॰) ॥ निर्णिज्य दर्वीं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति–

इमँ समुद्रँ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये ॥ धृतं दुहानामदितिं जनायाग्ने मा हिँसीः परमे व्योमन्" [[TODO: परिष्कार्यम्]]

इति ॥ (समुद्रायेदं॰) ॥ अथानूयाजसमिधमभ्याधाय केवलेनेध्मसन्नहनेन परिधीनग्निं च पूर्ववत्सकृत्सकृत्सम्मृज्येध्मसन्नहनं विस्रस्याद्भिः सँस्पृश्याग्नावनु प्रहरति – “रुद्राय पशुपतये स्वाहा” इति ॥ (रुद्राय पशुपतय इदं॰) ॥ अप उपस्पृश्य ॥ एतत्कर्म समृध्यर्थं जयादि होमं करिष्ये ॥ सर्वत्र मंत्रादौ प्रणवमनुसंध्यात् ॥ अथ जयाञ्जुहोति –

ॐ चित्तं च स्वाहा ॥ (चित्तायेदं॰)॥ चित्तिश्च स्वाहा ॥ (चित्या इदं॰)॥ आकूतं च स्वाहा॥ (आकूतायेदं॰)॥ आकूतिश्च स्वाहा ॥ (आकूत्या इदं॰)॥ विज्ञातं च स्वाहा ॥ (विज्ञातायेदं॰)॥ विज्ञानं च स्वाहा॥ (विज्ञानायेदं॰)॥ मनश्च स्वाहा ॥ (मनस इदं॰) ॥ शक्वरीश्च स्वाहा ॥ (शक्वरीभ्य इदं॰)॥ दर्शश्च स्वाहा ॥ (दर्शायेदं॰) ॥ पूर्णमासश्च स्वाहा ॥ (पूर्णमासायेदं॰)॥ बृहच्च स्वाहा ॥ (बृहत इदं॰) ॥ रथंतरं च स्वाहा ॥ (रथंतरायेदं॰) ॥ प्रजापतिर्जयानिंद्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशः समनमंत सर्वास्स उग्रः सहिहव्यो बभूव स्वाहा॥ (प्रजापतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

अथाभ्यातानान् जुहोति -

अग्निर्भूतानामधिपतिः स मावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्याँ स्वाहा ॥ (अग्नये भूतानामधिपतय इदं॰) ॥ इंद्रो ज्येष्ठानामधिपतिः स मावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्याँ स्वाहा ॥ (इन्द्राय ज्येष्ठानामधिपतय इदं॰) ॥ यमः पृथिव्या अधिपतिः स मावत्वस्मिन्॰ देवहूत्याँ स्वाहा ॥ (यमाय पृथिव्या अधिपतय इदं॰) ॥ [[TODO: परिष्कार्यम्]]

अप उपस्पृश्य ॥

वायुरंतरिक्षस्याधिपतिः स मावत्वस्मिन्॰ दे॒वहूत्याँ स्वाहा ॥ (वायवेऽन्तरिक्षस्याधिपतय इदं॰) ॥ सूर्यो दिवोऽधिपतिः स मावत्वस्मिन्॰ देवहूत्याँ स्वाहा ॥ (सूर्याय दिवोऽधिपतय इदं॰)॥ चंद्रमा नक्षत्राणामधिपतिः स मावत्वस्मिन्॰ हूत्याँ स्वाहा । (चंद्रमसे नक्षत्राणामाधि पतय इदं॰) ॥ बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावत्वस्मिन् हूत्याँ स्वाहा ॥ (बृहस्पतये ब्रह्मणोऽधिपतय इदं॰) ॥ मित्रः सत्यानाम धिपतिः स मावत्वस्मिन्॰ हूत्याँ स्वाहा ॥ (मित्राय सत्यानामधिपतय इदं॰) ॥ वरुणोऽपामधिपतिः स मावत्वस्मिन्॰ हूत्याँ स्वाहा ॥ (वरुणायापामधिपतय इदं॰) ॥ समुद्रः स्रोत्यानामधिपतिः स मावत्यस्मिनः हूत्याँ स्वाहा ॥ (समुद्राय स्रोत्यानामधिपतय इदं॰) ॥ अन्नँ साम्राज्यानामधिपति तन्माऽवत्वस्मिन् हूत्याँ स्वाहा ॥ (अन्नाय साम्राज्यानामधिपतिन इदं॰) ॥ सोम ओषधीनामधिपतिः स मावत्यस्मिन्॰ हूत्याँ स्वाहा ॥ (सोमायौषधीनामधिपतय इदं॰) ॥ सविता प्रेसवानामधिपतिः स मावत्वस्मिन् हूत्याँ स्वाहा ॥ (सवित्रे प्रसवानामधिपतय इदं॰) ॥ रुद्रः पशूनामधिपतिः स हूत्याँ स्वाहा ॥ (रुद्राय पशूनामधियपत इदं॰) ॥ अप उपस्पृश्य ॥ त्वष्टा रूपाणामधिपतिः स मा॰ हूत्याँ स्वाहा ॥ (त्वष्ट्रे रूपाणामधिपतय इदं॰)॥ विष्णुः पर्वतानामधिपतिः स मा॰ हूत्याँ स्वाहा ॥ (विष्णवे पर्वतानामधिपतय इदं॰) ॥ मरुतो गणानामधिपतयस्ते मोऽवन्त्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे ऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा ॥ (मरुद्भ्यो गणानामधिपतिभ्य इदं॰) ॥ [[TODO: परिष्कार्यम्]]

इति सप्तदश स्रुवाहुतीर्हुत्वा हुत्वा15 वाचयति -

पित॑रः पितामहाः परेवरे॒ तता॑स्ततामहा इ॒हमा॑वत

इति ॥ स्वकर्तृकहोमे त्विमं मंत्र प्राचीनावीती दक्षिणां दिशं पश्यन् जपित्वाप उपस्पृशेत् ॥ अथ राष्ट्रभृतो16 जुहोति -

ऋताषाडृतामाग्निर्गंधर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा ॥ (ऋतासाहे ऋतधाम्नेऽग्नये गंधर्वायदं॰) ॥ तस्यौषधयोऽप्सरस ऊर्जा नाम ता इदं ब्रह्मक्षत्रं पातु ताभ्यः स्वाहा ॥ ओषधीभ्योऽप्सरोभ्य ऊर्य इदं न मम ॥ सहितो विश्वसामा सूर्यो’ गंधर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा ॥ (सँ हिताय विश्वसाम्ने सूर्याय गंधर्वायेदं॰) ॥ तस्य मरीचयोऽप्सरस आयुवो नाम ता.इदं ब्रह्मक्षत्रं पातु ताभ्यः स्वाहा ॥ (मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं॰) ॥ सुषुम्नः सूर्यरश्मिश्चंद्रमा गंधर्वः स इदं तस्मै स्वाहा ॥ (सुषुम्नाय सूर्यरश्मये चंद्रमसे गंधर्वायेदं॰) ॥ तस्य नक्षत्राण्यप्सरसो बेकुरैयो नाम ता इदं॰ ताभ्यः स्वाहा ॥ (नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं॰) ॥ भुज्युः सुपर्णो यज्ञो गंधर्वः ॥ स इदं॰ तस्मै स्वाहा ॥ (भुज्यवे सुपर्णाय यज्ञाय गंधर्वायेदं॰) ॥ तस्य दक्षिणा अप्सरसस्तवा नाम ता इदं ताभ्यः स्वाहा ॥ (दक्षिणाभ्योऽप्सरोभ्यस्तवाभ्य इदं॰) ॥ प्रजापतिर्विश्वकर्मा मनो गंधर्वः स इदं तस्मै स्वाहा ॥ (प्रजापतये विश्वकर्मणे मनसे गंधर्वायेदं॰) ॥ तस्यर्वसामान्यप्सरसो वह्नयो नाम ता इदं॰ ताभ्यः स्वाहा ॥ (ऋक्सामभ्योऽप्सरोभ्यो वह्निभ्य इदं॰) ॥ इषिरो विश्वव्यंचा वातो गंधर्वः स इदं॰ तस्मै स्वाहा ॥ (इषिराय विश्वव्यचसे वाताय गंधर्वायेदं॰) ॥ तस्यापोऽप्सरसो मुदा नाम ता इदं॰ ताभ्यः स्वाहा ॥ (अद्भ्योऽप्सरोभ्यो मुदाभ्य इदं॰) ॥ भुवनस्यपते॒ यस्य त उपरि गृहा इह च ॥ स नो रास्वाज्यांनिः रायस्पोषर सुवीर्यँ संवत्सरीणाँ स्वस्तिँ स्वाहा ॥ (भुवनस्य पत्य इदं॰) ॥ परमेष्ट्यधिपतिर्मृत्युगंधर्वः स इदं॰ तस्मै स्वाहा ॥ (परमेष्ठिनेऽधिपतये मृत्यवे गंधर्वायेदं॰) ॥ तस्य विश्वमप्सरसो भुवो नाम ता इदं॰ ताभ्यः स्वाहा॥ (विश्वस्मा अप्सरोभ्यो भूभ्य इदं॰) ॥ सुक्षितिः सुभूतिर्भद्रकृत्सुवर्या पर्जन्यो गंधर्वः स इदं॰ तस्मै स्वाहा ॥ (सुक्षितये सुभूतये भद्रकृते सुवर्वते पर्जन्याय गंधर्वायेदं॰)॥ तस्य विद्युतोऽसरसो रुचो नाम ता इदं॰ ताभ्यः स्वाहा ॥ (विद्युद्भोऽप्सरोभ्यो रुग्भ्य इदं॰) ॥ दुरे हेतिरमृडयो मृत्युगंधर्वः स इदं॰ तस्मै स्वाहा ॥ (दूरे हेतयेऽमृडयाय मृत्यवे गंधर्यायदं॰) ।। तस्य प्रजा अप्सरसी भीरुवो नाम ता इदं० ताभ्यः स्वाहा॥ (प्रजाभ्योऽप्सरोभ्यो भीसभ्य इदं॰)॥ चारुः कृपणकाशी कामो गन्धर्वः स इदं० तस्मै स्वाहा ॥ (चारवे कृपणकाशिने कामाय गंधर्वायेदं॰) ॥ तस्याधयोऽप्सरसः शोचयंती म । ता इद० ताभ्यः स्वाहा॥ (आधिभ्योऽप्सरोभ्यः शोचयंतीभ्य इदं॰) ॥ स नो भुवनस्य पते यस्य त उपरि गृहा इह च ॥ उरुब्रह्मणस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥ (भुवनस्य पत्ये ब्रह्मण इदं॰) ॥ [[TODO: परिष्कार्यम्]]

इति द्वाविँशति खुवाहुतीर्तुत्वाथामात्यहोमाञ्जुहोति–

ॐ यद्देवादेव हेडनम् ॥ देवासश्चकृमा वयम् ॥ आदित्यास्तस्मान्मामुंचत ॥ ऋतस्यर्तेन मामुत स्वाहा ॥ (देवेभ्य आदित्येभ्य इदं॰)॥ देवा जीवन काम्या यत् । वाचाऽनृतमूदिम ॥ अग्निर्मा तस्मादेनसः ॥ गार्हपत्यः प्रमुंचतु ॥ दुरिता यानि चकृम। करोतु मामनेनस स्वाहा । (अग्नये गार्हपत्यायेदं॰) ॥ ऋतेन द्यावाष्टथिवी ॥ ऋतेन त्वर सरस्वति ॥ ऋतान्मा मुंचताँ हसः ॥ यदन्य कृतमारिम स्वाहा ॥ (द्यावापृथिवीभ्याँ सरस्वत्या इदं॰) ॥ सजातशँ सादुत वा जामि श सात् ॥ ज्यायसः श सादुत वा कनीयसः ॥ अनाज्ञातं देवकृतं यदेनः॥ तस्मात्वमस्मानातवेदो मुमुग्धि स्वाहा ॥ (अग्नये जातवेदस इदं॰) ॥ याचा यन्मनसा ॥ बाहुभ्यामूरुभ्यामष्ठीवभ्याम् ॥ शिश्नैर्यदनृतं चकमा वयम् ॥ अग्निर्मा तस्मादेनसः॰ अनेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰)॥ यद्धस्ताभ्यां चकर किल्बिषाणि ॥ अक्षाणां’ वग्नुमुपजिघ्नमानः ॥ दुरेपश्या च राष्ट्रभृच्च॥ तान्यप्सरसावनुदत्तामृणानि स्वाहा ॥ (दूरे पक्ष्याय राष्ट्रभृतेऽप्सरोभ्यामिदं॰) ॥ अदीव्यन्नृणं यह चकार ॥ यद्वादास्यासनगारा जनेभ्यः ॥ अभिर्मा तस्मादेनसः॰ अनेनसँ स्वाहा॥ (अग्नये गार्हपत्यायेदं॰) ॥ यन्मयि माता गर्ने सति ॥ एनश्चकार यत्पिता ॥ अग्निर्मा तस्मादेनसः॰ अनेनसर स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥ यदा पिपेष मातरं पितरम् ॥ पुत्रः प्रमुदितो धयन् ॥ अहिँसितौ पितरौ मया तत् ॥ तग्ने अनृणो भवामि स्वाहा । (अग्नय इदं॰) ॥ यदंतरिक्षं पृथिवीमुतद्याम् ॥ यन्मातरं पितरं वाजिहिसिम ॥ अनिर्मा तस्मादेनसः॰ अनेनसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥ यदाशसा निशसा यत्पराशसा ॥ यदेनश्चकृमा नूतनं यत्पुराणम् ॥ अग्निर्मा तस्मादेनसः॰ अननसँ स्वाहा । (अग्नये गार्हपत्यायेदं॰) ॥ अतिक्रामामि दुरितं यदेनः ॥ जहामि रिप्रं परमे सधस्थे । यत्र यति सुकृतो नापि दुष्कृतः ॥ तमाराहामि सुकृतान्नुलोकर स्वाहा । (अग्नये सुकृताल्ँ लोकायेदं॰) ॥ त्रिते देवा अमृजतैतदेनः ॥ त्रित एतन्मनुष्येषु मामृजे ॥ ततो मा यदि किंचिदानशे ॥ अग्निर्मा तस्मादेनसः॰ अननसँ स्वाहा ॥ (अग्नये गार्हपत्यायेदं॰) ॥ दिवि जाता अप्सु जाताः ॥ या जाता ओषधीभ्यः ॥ अथो या अग्निजा आपः॥ ता नः शुधन्तु शुन्धनीः स्वाहा ॥ (अद्भ्यः शुन्धनीभ्य इदं॰) ॥ यदापो नक्तं दुरितं चराम॥ यद्वा दिवा नूतनं यत्पुराणम् ॥ हिरण्यवर्णास्तत उत्पुनीतनः स्वाहा ॥ (अद्भ्यो हिरण्यवर्णाभ्य इदं॰) ॥ इमं मे वरुण श्रुधीहमद्या च मृडय ॥ त्वामवस्युराचंके स्वाहा ॥ (वरुणायेदं॰) ॥ तत्वा यामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविभिः॥ अहेडमानो वरुणेह बोध्युरुशसमा न आयुः प्रमोषीः स्वाहा ॥ (वरुणायेदं॰) ॥ त्वन्नो’ अग्ने वरुणस्य विद्वान् देवस्य हेडोक्यासिसीष्ठाः ॥ यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुग्भ्यस्मत्स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ॥ अव यक्ष्व नो वरुण रराणो वीहि मृडीकर सुहवा न एधि स्वाहा ॥ (अग्नीवरुणाभ्यामिदं॰) ॥ त्वमग्ने अयास्यया सन्मनसाहितः ॥ अयासन् हव्यमूहिषेऽयानो धेहि भेषज स्वाहा । (अग्नये अयस इदं॰) ॥ [[TODO: परिष्कार्यम्]]

इत्यांतादनुवाकस्य प्रत्यृचम् ॥ अथ चतुर्ग्रहीतेन वा स्रुवेण वा प्राजापत्याञ्जुहोति -

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव ॥ यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहा ॥ (प्रजापतय इदं॰) ॥ [[TODO: १परिष्कार्यम्]]

इति ॥ अथेध्मप्रव्रश्चनान्यभ्याधाय प्रायश्चित्तानि17 जुहोति -

अस्मिन्होममध्ये द्रव्यहविर्मंत्रसंस्काराणां न्यूनातिरिक्तप्रायश्चित्ताज्याहुतीर्होष्ये

इति संकल्प्य

मनोज्योतिर्जुषतामाज्य18 विच्छिन्नं यज्ञँ समिमन्दधातु ॥ या इष्टा उषसो नि चश्च ताः संदधामि हविर्वा धृतेन स्वाहा ॥ (मनसे ज्योतिष इदं॰) ॥ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्व मया असि ॥ अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजँ स्वाहा ॥ (अग्नये अयस इदं॰) ॥ यस्मिन्कर्मण्यंतरंगाम मंत्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्व तृप्यतु देवा आवृषतां धृतेन स्वाहा ॥ (देवेभ्य इदं॰) ॥ [[TODO: परिष्कार्यम्]]

स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु स्वाहा ॥ (इंद्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यायारिष्टनेमये बृहस्पतय इदं॰) ॥ तत्सवितुः प्रचोदयात्स्वाहा ॥ (सवित्र इदं॰)॥ यन्म आत्मनो मिदा दग्निस्तत्पुनराहार्जातवेदा विचर्षणिः स्वाहा ।। (अग्नये जातवेदसे विचर्षणय इदं॰)॥ पुनरग्निश्चक्षुरदात्पुनरिंद्रो बृहस्पतिः॥ पुनमें अश्विना युवं चक्षुराधत्तमक्ष्योः ।। स्वाहा ॥ (अग्नींद्रबृहस्पत्यश्विभ्य इदं॰)। भूः स्वाहा । (अग्नय इदं॰)॥ भुवः स्वाहा । (वायव इदं॰)॥ सुवः स्वाहा। (सूर्यायेदं॰) ॥ भूर्भुवः सुवः स्वाहा॥ (प्रजापतय इदं न मम) ।। इष्टेभ्यः स्वाहा । (इष्टेभ्य इदं॰)॥ वषडनिष्टेभ्यः स्वाहा।। (वषडनिष्टेभ्य इदं॰) ॥ भेषजं दुरिष्टयै स्वाहा ॥ (भेषजं दुरिष्ट्या इदं॰) निष्कृत्यै स्वाहा ।। (निष्कृत्या इदं॰) दौरार्ध्यै स्वाहा । (दौरार्ध्या इदं॰)॥ दैवीभ्यस्तनृभ्यः स्वाहा।। (दैवीभ्यस्तनूभ्य इदं॰)। ऋध्यै स्वाहा ॥ (ऋध्या इदं॰) ॥ समृध्यै स्वाहा ।। (समृध्या इदं॰) ॥ यत इंद्र॰ जहि स्वाहा। (इंद्राय मघवत इदं॰) ॥ स्वास्तदा विशस्पतिः॰ अभयंकरः स्वाहा ॥ (इंद्रायाभयंकरायेदं॰) ॥ आभिर्गाभिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः ॥ यदा स्तोतृभ्यो महिगोत्रा रुजासि भूयिष्ठभाजो अर्धते स्याम स्वाहा ॥ (हरिवते वर्धमानायेदं॰) ॥ अनाज्ञातं यदाज्ञातम् ॥ यज्ञस्य क्रियते मिथु ॥ अग्ने तदस्य कल्पय ॥ त्वँ हि वेत्थ यथातथँ स्वाहा ॥ (अग्नय इदं॰) ॥ पुरुष सम्मिती यज्ञः ॥ यज्ञः पुरुष सम्मितः ॥ अग्ने तदस्य कल्पय ॥ त्वँ हि वेत्य यथातथँ स्वाहा । (अग्नय इदं॰) ॥ यत्पाकत्रा मनसा दनि दक्षान ॥ यज्ञस्य मन्चते मतीसः ॥ अग्निष्टद्धोता कृतुविद्विजानन् । यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा । (अग्नय इदं॰) ।। भूरग्नये च पृथिव्यै च महते च स्वाहा ॥ (अग्नये पृथिव्यै महत इदं॰) ॥ भुवो वायवे चांतरिक्षाय च महते च स्वाहा ॥ (वायवेऽन्तरिक्षाय महत इदं॰) ॥ सुवरादित्याय च दिवे च महते च स्वाहा ॥ (आदित्याय दिवे महत इदं॰) ॥ भूर्भुवः सुवश्चंद्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा ॥ (चंद्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदं॰)॥ पाहि नो अग्न एनसे स्वाहा ॥ (अग्नय इदं॰) ॥ पाहि नो विश्ववेदसे स्वाहा ॥ (विश्ववेदस इदं॰)॥ यज्ञं पाहि विभावसो स्वाहा ॥ (विभावसव इदं॰) ॥ सर्व पाहि शतक्रतो स्वाहा ॥ (शतक्रतव इदं) ॥ पाहि नो अग्न एकया ॥ पाह्युत द्वितीयया ॥ पाह्यूर्जं तृतीयया ।। पाहि गीर्भिश्चतसृभिर्वसो स्वाहा । (अग्नय इदं॰) ॥ सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि ॥ सप्त होत्राः सप्तधा त्वा यजति सप्त योनीराणस्वा घृतेन स्वाहा ॥ (अग्नये सप्तवत इदं॰) ॥ पुनस्त्वादित्या रुद्रा वसवः समिधतां । पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।। धृतेन त्वं तनुवौ वर्धयस्व सत्याः संतु यजमानस्य कामाः स्वाहा ॥ [[TODO: परिष्कार्यम्]]

इति घृतानुषिक्ताँ19 समिधं हुत्वा पुनस्तेनैवाज्याहुतिं जुहुयात् –

पुनस्त्वादित्या॰ कामाः स्वाहा ॥ (वसुनीथायेदं॰) ॥ ब्रह्म जज्ञानं॰ विवः स्वाहा । (ब्रह्मण इदं॰) ॥ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः ॥ ब्रह्म यज्ञानाँ हविषामाज्यस्य ॥ अतिरिक्तं कर्मणी यच्च हीनम् ॥ यज्ञः पाणि | प्रतिरक्षेति कल्पयन् ।। स्वाहा कृताहुतिरेतु देवान्स्वाहा ।। (देवेभ्य इदं॰) ॥ आश्रावितमत्याश्रावितम् ॥ वषटकृतमत्यनूक्तं च यज्ञे ॥ अतिरिक्तं कर्मणो यच्च हीनम् ॥ यज्ञः पर्वाणि प्रतिरन्नति कल्पयन् ॥ स्वाहा कृताहुतिरेतु देवान स्वाहा ।। (देवेभ्य इदं॰) ॥ यद्वो देवा अति पादयानि ॥ वाचा चित्प्रयतं देव हेडनम् ॥ अरायो अस्मा अभिदुच्छुनायते ॥ अन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहा ॥ (मरुद्भय इदं॰) ॥ ततम्म आपस्तदंताय ते पुनः॥ स्वादिष्टाधीतिरुचाय शस्यते ॥ अयः समुद्र उत विश्वभेषजः ॥ स्वाहाकृतस्य समवृष्भुतर्भुवः स्वाहा ॥ (ऋभुभ्य इदं॰) ॥ नातवेदसे सुनवाम सोममरातीयतो निर्दहाति वेदः ॥ स नः पर्षदति दुर्गाणि विश्वा नावेव सिंधु दुरितात्यानिः स्वाहा । (जातवेदसेग्नय इदं॰) ॥ गणानां त्वा॰ सादनँ स्वाहा ।। (गणपतय इदं॰) ॥ क्षेत्रस्य पतिना॰ मृडातीदृशे स्वाहा ॥ (क्षेत्रपालायेदं न मम) ॥ वास्तोष्पते प्रति॰ चतुष्पदे स्वाहा॥ (वास्तोष्पतय इदं॰) ॥ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् ॥ उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात्स्वाहा ॥ (त्र्यंबकायेदं॰) ॥ [[TODO: परिष्कार्यम्म]]

व्याहृतीश्च हुत्वा सौविष्टकृतमुत्तरार्धपूर्वार्धे जुहोति -

यदस्य कर्मणोऽत्यरी रिचं यद्वा न्यूनमिहाकरम् ॥ अग्निष्टत्स्विष्टकृद्विद्वान् सर्वँ स्विष्टँ सुहृतं करोतु मेऽग्नये स्विष्टकृते’ सुहुतहुत आहुतीनां कामानाँ समर्धायत्रे स्वाहा [[TODO: परिष्कार्यम्]]

इति ॥ (अग्नये स्विष्टकृत इदं॰) ॥ अथ स्रुवेण मध्यदक्षिणोत्तरान्परिधीन् क्रमेणानक्ति ॥ प्रागादितः परिस्तराद्बर्हिः[^१_२२] समुल्लिप्याज्यस्थाल्यां प्रस्तरवदग्रमध्यमूलान्यक्त्वा बर्हिरेकं पृथक्कृत्याग्रादारभ्यामूलं प्राञ्चं दाहयन्नेव प्रास्येत् ॥ पृथक्कृतमपि तथैव प्रास्य मध्यमं परिधिमनुपहरति ॥ इतरावपि युगपत्प्रहृत्योर्ध्वे समिधौ च प्रास्याथैनान्सँस्रावेणाभि जुहोति

वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्रावभागेभ्यः स्वाहा

इति ॥ (वसुभ्यो॰ सँस्रावभागेभ्य इदं॰) ॥ तच्छं॒योरावृ॑णीमहे॰20 चतु॑ष्पदे॒ स्वाहा ॥ (शंयव इदं॰) ॥

अथ सांगतासिध्यर्थं सर्वप्रायश्चित्तं जुहुयात् ॥ ॐ भूर्भुवः॒ सुवः॒ स्वाहा ॥ (प्रजापतय इदं॰)॥ नवग्रहादिशांतिकपौष्टिकादिहोमेषु पूर्णाहुतिं21 जुहुयात् -

ॐ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम् ॥ कविँ सम्म्राजमतिथिं जनानामासन्नापात्रं जनयंत देवाः स्वाहा ॥ (मूर्धाग्मय इदं॰) ॥ देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञँ स्वाहा वाचि स्वाहा वातेधाः स्वाहा ॥ (देवेभ्यो गातुविद्भ्य यज्ञाय परमात्मन इदं॰) ॥ [[TODO: परिष्कार्यम्]]

अत्र हुतशेषप्रदानं22 प्राशनं चान्यानि तत्तत्कर्मसु विहितानि यथाम्नातं कृत्वा पूर्ववज्जुषस्व न इत्याद्यग्निं परिषिंचति -

अ॒दि॒तेऽन्व॑मँ स्थाः ॥ अ॒नु॒म॒तेऽन्व॑मँ स्थाः ॥ स॒र॒स्व॒तेऽन्व॑मँ स्थाः॥ देव॑ सवितः॒ प्रासा॑वीः [[TODO: परिष्कार्यम्]]

इति ॥ अथैनँ समिधमाधायोपतिष्ठते -

यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् ॥ यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् ॥ यत्ते अग्ने हरस्तेनाहँ हरस्वी भूयासम् ॥ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयींद्र इंद्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु [[TODO: परिष्कार्यम्]]

इति षोढाविहितेनोपस्थायोपविश्य

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ॥ वीरान्मा नो रुद्रभामितोवधीर्ह॒विष्मंतो नमसा विधेमते” [[TODO: परिष्कार्यम्]]

इत्याग्नेयं भस्म गृहीत्वांगुष्ठोपकनिष्ठिकाभ्यां क्रमेणांगेषु धारयेत् – “ओजो॑ऽसि" इति ललौटे23 ॥ “सहो॑ऽसि” इति कण्ठे ॥ “बल॑मसि” इति दक्षिणबाहुमूले ॥ “भ्राजो॑ऽसि" इति कण्ठपृष्ठे ॥ “दे॒वानां॒ धाम॒ नामा॑सि” इति नाभौ ॥ “विश्वम॑सि वि॒श्वायुः॑” इति हृदये ॥ “सर्व॑मसि स॒र्वायु॑रभि॒ भूः" इति मूर्ध्नि ॥ अथाग्नेः पश्चाद्बर्हिषि पूर्णपात्रं24 निधायाभिमृशन् जपति -

सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं में भूया आक्षितमसि मा मे क्षेष्ठाः [[TODO: परिष्कार्यम्]]

इति ॥ अथ दिशो व्युन्नयति –

प्राच्यां दिशि देवा ऋत्विजो मार्जयंताम्॥ दक्षिणायां दिशि मासाः पितरो मार्जयंताम् ॥ प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् ॥ उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् ॥ ऊर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्जियन्ताम् [[TODO: परिष्कार्यम्]]

इति ॥ अतिशिष्टाः पराचीनिंनयति –

समुद्रं वः पहिणोम्यक्षिताः स्वां योनिमपि गच्छत ॥ अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पयः” [[TODO: परिष्कार्यम्]]

इति ॥ ताभिरद्भिर्दंपती प्रोक्षयेत् ॥

अत्र यजमानस्य वामपार्श्वस्थितपत्न्यंजलौ “समुद्रं वः” इति पूर्णपात्रजलं प्रत्यङ्मुखं निषिच्य तज्जलैर्यजमानं पत्नीं चाचार्यः प्रोक्षत् ॥ पत्नी तु तज्जलं बर्हिषि निषिंचेत् ॥ अथवा यजमान एवोत्तानीकृतस्ववामपाणिं बर्हिषि निधाय तत्र दक्षिणपाणिना पूर्णपात्रजलमासिच्य ता आपः समुद्रं गच्छंतीति ध्यायंस्ताभिरात्मानं पत्नीं च प्रोक्षदिति विशेषः प्रोक्तः प्र॰ पारिजाते ॥ अथ ब्रह्मणे - “ब्रह्मन् वरं ते दवामि” इति गां चरुशेषं सघृतं वा दत्वा तं प्रणिपत्य विसर्जयेत् ॥ सदस्येभ्यश्च धेनुमृषभमनड्वाहं वा यथाशक्ति दद्यात् । ततः षोडशोपचारैर्यज्ञपुरुषमभ्यर्च्य

अग्ने नय॰ अग्नय घृताची ॥ सकृत्ते अग्ने नमः ॥ द्विस्ते नमः ॥ त्रिस्ते नमः ॥ चतुस्ते नमः॥ पंचकृत्वस्ते नमः ॥ दशकृत्वस्ते नमः ॥ शतकृत्वस्ते नमः ॥ आसहस्रकृत्वस्ते नमः ॥ अपरिमित कृत्वस्ते नमः ॥ नमस्ते अस्तु मा मा हिँ सीः॥ नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे ॥ अन्यं ते अस्मत्तपतु हेतयः पावको अस्मभ्यँ शिवो भव ॥ [[TODO: परिष्कार्यम्]]

नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ॥
नम आहवनीयाय महावेद्यै नमो नमः ॥
कांडद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ॥
स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ॥
यज्ञेशाच्युत गोविंद माधवानंत केशव ॥
कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥

इति प्रदक्षिणनमस्कारान्कृत्वा

मंत्रहीन क्रियाहीनं भक्तिहीनं हुताशन ॥
यद्धुतं तु मया देव परिपूर्णं तदस्तु में ॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य वा ॥
यन्न्यूनमतिरिक्तं च तत्सर्वं क्षंतुमर्हसि ॥
श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ॥
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन

इति संप्रार्थ्य ॥

यस्य स्मृत्या च नामोक्त्या तपोहोमक्रियाविषु ॥
न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम्

इति विष्णुं स्मृत्वा ॥

अनेनामुकहोमकर्मणा श्रीपरमेश्वरः प्रीयताम्”

इति कर्मेश्वराय समर्प्य

गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने पुरुषोत्तम ॥
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन

इत्यग्निमुद्वासयेत् ॥ इत्येष सर्वकर्मसाधारण आघारवान् दर्वीहोमः॥


  1. यजमानम् । ↩︎

  2. “अष्टमे नवमे चैव दशमैकादशे तथा ।
    सेचनं परिधिश्चैव स्तरणं पूजनं क्रमात्”

    इति स्थण्डिलादेतदंगुलिमिते देशे परिषेचनादिकं कार्यमित्यर्थः ॥ ↩︎

  3. “अलाभे चैव दर्भाणां यथा लाभन्तु कल्पयेत्” इति गृ॰ संग्रहे । “अग्नेः षोडशभिर्दर्भैः प्राच्यादिषु परिस्तृतिः” इति श्रौतपदार्थनिर्वचने ॥ ↩︎

  4. “आज्यस्थालीं स्रुवं चैव दर्वीं च स्रुचमेव च ॥
    प्रणीतां प्रोक्षणीं चैव चरुस्थालीं समेक्षणाम् ।
    तथेध्माबर्हिषी चेति यैरन्यैश्च प्रयोजनम् ।
    व्रीहिनिर्वापपक्षे तु मुसलोलूखले तथा ॥
    शूर्पाजिने चेत्येतानि नित्यं पात्राणि सादयेत्”

    इति गृ॰ संग्रहे । “द्वितीयहानौ सतृणन्तु सायं दन्दत्वसिध्यै समिधायुतं वा” इति कल्पसारे ॥ ↩︎

  5. प्रोक्षणीगतागता एवाऽपस्तदेकदेशाभिः प्रोक्ष्येत्यर्थः ॥ ↩︎

  6. अयमुत्पवनक्रमः ॥ “पुनराहारम् एवमिव हि प्राणापानौ संचरतः” ॥ इति श्रुत्या निदर्शितः श्रौतसूत्रव्याख्यात्रा केशवस्वामिनाऽपि व्याख्यातः । अतो नात्र प्रत्यगपवर्गता दोषः शंकनीयः ॥ ↩︎

  7. “एष सम्मार्गक्रमः तदु वा आहुः । अग्रत एवोपरिष्टात्सम्मृज्यात् मूलतोऽधस्तात् ॥” इत्यादि श्रुत्यर्थानुसारं श्रीमद्विद्यारण्येन दर्शपूर्णमाससूत्रभाष्ये सन्दर्शितः ॥ ↩︎

  8. “स्वाहाकृतिः स्यात्समिधस्तु मन्त्रः" इति कल्पसारे ॥ ↩︎

  9. “ऊर्श्वे द्वे समिधे ततश्च समिधं हुत्वा जुषस्वेत्युपस्थायासिञ्चतु दक्षिणाद्यमदितेन्वाद्यैर्वकारान्तकैः” इति प्र॰ रत्ने । ↩︎

  10. “जुषस्वनादींश्च विधाय चालंकृत्येध्ममभ्यर्च्य विधिं समर्चयेत् ।
    ततस्त्वनुज्ञाप्य निधाय चानूयाजञ्च चत्वारिमनुस्मृतान्ते ॥

    स्वाहेति वह्नौ जुहुयाच्च केवलम्” इति प्र॰ तिलके । ↩︎

  11. “बध्वेध्मरज्जुं स्फ्येनैवान्वग्रं मध्यादितः क्रमात् ।
    परिधींस्त्रित्रिः प्राचीनञ्चाग्निं सम्मार्ष्टि तान्न वा”

    इति गृ॰ संग्रहे ॥ ↩︎

  12. यस्यै यस्यै दिश्युत्सिच्येत तस्यै तस्यै देवतायै स्रुवाहुतिं जुहुयाद्यदि प्रागग्नये यदि दक्षिणतो यमाय यदि पश्चाद्वरुणाय यद्युत्तरतः सोमायाथ यदि सर्वत एवोत्सिच्येत ताभ्यः सर्वाभ्यो देवताभ्यः खुवाहुतीर्जुहुयात् ॥ विदिक्षूत्सेके व्याहृतीर्जुहुयात् उत्सितं चरुमाज्येनाप्याययति ॥ आप्यायस्व सन्ते ॥ इति द्वाभ्यां मिन्दाहुती च जुहुयात् ॥ इति मन्त्रगणाम्नातप्रायश्चित्तसूत्रम् ॥ ↩︎

  13. यत्रानेककर्तृकः स्यादुपहोमस्तत्रोद्देशत्यागसौकर्याय “या या यक्ष्यमाणदेवतास्ताः सर्वा अत्र सनिहिताः संतु ॥ हूयमानद्रव्यं च तत्तद्देवत्यमस्तु” इत्युद्दिश्यातिसृजेदित्याचारः शिष्टैरादृतः ॥ ↩︎

  14. “स्थालीपाकेंऽतःपरिधि बहिःपरिधि समंत्रकम्” इति गृह्यशेषे ॥ ↩︎

  15. “अस्मिन्ब्रह्मस्ततो ब्रूयादिति सप्तदशस्वपि ॥
    जपेत् पितर इत्यादि यजुर्होमे हुते हुते”

    इति गृ॰ संग्रहे ॥ ↩︎

  16. “राष्ट्रभृत्सु यथालिंगमनुषंगो न वा ततः ॥
    स्वाहाकारद्वयांते वा होमः प्रत्येकमेव वा”

    इति कल्पसारे॥ ↩︎

  17. “अप्रायश्चित्तिको यज्ञो भुज्येत हि सुरेतरैः” इति कल्पसारे ॥ ↩︎

  18. आचारप्राचुर्यात्प्रयोगशिखामणौ प्रोक्ता एवात्रोल्लिखिताः ॥ प्र॰ तिलक-गृ॰ संग्रहयोस्तु-

    “न्यूनातिरिक्तदोषाणां प्रायश्चित्तार्थमादरात् ॥
    मनस्वतीमयाश्वाग्ने यदस्मिन्स्वस्तिनस्तथा॥
    माता मिंदा व्याहृतिश्च आभिर्गीर्भिरिति क्रमात् ॥
    अनाज्ञातं च पुरुषसम्मितो यज्ञ इत्यथ ॥
    यत्पाकत्रामहाद्याश्च व्याहृतीर्जुहुयाद्बुधः ॥
    देवेभ्यश्च पितृभ्यश्च भूर्भुवस्वर्महस्तथा ॥
    प्रणवांतं यजेद्विद्वानग्नौभूयः पुनस्त्विति ॥
    आज्याक्तां समिधं हुत्वा पुनस्त्वेति पुनर्घृतम् ॥
    पवमानः पावकश्च शुचिर्व्रतपतिस्तथा ॥
    पथिकृत्तंतुमान्वैश्वानरोऽग्निपदपूर्वकाः ॥
    सप्तैते स्युश्चतुर्थ्यन्तास्ततः पाह्यादि पंचकम् ॥
    यदस्य कर्मण इति हुनेत्स्विष्टकृदादिकम्”

    इत्येतावत्य एव न्यूनातिरेकप्रायश्चित्ताहुतयो निर्दिष्टाः ॥ ↩︎

  19. “पुनस्त्वेति हुनेदेधः पुनस्त्वेति हुनेद्धृतम्” इति गृ॰ संग्रहे । ↩︎

  20. “शंयुवाकं च सर्वत्र हुनेद्धोमावसानके” इति प्र॰ तिलके ॥ ↩︎

  21. नवग्रहे - “मूर्धानं दिवोअरतिम्, इति पूर्णां हुत्वा” इति गृ॰ शेषे ॥

    संस्रावं घृतपात्रं तु मानार्धघृतपूरितम् ॥
    तिष्ठन्नीत्वाऽऽगलं तच्च्युत्स्रुवधारा यथानिशम् ॥
    देया पूर्णाहुतिस्त्रय्यादिनाग्नौ दक्षिणार्चिषि

    इति गृ॰ संग्रहे ॥ “तत उत्थाय संस्राव्य देवा गातुविदस्त्विति” इति प्र॰ तिलके ।। ↩︎

  22. “स्त्रीमूर्धहोमं हुतशेषदानं संप्राशनं चान्यदपीदृशं यत् ॥ कुर्वीत सर्वं तदनुक्तकाले होमे समाप्ते परिषेकतः प्राक्” इति प्र॰ तिलके ॥ “ओषध्यादिवद्बलिहरणं प्राक्परिषेचनाद्धुतशेषप्रदानं प्राशनं चैवमेव मूर्ध्नि संस्त्रावहोमः प्रदक्षिणं चान्यत्रोपनयनात्” इति गृह्यशेषे ॥

    हुतशेषनिधानं च देवतावाहनं तथा ॥
    अग्नेः पुरस्तात्कुर्वीत पित्र्ये दक्षिणतः क्रिया

    इति गृ॰ संग्रहे ॥ ↩︎

  23. अत्र ललाटाद्यंगक्रमः प्रयोगग्रंथात्संगृहीतः । ↩︎

  24. प्रणीतापात्रमुद्वास्य सदसीत्यादि मंत्रतः ॥
    प्रागादि मार्जयेत्प्राच्यामित्यादि ब्रह्मणे वरम् ॥
    दत्वा चोद्वास्य च विधिं भूर्भुवः सुवरोमिति ॥
    कूर्चं चेद्भोजयेद्विप्रं सदस्येभ्यश्च गां तथा ॥
    संस्नाप्यावभृथेनाथ समुद्रमिति दंपती

    इति प्र॰ तिलके ॥ ↩︎