(बो. गृ. प. सू. १. ३. ४-५ )
ब्राह्मणो वा अष्टाविंशो नक्षत्राणां तत्तस्य वचः पुण्यम् । इति ॥ तावुभौ ब्रह्मण्यो ब्रह्मवित्तमौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ । य एवं विद्वान् ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृध्या इति ॥
अपरेद्युर्ब्राह्मणानन्नेन परिवेष्टयदिति दैवतं भवति । यद्देवत्यं भवति तस्य पुण्याहं वाचयिष्यन्नाम गृह्णात्यसौ प्रीयतामिति ॥
पुण्याहं वाचयिष्यन् ब्राह्मणान्संपूजयति । अरिक्तपाणयः प्राङ्मुखा युग्मास्तिष्ठन्ति । तेषां दक्षिणत उदङ्मुखोऽपिहितकुंभं धारयन् वाचयिता तिष्ठति । तस्य दक्षिणं बाहुमन्वितरस्तिष्ठति । अथैनान्संपूजयति - “मनः समाधीयताम्” इति ॥ “समाहितमनसः स्मः" इतीतरेषां प्रतिवचनम् । मनो वै चन्द्रमा ब्राह्मणा नक्षत्राणि तस्माद्ब्राह्मणेषु मनः समादधाति । य एवं विद्वान्पुण्याहं वाचयति नास्य कर्मोपहतं भवति । सर्वत्रालंकृत्य ये तत्र ब्राह्मणाः सन्ति ताननुज्ञाप्य कुर्वीत यत्कारी स्यात् समृद्धमेवास्य तत् ।
(बो. ग. शे. सू. १. १०. २ )
शुचौ समे देशे दर्भान्दूर्वान्धारयमाणाः चत्वारो ब्राह्मणा अरिक्तहस्ताः प्राङ्मुखा युग्मास्तिष्ठन्ति ॥
अक्षतशब्देन व्रीहिमिश्रास्तंडुला उच्यंते । पूर्णकुंभमभ्यर्च्य ॥ (वो. गृ. प. सू. १. ५. १-२)
अथ शुचौ समे देशे इति कथं विज्ञायते । गोमयेन गोचर्ममात्रं चतुरश्रं स्थंडिलमुपलिप्तं भवति तच्छुचिर्भवति ॥
(बो. गृ. शे. सू. १. ९)
पुण्याहदेवता व्याख्यास्यामः । विवाहस्याग्निः प्रीयतामौपासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां पञ्चमेऽहन्युदुंबरो दशमेऽहन्यते चित्र्याणि स्थालीपाकस्याग्निर्गर्भाधानस्य ब्रह्मा पुंसवनस्य प्रजापतिः सीमन्तस्य धाता विष्णुबलेः सविता जातकर्मणो मृत्युर्नामकरणस्य सविता तस्यान्ते प्रजापतिरुपनिष्क्रमणस्य सविता तस्यान्ते चित्र्याण्यन्नप्राशनस्य सविता चौळस्य केशिनस्तस्यांते प्रजापतिरुपनयनस्येंद्रः श्रद्धामेधे इत्यंते विसर्गे सुश्रवाः पुनरुपनयनस्याग्निरथ यदि ब्रह्मचार्यव्रत्यमिवचरेत्तस्मिन्नध्यायहोमे सविता समावर्तनस्य श्रीरिन्द्रो वा शूलगवस्येशानः प्रत्यवरोहणस्य सविता उपाकर्मव्रतेषु च सविता वास्तुहोमस्य वास्तोष्पतिरंते प्रजापतिरद्भुतहोमस्येंद्रोंऽते प्राजापतिरायुष्यहोमस्याग्निरायुष्मान् नक्षत्रहोमस्य नक्षत्रेष्टिषूक्तमष्टमीप्रदोषस्येशान आग्रायणहोमस्याग्रायणदेवताः सर्पबलेः सर्पा अथैकोद्दिष्टस्यांते प्रजापतिस्तटाकादीनां वरुणो देवता यक्षिबलेर्यक्षी ग्रहशान्तिहोमस्यादित्यादिनवग्रहा गर्भाधानादितन्त्रहोमस्य ब्रह्मादयः प्रीयन्तामित्येवमन्येषां होमानां याज्यापुरोनुवाक्ययोर्देवता तस्यासौ प्रीयतामिति । सूतकान्ते प्रेतकान्ते प्रथमोदक्यान्ते च प्रजापतिः कूष्माण्डहोमस्याग्न्यादयश्चान्द्रायणहोमस्याग्न्यादय अग्न्याधेयेऽग्नीषोमेंद्रा एवमनादिष्टकर्मसु प्रजापतिः
इति ॥ पुण्याहनिमित्तानि प्रयोगपारिजाते-
गर्भाधानादिसंस्कारेष्विष्टापूर्त क्रतुष्वपि ।
वृद्धिश्राद्धं पुरा कार्यं कर्मादौ स्वस्तिवाचनम्
इति ॥ आश्वलायन गृह्यपरिशिष्टेऽपि - “अथ स्वस्तिवाचनमृद्धिपूर्तेषु"
ऋद्धिर्विवाहान्ता अपत्यसंस्काराः प्रतिष्ठोद्यापने पूर्ते
इति ॥ एतेन गर्भाधानादिसंस्कारेषु प्रतिष्ठोद्यापनादिपूर्तेषु अग्न्याधेयादिक्रतुष्वपि विहितनान्दीकेषु पूर्वेद्युर्नान्दीश्राद्धादिकं कृत्वा अपरेद्युः पुण्याहं वाचयेदिति विज्ञायते ॥ सद्योनान्दीकरणपक्षे सद्य एव नान्दीसमाराधनादिप्रतिसरबन्धनान्तं कृत्वा पुण्याहं वाचयेदित्यर्थादवसीयते ।।
कलशस्थापनक्रमः कल्पसारे -
उपलिप्ते शुचौ देशे मण्डले चतुरश्रके ।
धारया सहितं कुम्भं निध्यात्तोयपूरितम् ।
गंधपुष्पाक्षतफलैरर्चयित्वा सकूर्चकम् ।
अरिक्तकं सपात्रेण पिदध्यात्तं घटं ततः
इति ॥ प्रयोगपारिजाते -
गोमयेनोपलिप्योर्वीं रङ्गवाल्लिकयार्चयेत् ।
प्रस्थधान्योपरिस्थाप्यं पूर्णं हि कलशद्वयम्
इति ॥ संस्काररत्नमालायां–
शुभे कर्मणि पुण्याहवाचने कलशद्वयम् ।
स्थापयेदशुभे त्वेकमिति यज्ञविदो विदुः ॥
दक्षिणस्थः स्थिरश्चैव उत्तरस्थश्चरो भवेत्
इति ॥ प्रस्थादिपरिमाणमपि तत्रैव संगृह्योक्तम् –
पलञ्च कुडवः प्रस्थ आढको द्रोण एव च ।
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गणाः ।
पलद्वयं तु प्रसृतं मुष्टिरेकं पलं स्मृतम्
इति ॥ कलशधातवः पञ्चरत्नानि पञ्चपल्लवाश्च तत्रैवोक्ताः -
हैमराजतताम्रा वा मृन्मया लक्षणान्विताः
इति धातवः ॥
सुवर्णं रजतं मुक्ता माणिक्यञ्च प्रवालकम् ।
पञ्चरत्नमिति ख्यातं समस्तसुरवल्लभम् ।
अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्
इति रत्नानि ॥
न्यग्रोधपिप्पलप्लक्षजम्बूचूततरूद्भवाः ।
पल्लवाः पञ्च विज्ञेयास्त्वक्चैतेषां विधीयते
इति पल्लवाः ॥ पुण्याहमण्डलं कर्मरत्ने -
अष्टाविंशति रेखाभिः संयुतं पुण्यमण्डलम् ।
हस्तादितारकारूपं हस्तमात्रं लिखेद्बुधः ।
तिस्रस्तिस्रस्तु रेखा शशिवृषवदना दिक्षु पूर्वादिकेषु प्रालिख्यान्तश्चतस्रो वृषशशिशिखिमाहेश्वराग्राद्विरेखाः । वह्नीशाग्राश्चतस्रोऽप्यनलमुखविदिल्लिखेद् द्वंद्वरेखास्तद्वाह्येष्टासु दिक्षु त्रिदळमपिलिखेत्पुण्यबिम्बं विशुद्धम्
इति ॥
पुण्याहवाचनप्रयोगः
अथ पुण्याहवाचनप्रयोगः ॥ कर्ता कृतस्नानादिचतुष्टयः स्वलंकृतो दर्भपाणिर्गोमयेनोपलिप्ते रङ्गवल्लियुते शुचौ देशे पूर्वोक्तप्रकारेण पुण्याहमण्डलं विलिख्य प्रस्थपरिमितधान्यपुञ्जयोरुपरि दक्षिणोत्तरयोः सौवर्णराजतताम्रमृण्मयाद्यन्यतमं कलशद्वयमव्रणं मनोहरं सुशुद्धपुण्यजलपूरितं सपल्लवं निधाय सूत्रवेष्टितात्तरकलशे पञ्च रत्नानि निक्षिप्य तदुपरि सिततण्डुलपूरितं सफलं सकूर्चं पात्रं निधाय तत्पश्चिमभागे प्रशस्तान् प्रतिवचनसमर्थाञ्छुचीन् सोत्तरीयान् दूर्वादर्भपाणीनरिक्तहस्तांश्चतुरवरान् युग्मान्ब्राह्मणान्प्राङ्मुखानुपवेश्य सोत्तरच्छद भद्रासने स्वयं प्राङ्मुख उपविश्य पत्नीं संस्कार्यं च स्वदक्षिणतस्तथैवोपवेश्य द्विराचम्य प्राणानायम्य यथाचारमिष्टदेवतादिनमस्कारपूर्वकं सुमुखश्चेत्यादि पठित्वा देशकालो सङ्कीर्त्य
अमुककर्माङ्गतया विहितं शान्त्यर्थं पुष्टयर्थं तुष्टयर्थं वृद्ध्यर्थमभ्युदयार्थं च एभिर्ब्राह्मणैस्सह स्वस्तिपुण्याहवाचनं करिष्ये
इति सङ्कल्प्य निर्विघ्नतासिध्यर्थं गणपतिं सम्पूज्य अथ भूमिं स्पृशेत्
मही1 द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ॥ पिपृतां नो भरीमभिः [[TODO: परिष्कार्यम्]]
इति ॥
ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस्तँ राजन्पारयामास [[TODO: परिष्कार्यम्]]
इति तण्डुलान् ॥
आजिघ्र कलशं मह्युरुधारा पयस्वत्या त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः सामा सहस्र आभज प्रजयां पशुभिस्सह पुनर्मा विशताद्रायः [[TODO: परिष्कार्यम्]]
इति कलशम् ॥
इमं मे गले यमुने सरस्वति शुद्रि स्तोमँ सचता परुष्णिया ॥ असिनिया मरुद्ध्वृधे वितस्तयाजीकीये शृणुह्या सुषोमया [[TODO: परिष्कार्यम्]]
इति जलम् ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ॥ ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् ” [[TODO: परिष्कार्यम्]]
इति गन्धं कलशयोर्निक्षिपेत् ॥
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि ॥ एवानो दुर्वे प्रतनु सहस्रेण शतेन च” [[TODO: परिष्कार्यम्]]
इति दूर्वाः ॥
अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता । गोमाज इन्किलासथ यत्सनवथ पूरुषम्" [[TODO: परिष्कार्यम्म]]
इति पल्लवान् ॥
स्योना पृथिवि भवानृक्षरा निवेशनी ॥ यच्छा नः शर्म सप्रथाः" [[TODO: परिष्कार्यम्]]
इति मृदम् ॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ॥ बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँ हसः [[TODO: परिष्कार्यम्]]
इति फलम् ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्या ॥ रास्व रत्नानि दाशुषे ” [[TODO: परिष्कार्यम्]]
इति रत्नानि ॥
अग्ने रेतश्चन्द्रँ हिरण्यम् ॥ अद्भयः सम्भूतममृतं प्रजासु ॥ तत्सम्भरन्नुत्तरतो निधाय ॥ अतिप्रयच्छन्दुरितिन्तरेयम्" [[TODO: परिष्कार्यम्]]
इति हिरण्यम् ॥
युवासुवासाः परिवीत आगात् ॥ स उ श्रेयान्भवति जायमानः ॥ तं धीरासः कवय उन्नयन्ति ॥ स्वाधियो मनसा देवयन्तः” [[TODO: परिष्कार्यम्]]
इति वस्त्रम् ॥
पूर्णा दर्वि परापत सुपूर्णा पुनरापत ॥ बस्लेव विकीणावहा इषमूर्जँ शतक्रतो
इति तण्डुलपूर्णपात्रम् ॥ अथ
तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ॥ अहेडमानो वरुणेह बोध्युरुशँसमा न आयुः प्रमोषीः [[TODO: परिष्कार्यम्]]
इति मंत्रेण व्याहृतीभिर्वरुणमावाह्य षोडशोपचारैरभ्यर्च्य कलशं स्पृश्ट्वा देवता भावयेत् -
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ॥
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदस्सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहितास्सर्वे कलशन्तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥
आयान्तु मम देहस्य दुरितक्षयकारकाः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
इति ॥ अथ
मातृ॑देवो॒ भव ॥ पितृ॑देवो॒ भव ॥ आचार्य॑देवो॒ भव ॥ अतिथि॑देवो॒ भव
इत्याशिषः प्रार्थयित्वा ब्राह्मणाननुज्ञापयति
यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाशुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिं कृत्वा भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये
इति । ते प्रणवपूर्वकं “वाच्यताम्" इति प्रतिब्रूयुः । तेषां सपवित्रेषु पाणिषु जलं ददाति ‘ओमापः’ इति ॥ “शिया आपः सन्तु” इति ते प्रत्यूचुः ॥ ततो ‘गन्धाः’ इति गन्धान्ददाति ॥ “सुगन्धाः पान्तु” इति प्रतिगृह्णन्ति ॥ ‘सुमनसः’ इति पुष्पं ददाति ॥ “सौमनस्यमस्तु” इति प्रतिगृह्णन्ति ॥ ‘अक्षतम्’1 इत्यक्षतं ददाति ॥ “अक्षतञ्चारिष्टश्चास्तु” । इति प्रतिगृह्णन्ति (ब्राह्मणा अभुक्ताश्चेत् ‘ओमन्वाहार्यः’ इत्योदनं ददाति ॥ “स्वन्वाहार्योऽस्तु” इति प्रतिगृह्णन्ति)॥ तेभ्यो ‘दक्षिणाः’ इति दक्षिणां ददाति ।
स्वस्ति दक्षिणाः पान्तु बहुदेयञ्चास्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु ॥ श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चास्तु
इति प्रत्यूचुः ॥ ततो वाचयिता दक्षिणं जानु भूमौ निधाय सव्यमुत्थाप्योदङ्मुखः’इडा देवहूः’ इति जपित्वोत्तरकलशमादायोत्तिष्ठन्नाह ‘मनस्समाधीयताम् ’ इति ॥ “समाहितमनसः स्मः” इति ते प्रत्याहुः ॥ ‘प्रसीदन्तु भवन्तः’ इति वाचयिता ॥ “प्रसन्नाः स्मः” इति ते प्रत्यूचुः ॥ अथ पात्रान्तरे कलशोदकं निनयन्नाह
शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु, वृद्धिरस्तु, अविघ्नमस्तु, आयुष्यमस्तु, आरोग्यमस्तु, शिवं कर्मास्तु, कर्मसमृद्धिरस्तु, धर्मसमृद्धिरस्तु, वेदसमृद्धिरस्तु, शास्त्र समृद्धिरस्तु, धनधान्यसमृद्धिरस्तु, पुत्रसमृद्धिरस्तु, इष्टसम्पदस्तु
इति । एवमेवेतरे प्रत्याहुः ॥ यद्देवत्यं भवति तस्य नाम गृह्णाति ‘असौ प्रीयताम्’ इति ॥ ‘प्रीयतामसौ’ इतीतरे प्रत्याहुः ॥
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ॥ वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमावद विश्वतो नः शकुने पुण्यमावद । यज्ञं नः पान्तु वसवः पुरस्तात् ॥ दक्षिणतो भियन्तु श्रविष्ठाः ॥ पुण्यं नक्षत्रमभिसंविशाम ॥ मा नो अरातिरघशँ सागन् ॥ [[TODO: परिष्कार्यम्]]
मह्यं सहकुटुम्बिने2 महाजनान्नमस्कुर्वाणायाशीर्वचनमपेक्षमाणाय अस्य करिष्यमाणामुककर्मणः ‘ॐ पुण्याहं भवन्तो ब्रुवन्तु’ ॥ ‘ॐ पुण्याहं’ इति प्रत्याहुः । एवमेव त्रिः3 ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तायो अरिष्टनोमिः ॥ स्वस्तिनो बृहस्पति र्दधातु ॥ अष्टौ देवा वसवः सोम्यासः ॥ चतस्रो देवीर जराः श्रविष्ठाः ॥ ते यज्ञ पान्तु रजसः परस्तात् ॥ संवत्सरीणममृतँ स्वस्ति ॥ [[TODO: परिष्कार्यम्]]
मह्यं सहकुटुम्बिने॰ अस्मै करिष्यमाणामुककर्मणे ‘ॐ स्वस्ति भवन्तो ब्रुवन्तु’ ॥ ‘ॐ स्वस्ति’ इति । प्रत्यूचुः । एवं त्रिः ॥
ऋध्या स्म हव्यैर्नमसोपसद्य ॥ मित्रं देवं मित्रधेय नो अस्तु ॥ अनूराधान्हविषा वर्धयन्तः॥ शतं जीवेम शरदः सवीराः ॥ चित्रं नक्षत्रमुगात्पुरस्तात् ॥ अनुराधास इति यद्वदन्ति ॥ तन्मित्र एति पथिभिर्देवयानः ॥ हिरण्ययैर्विततैरन्तरिक्षे ॥ [[TODO: परिष्कार्यम्]]
मह्यं॰ अस्य करिष्यमाणामुककर्मणः ‘ॐ ऋद्धिं भवन्तो बुवन्तु’ ॥ ‘ओमृध्यताम्’ इतीतरे प्रत्याहुः ॥ एवमेव त्रिर्वाचयित्वा ‘ॐ पुण्याहसमृद्धिरस्तु । ॐ शिवं कर्मास्तु’ इति । ‘तथैव अस्तु’ इतीतरे प्रत्याहुः ॥ यद्देवत्यं भवति तस्य नाम गृह्णाति “असौ प्रीयताम्" इति॥ ‘प्रीयतामसौ’ इति प्रतिब्रूयुः ॥ अनाम्नातेषु “प्रजापतिः प्रीयताम्" इति ॥
शुक्राङ्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम्॥ शकुननिमित्तस्वप्नाः शिवा भवन्तु ॥ आयुषोऽभिवृद्धिरस्त्वायुषोऽभि वृद्धिरस्तु ॥ शिवँ शिवमस्तु ॥ सर्वग्रहसँ स्थित्यमस्तु ॥ सत्या एता आशिषः सन्तु ॥
ईशान्यां बहिर्देश ‘अरिष्टनिरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु’ इति किञ्चिन्निनयेत् ॥
यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरभिवृद्धिरस्तु ॥ उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु । इष्टसम्पदस्तु । शान्तिः पुष्टिस्तुष्टिश्चास्तु
इति । तथैवेतरे प्रतिब्रूयुः ॥ ततः कलशजलमन्योन्यं संस्राव्य तज्जलं पात्रान्तरे निनीय हिरण्यं निधाय दर्भैर्ब्राह्मणाः सपत्नीकं यजमानं संस्कार्यञ्च प्रोक्षेयुः । तत्काले पत्नी वामभागे4 उपविशेत् ॥ सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति प्रोक्ष्य,
अनेन पुण्याहवाचनकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्मेश्वराय समर्प्य पुण्याहवाचनसाङ्गतासिध्यर्थं फलहिरण्यादिकमाचार्याय दद्यात् ॥ ॥ ततः
उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानवः । इन्द्रं प्राशूर्भवा सचा ॥ [[TODO: परिष्कार्यम्म]]
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकाम्यार्थसिध्यर्थं पुनरागमनाय च
इत्युक्त्वा व्याहृतीभिरावाहितदेवता उद्धासयेत् ॥ ततो यथाचारं पुरन्ध्र्यो मङ्गलार्तिक्यं कुर्युः ॥ ब्राह्मणा मंत्राक्षतान्दद्युः ॥ इति पुण्याहवाचनप्रयोगः ॥
अथाग्निमुखविधानम्
दर्भाः - ( बो. गृ. शे. सू. १. ५)
सर्वत्र दर्वीहोमानामष्टोत्तरशतं दर्भाः – द्वे हस्तपवित्रे, द्वे आसनं, प्रागुदीचीनाग्रैः षोडश परिस्तरणं, दक्षिणतः प्रागग्रैः सप्तदश, पश्चादुदीचीनाग्रैरष्टादश, उत्तरतः प्रागग्रैः सप्तदश, पात्राणां पञ्च, सप्तदश ब्रह्मासनं, प्रणीतासनं द्वे, द्वे आज्यपवित्रे, द्वे अभिद्योतने, द्वे दर्भाग्रे, द्वे पर्यग्निकरणे, स्रुक्सम्मार्जनं चतुर्भिः
इति ॥ ( बो. गृ. शे. सू. १. ६)
दभैरविच्छिन्नाग्रैरनखच्छिन्नैरविवर्णकैरव्याधिकैरदग्धमूलैश्चतुरङ्गुळादिकैर्मूलं छिन्द्याद्धस्तसमम् ॥
तत्र दर्भाः प्रयोगपारिजाते निरूपिताः -
नदीतीरेऽब्धितीरेऽद्रौ तीर्थ क्षेत्रे च कानने ।
जातः कुशः समस्तासु क्रियासु श्रेष्ठ उच्यते ।
क्लीबो न हि प्रयोक्तव्यः स्त्रीपुंकर्मणि जातुचित् ।
स्त्रीपुंसावेव सर्वत्र प्रयोक्तव्यौ च लाभतः
इति ॥ स्त्रीपुन्नपुंसकलक्षणमुक्तं प्रयोगरत्ने –
अग्रस्थूलं भवेन्नारी मूलस्थूलं नपुंसकम् ।
अग्रमूलसमश्चैव पुमान्दर्भस्य लक्षणम्
इति ॥
॥ अथ पवित्रकरणं ॥ प्र॰ पारिजाते -
अत्रोक्तसङ्ख्यापिञ्जूलान्येकीकृत्य समं तथा ।
मूलानि दक्षिणे हस्ते धृत्वाग्राण्यन्यपाणिना ॥
दक्षहस्तेन तद्वाममनुवर्त्य यथादृढम् ॥
एकीकृत्याथ मूलाग्राण्यनुवर्त्य प्रदक्षिणम् ॥
तथैवाग्रेण चावेष्ट्य कुर्याद्ग्रन्थिं यथादृढम् ।
पवित्रकरणं त्वेवमुदितं सर्ववेदिनाम् ॥
वलयं स्वाङ्गुलीमानं ग्रन्थिरेकाङ्गुलिप्रमः ।
चतुरङ्गुलमग्रं स्यादस्य स्थानमनामिका5
इति ॥
हस्तपवित्रस्य कर्मभेदेन दर्भसङ्ख्याः प्रोक्ताः प्र॰ तिलके -
चतुर्भिः पौष्टिके दर्भैः पञ्चभिस्त्वाभिचारके ।
पित्र्ये त्रिभिः पवित्रं स्याद्द्वौ दर्भौ नित्यकर्माण
इति ॥ आज्यपवित्रकरणन्तूक्तं कर्मरत्ने -
समे द्वे स्थौल्यदैर्घ्याभ्यां साग्रे प्रादेशसम्मिते ।
पवित्रे ग्रथिते ज्ञेये पित्र्ये त्वेकमबन्धनम्
इति ॥
जुटाकारं बाहुमात्रञ्च शुल्बं कुर्याद्दर्भैर्द्वादशैर्मासरूपैः ।
त्रिस्त्रिर्दर्भैः सन्धिरग्रन्थियुक्तं तन्मूलाग्रे ब्रह्मबन्धेन बद्धम्
इति ॥
अथ परिधिपात्रादीनां लक्षणम् ॥ (वो. गृ. शे. सू. १.७)
अरत्निमात्रं षडङ्गुलं तिस्रश्शम्याः परिधीन्कृत्वा, मध्यमाङ्गुलिरनामिका कनिष्ठिकेति स्थविष्ठो मध्यमोऽणीयान् द्राधीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतोऽङ्गुष्ठपर्वमात्र अष्टादश याज्ञिकाः काष्ठाः, प्रादेशमात्रं पवित्रं, दर्भतरुणकाभ्यामङ्गुष्ठपर्वमात्रं प्रोक्षणीमाज्यस्थालीं प्रस्थचतुर्भागपूर्णां प्रस्थद्विभार्गं प्रणीताप्रणयनं चरुस्थालीं प्रस्थमाहुतिप्रमाणं चतुरङ्गुलमवदानप्रमाणमङ्गुष्ठपर्वमात्रं दर्वीप्रमाणमेकविंशत्यङ्गुष्ठं तस्या द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवमेव स्रुक्प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति मेक्षणमिति होमदर्वीप्रमाणमिति ह स्माह बोधायनः
इति ॥ (बो. गृ. प. सू. १.६)
एकविंशतिदारुमिमं करोति यज्ञस्य सरूपत्वाय" “वैकङ्कती स्रुगाकृतिर्भवति ॥
( बो. गृ. सू. १.३)
खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य इति ॥ अथ हैकेषां विज्ञायते
निर्ऋतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निर्ऋत्याऽस्य यज्ञं ग्राहयेत्तस्मात्स्रुवेणैव होतव्यं
इति ॥ पालाशेन स्रवेणेत्यात्रेयः ॥ खादिरणेत्याङ्गिरसः ॥ ताम्रायसेनेत्याथर्वणः ॥ कार्णायसेनाभिचरन्निति सार्वत्रिकम् ॥
(वो. गृ. शे. सू. १.१)
अरनिमात्राः परिधय आर्द्रा वा सत्वक्काः ॥
प्रादेशमात्राण्येकविंशतिरिध्मदारूणि भवन्ति
इति ब्राह्मणेन व्याख्यातम् ॥ अथ यदि शम्याः परिदधाति शमीमय्यश्शम्याकृतयो वाऽरत्निमात्राः ॥
अथ समिल्लक्षणम् ॥ स्मृत्यर्थसारे -
सत्वचः समिधः कार्या ऋज्व्यः श्लक्ष्णाः समास्तथा ।
शस्ता दशाङ्गुलास्तास्तु द्वादशाङ्गुलिकास्तथा ॥
आर्द्राः पक्काः समाश्चैव तर्जन्यङ्गुलिवर्तुलाः ।
अपाटिता अद्विशिखाः कृमिदोषविवर्जिताः ॥
ईदृशीर्होमयेत्प्राज्ञः प्राप्नोति विपुलां श्रियम्
इति ॥ “आर्द्राः शुष्का वा सत्वक्काः” इत्यापस्तम्बसूत्रम् ॥
अथ स्थण्डिलकरणम् ॥ (बो. गृ. शे. सू. १.८ )
अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलं कृत्वा प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति ॥ प्राचीनप्रवणं किङ्कामस्योदीचीनप्रवणं किङ्कामस्य ? । प्राचीनप्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यकामस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य ॥
( बो. गृ. शे. सू. १.५ )
भस्मकेशतुषकपालशर्करतृणास्थिपिपीलिकैरार्द्रसिकतानि वर्जयेत् ॥ भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषेण पुत्रघ्नं कपालैरर्थनाशनं शर्करैर्बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामविनाशः पिपीलिकै राष्ट्रविनाशः आर्द्रसिकतैर्व्याधिभयं भवतीत्याह भगवान्बोधायनः ॥
( बो. गृ. शे. सू. १.४ )
सिकताश्चतुरङ्गुलं प्राचीनमुध्दृत्य पञ्चाङ्गुलिप्रमाणं पश्चिमत ऊर्ध्वमङ्गुलिविशेषं दक्षिणत ऊर्ध्वमङ्गुलिविहीनमुत्तरतः पञ्चप्रस्थं सिकताश्शुचयश्शुक्ला अनार्द्रा अरत्निमात्रं समचतुरश्रं प्राक्प्रवणं स्थण्डिलं करोति ॥ न लोष्टेन न काष्ठेन न शर्करैर्न नखैः । काष्ठेन व्याधितस्स्याल्लोष्टेन कुलनाशनम् । शर्करैः पुत्रनाशस्स्यान्नखैर्बन्धुविनाशनम् ॥ तस्मात्सुवर्णरजतताम्रशकलेन ब्रीहिभिर्यवैर्वा दर्भैस्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्य तस्य मध्यतः प्राचीनं सन्ततमृजुमुल्लिखेत् ॥ किं दैवत्यं किं मन्त्रमिति ? । ब्रह्मदैवत्यं ‘ब्रह्म जज्ञानम्’ इति ॥ तस्य दक्षिणतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किं दैवत्यं किं मन्त्रमिति ?। यमदैवत्यं ‘नाके सुपर्णम्’ इति ॥ तस्योत्तरतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किं दैवत्यं किं मन्त्रमिति । सोमदैवत्यं ‘आप्यायस्व समेतु ते’ इति । तस्य मध्यत उदीचीनं सन्ततमृजुमुल्लिखेत् । किं दैवत्यं किं मन्त्रमिति ? । रुद्रदैवत्यं ‘यो रुद्रो अग्नौ’ इति ॥ तस्याः पश्चादुदीचीनं सन्ततमृजुमुल्लिखेत् । किं देवत्यं किं मन्त्रमिति ? । विष्णुदैवत्यं ‘इदं विष्णुर्विचक्रमे’ इति ॥ तस्य पुरस्तादुदीचीनं सन्ततमृजुमुल्लिखेत् । किं दैवत्यं किं मन्त्रमिति ? । इन्द्रदेवत्यं ‘इन्द्रं विश्वा अवीवृधन्’ इत्येतस्मात् स्थण्डिलविधिर्भवति ॥ नकपालो नधूमो नज्वालो नविस्फुटो ननम्रमुखोद्रप्सः पतितं मुखज्वलितं च वर्जयित्वा -
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरोम्
इत्याह भगवान बोधायनः ॥
(बो. ग. प. सू. १.५ )
दर्भेषु दक्षिणतो ब्राह्मण उपविशति । स यद्युपविशत्यादिशो व्युन्नयनादास्ते ॥ यद्यु वै नोपविशति दर्भेषु दक्षिणतः प्रागग्रं कूर्चं निधाय -
ॐ भूर्भुवस्सुवरों ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मणे
इत्युपतिष्ठते ब्रह्मैवात्रासीनो भवति तस्मै वरं ददाति ब्राह्मणं वा भोजयेदिति ॥ एतेन सशिरस्को यज्ञः -
यो वै यज्ञस्य शिरो वेद शीर्षण्वान्मध्यो भवति
इति ॥ उत्तरत उदपात्रं ब्राह्मणमिध्माबर्हिरिति -
एतद्वै यज्ञस्य शिरो य एवं वेद शीर्षण्वान्मेध्यो भवति
इति ब्राह्मणम् । अथ शम्याः परिदधाति - ‘शम्या वा परिधयो वा’ इति विज्ञायते । नाऽपरिधाय जुहुयात् - ‘रक्षसामपहत्यै’ इति ॥ सर्वत्र परिसमूहनपर्युक्षणपरिस्तरणपरिधानोपसमाधानालङ्करणमित्यादरादाचार्याः ॥ सर्वत्रालङ्कृत्य ये तत्र ब्राह्मणाः सन्ति ताननुज्ञाप्य कुर्वीत यत्कारी स्यात्समृद्धमेवाऽस्य तत् ॥
(बो. ग. शे. सू. १.२)
कथमु खलु पात्रसादनानामानुपूर्व्यं भवति - आज्यस्थालीं, स्रुवं, च जुहूञ्च, दर्वीञ्च, प्रणीताप्रणयनं, प्रोक्षणीपात्रं, चरुस्थालीं, मेक्षणञ्जेध्माबर्हिरिध्मप्रव्रश्चनान्येवमेवान्यानि, द्वन्द्वं न्यञ्चि न हीने नातिरिक्ते सादयति ॥ अथाप्युदाहरन्ति
असंस्कृताभिरद्भिः प्रोक्षणीभिरप्रोक्षितपात्रैर्होमश्चाऽसम्मार्जनैः स्रुक्स्रुवैर्नाधिश्रितपक्वैराज्येन न प्रचरितव्यम् । यदि प्रचरेद्यातुधाना असुरा रक्षांसि पिशाचा यज्ञं ग्राहयेयुः
इति ॥
अत्र स्थण्डिलविधेः प्राक् श्वेतमृद्भिस्त्रिस्त्रिरेखाभिश्चतुरश्रं विलेख्यमिति सामान्यतो होममण्डलमभिहितम् ॥ विश्वामित्रकारिकायान्तुः -
क्रूरासुराणां भयनाशनाय ब्रह्माऽसृजत्पावकरक्षणाय ।
शुभं त्रिरेखान्वितमष्टकोणं शान्तिप्रदं तत्किल यागबिम्बम् ॥
षण्णवत्यङ्गुलिमितं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
गोचर्ममात्रमुद्दिष्टं तत्र होमो विधीयते
इत्यादिभिरष्टकोणात्मकं विंशतिरेखाभिर्बहिरश्वत्थदलाष्टकैश्चान्वितं होममण्डलं कार्यमिति विशेषोऽभिहितः ॥ तल्लेखनप्रकारश्च तत एव सङ्गृह्य लिख्यते
प्रागादिक्रमतः करद्वयमितैः सौम्येन्द्रवक्त्रैश्चतुष्कोणं प्रागुदगङ्गुलान्तरगतै रेखात्रिकैरुल्लिखेत् । तत्रान्यच्चतुरश्रमीशशिखिवक्त्रा6ग्न्यादिरेखाद्विकैस्तद्बाह्ये विलिखेत्त्रिपल्लवयुताश्वत्थाष्टपत्राण्यपि
इति । अत्र करप्रमाणमरत्निमात्रं विज्ञेयम् । अङ्गुलादिमानन्तूक्तं गोपालकारिकायाम् -
चतुस्त्रिंशत्तिलान्कोशसंस्थितानङ्गुलं विदुः ।
प्रादेशो द्वादशैतानि पदं पञ्चदशाङ्गुलम् ॥
ते द्वे प्रक्रम एव स्यात्प्रादेशौ द्वावरत्निकः
इति ॥ शुल्बसूत्रेऽपि -
अथाङ्गुलप्रमाणं चतुर्दशाणवः7, चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् । द्वादशाङ्गुलं प्रादेशः, पदं पञ्चदश, षट्त्रिंशच्छम्या बाहुः, द्विपदः प्रक्रमः, द्वौ प्रादेशावरत्निः
इति । अथवा लोकसिद्धा एव कर्तुरङ्गुलादयो ग्राह्याः ॥
अथ होमः कुण्डे वा स्थाण्डिले वा कार्य इति ॥
संस्काररत्नमालायामुक्तम् –
कुण्डे वा स्थण्डिले वाऽपि होमकर्म समाचरेत्
इति ॥ कुण्डलक्षणं च तत्रैव -
अरनिमात्रं विज्ञेयमग्नेरायतनं शुभम् ।
श्रौते चौपासने कण्ठखातयोनिविवर्जितम् ॥
मेखला द्वितयं कार्यं रेखालग्नं तु बाह्यतः ।
बाह्या द्व्यङ्गुलविस्ताराऽभ्यन्तरा चतुरङ्गुला ॥
बाह्या षडङ्गुलोत्सेधाऽभ्यन्तरा द्वादशाङ्गुला ॥
अत्रौपासनग्रहणं गृह्योक्तलौकिकाग्निसाध्यकर्मोपलक्षणम्
इति ॥ ॥ अथोद्धननलक्षणं सङ्गृहीतं कर्मरत्नात् -
स्फ्यमध्यमं गृहीत्वाथ संयुक्ताङ्गुलिभिः पुरा ।
कनिष्ठेन विना तत्र भुवं स्फ्याग्रेण संस्पृशेत् ॥
मध्ये मध्ये च पश्चात्सुरपतिदिशि तद्दक्षिणे मध्यवह्न्योर्नैर्ऋत्यां चापि मध्ये वरुणशिवदिशाश्चोत्तर स्फ्याग्रकेण । उद्धन्येत्यस्य वर्णैः शरशरविशिखद्वीपबाणाङ्गसङ्ख्यैर्वर्णैराम्नायशुष्माम्बुधिपरिगणितैश्चोद्धतिर्भूमिशुध्यै
इति ॥ ॥ अथाऽप उपस्पर्शननिमित्तानि - (बो. गृ. सू. ३.१३)
सर्वत्र छेदन-भेदन-खनन-निरसन-पितृराक्षस-नैर्ऋत-रौद्राभिचरणीयेष्वप उपस्पृशेदिति । विज्ञायते -
आपो वै शान्ताः शान्ताभिरेवास्य शुचँ शमयति
इति ब्राह्मणम्
इति ॥ प्र॰ तिलके च -
सरुद्ररक्षःपितृनैर्ऋतानां यमाभिधाने खनने निरासे ।
अधश्च नाभेरभिमर्शने च छेदे च भेदेऽप उपस्पृशेच्च
इति ॥ ॥ अथ प्रोक्षणादिलक्षणमुक्तं कपर्दिकारिकायाम् –
उत्तानेन तु हस्तेन सेचनं प्रोक्षणं स्मृतम् ।
अवाचीनेन हस्तेन तदवोक्षणमुच्यते ॥
अभ्युक्षणन्तु परित ऊर्ध्वाङ्गुष्ठेन मुष्टिना
इति ।।
सजलेन करेण त्रिरैशानीं दिशमादितः ।
प्रदक्षिणं तदीशान्तं यथाग्नौ न जलं पतेत् ॥
परितो मार्जयेत्तद्वदेतत्परिसमूहनम् । तिरश्चीनेन हस्तेन कार्यं पर्युक्षणं भवेत्
इति कारिकान्तरे॥
अथाग्निस्थापनविधिः ॥ तत्रादावग्निनिर्णयः –
यस्मिन्नग्नावुपनयति तस्मिन्ब्रह्मचर्यं तस्मिन्समावर्तनं तस्मिन्पाणिग्रहणं तस्मिन्गृह्याणि कर्माणि तस्मिन्काम्यानि कर्माणि । तस्मिन्प्रजासंस्कारा इत्येके इत्याहाऽऽचार्यबोधायनः ॥
स्मार्तमौपासने कुर्याच्छ्रौतं वैतानिके गृही ।
लौकिकेऽपीतरेषान्तु विधिरेष सनातनः
इति प्र॰ पारिजाते ॥
औपासने स होतव्यो यो यो होमो विधीयते ।
तद्वतोऽग्निः स एव स्याद्वृथाग्निरितरस्य तु ॥
स चापि श्रोत्रियागारात्सर्वत्राहार्य इष्यते ।
बहुभिः क्रियमाणेऽपि कर्मण्यग्निः स एव तु
इति गृ॰ सद्महे ॥ सं॰ मालायान्तु -
उत्तमोऽरणिजन्योऽग्निरुत्तमः सूर्यकान्तजः ।
मध्यमः श्रोत्रियागारादधमः स्वगृहादिजः ॥
दीप्तबह्वङ्गारमयं निर्धूमं स्थापयेद्बुधः
इति लौकिकाग्नावपि विशेषोऽभिहितः॥ इत्याग्निः॥ ॥ अग्निप्रणयनपात्राण्यप्युक्तानि सं॰ मालायाम् -
सौवर्णं राजतं ताम्रं तदभावे तु मृण्मयम् ।
पात्रान्तरेण पिहितमग्निप्रणयने स्मृतम्
इति ॥ तत्स्थापनप्रकारश्च तत्रैवोक्तः -
कुण्डे वा स्थण्डिले वाऽपि तत्तन्नाम्ना हविर्भुजम् ।
व्याहृतीभिर्मध्यदेशे योग्यं स्वाभिमुखं क्षिपेत् ॥
अग्निसंस्थापनं कुर्याद्वाग्यतः संयतेन्द्रियः ॥
इत्यग्निस्थापनविधिः ॥ ॥ अथाग्निप्रबोधनम् ॥ प्रायश्चित्तकुतूहले -
धमनीमन्तरा कृत्वा तृणं वा काष्ठमेव वा ।
मुखेनाऽग्निं समिन्धीत मुखादग्निरजायत ॥
वेणोरग्निप्रसूतत्वाद्वेणुरग्नेश्च पावनः ।
तस्माद्वेणुधमन्यैव धमेदाग्नं विचक्षणः
इति ॥ ॥ अथाऽन्वाधानविधिः॥
अन्वाधानार्थमादाय सममृज्विन्धनत्रयम् ।
गन्धाक्षतप्रसूनानि दधानो दक्षिणे करे ॥
उद्दिष्टकर्माह्वयसामिधेनीर्हविस्तथा पावकयाऽऽज्यदैवम् ।
उक्त्वाङ्गदेवाऽन्वितमुख्यदेवताः सर्वाश्च ताः सन्निहिता भवन्विति ॥
उदीर्य परितो वह्निं विकीर्य कुसुमाक्षतान् ।
काष्ठान्यग्नौ निदध्याद्भूराद्यैर्व्याहृतिभिस्त्रिभिः
इति
प्र॰ रत्ने ॥
मध्याऽङ्गुष्ठयुगेन मध्यसमिधं मध्ये गृहीत्वाऽनले मध्ये भूरिति सन्निधाय च तथा तद्दक्षिणस्थां न्यसेत् । साङ्गुष्ठोपकनिष्ठिकेन भुव इत्यङ्गुष्ठतर्जन्यतो वामस्थां सुवरित्यथोत्तरदिशि न्यस्यार्धमध्योध्दृताम्
इति कर्मरत्ने ॥ ॥ अथाऽग्निनामानि ॥ गृ॰ सङ्ग्रहे -
लोकेषु व्यवहार्यो यो विज्ञेयोऽग्निः स लौकिकः ।
गृहस्थैर्धार्यते योऽसावौपासन इति स्मृतः ॥
गर्भाधाने मारुतोऽग्निश्चन्द्रमाः पुंसि कर्मणि ॥
सीमन्ते मङ्गलो नामा शोभनो वैष्णवे बलौ ॥
प्रबलो जातकर्माऽग्निः पार्थिवो नामकर्मणि ।
शिवोऽग्निरुपनिष्क्रान्तौ प्राशने तु शुचिस्स्मृतः ॥
वर्धमानः कर्णवेधे सभ्योऽग्निश्चौळकर्मणि ।
जातवेदास्तूपनये व्रताऽऽदेशे समुद्भवः ॥
परिवर्तः समावर्ते विवाहे योजकस्स्मृतः ।
चतुर्थ्यां जातवेदोऽग्निरग्निर्मूर्धा तु पञ्चमे ॥
वैश्वदेवे त्वाऽवसथ्यः पचनः पाककर्मणि ।
सभ्योऽग्निर्बहुकृत्येषु दहनस्त्वाऽऽभिचारके ॥
पूर्णाहुतौ मृडो नाम शान्तिके वरदः स्मृतः ।
प्रायश्चित्ते भवेञ्चित्तिः पौष्टिके बलवर्धनः ॥
शुद्धिहोमे पावमानो वश्यार्थे कामदोऽनलः ।
कुक्षौ तु जठरो वह्निः क्रव्यादो मृतदाहने ॥
दैविके हव्यवाहोऽग्निः पैतृके कव्यवाहनः ।
शुक्र आरण्यकस्याऽग्निर्व्रतवान् ब्रह्मचारिणः ॥
आत्मज्योतिर्यतीनान्तु रायस्पोषः समृद्धिके ।
जात उत्तपनीयोऽग्निः कुतश्चित्तप्तभाण्डतः ॥
सङ्गात्तप्तकपालानामुत्थः सन्तपनः स्मृतः ।
इत्येवमग्नयः प्रोक्तास्तत्तत्कर्मसु योजिताः ॥
ग्रहाणां भास्करादीनां नवानां नव चाऽग्नयः ।
कपिलः पिङ्गलश्चैव धूमकेतुश्च जाठरः ॥
शिखी च हाटको नाम महातेजा हुताशनः ।
रौद्रोऽग्निरित्यथैतस्मिन्कर्मणीज्याः पृथक्पृथक् ॥
ब्रह्मा तु गार्हपत्योऽग्निरन्वाहार्यो महेश्वरः ।
विष्णुस्त्वाहवनीयोऽग्निरग्निहोत्रे त्रयोऽग्नयः ॥
अविदित्वा तु यो वह्नीञ्जुहुयादविचक्षणः ।
न तद्धुतं भवेदग्नौ न होता फलभाग्भवेत्
इति ॥ ॥ अथाऽग्नेर्जिह्वाः ॥ कर्मरत्ने -
हिरण्या पश्चिमा जिह्वा गगना8 मध्यमस्थिता ।
रक्ता चैवोत्तरा जिह्वा कृष्णा याम्यां दिशि स्थिता ॥
ईशान्ये बहुरूपा च ह्यतिरक्ताऽग्निकोणके ।
सुप्रभा पूर्वजिह्वा च जिह्वास्थानं प्रकीर्तितम् ॥
विवाहे पश्चिमा जिह्वा जातकर्मसु9 मध्यमा ।
द्विजत्वे चोत्तरा जिह्वा पितृहोमे च दक्षिणे ॥
आग्नेय्यां तिलहोमश्च10 ईशान्यां चोग्रकर्मकम् ।
पूर्वदिक्सर्वदेवार्थमेतद्धोमस्य लक्षणम्
इति ॥
अथ होमद्रव्याणामाहुतिप्रमाणादीनि कारिकासूक्तानि यथा -
अगुष्ठपर्वप्रमितमवदानं ततोऽपि च ।
ज्यायः स्विष्टकृतोऽवद्येत्तच्च बिल्वफलोपमम् ॥
आज्याहुतीनां धारा स्याच्चतुरङ्गुलिसन्तता ।
व्रीहीणां वा यवानां वा शतमेकाहुतिः स्मृता ॥
तदन्नं द्विगुणं ग्रासो मयूराण्डाकृतिस्तु वा ।
कर्षमात्रे मधुघृते दुग्धान्नं त्वक्षमात्रकम् ॥
पञ्चगव्यानि च पयो दधि शुक्तिमितं स्मृतम् ।
दुर्वात्रयं पलार्घाः स्युः शर्करागुडसर्षपाः ॥
माषा मुद्गाश्च लाजाश्च व्रीहिकोद्रवसक्तवः ।
पृथुका मुष्टिमात्राः स्युस्तदर्धास्तण्डुलास्तिलाः ॥
कदळीफलनारङ्गफलान्येकैकशो विदुः ।
मातुलिङ्गं चतुःखण्डं पानसं दशधा स्मृतम् ॥
अष्टधा नाळिकेराणि गुळूची चतुरङ्गुला ।
त्रिधा कृतं फलं बैल्वं कापित्थोर्वारुके तथा ॥
इक्षुः पर्वप्रमाणः स्यात्पायसं प्रसृतेः समम् ।
गव्यमाज्यं दधिक्षीरमाज्यं माहिषमेव11 वा ॥
तिलजर्तिलयोस्तैलं सर्षपस्य फलस्य वा ।
संस्कृतेन तु यन्मिश्रं सर्वं तत्संस्कृतं भवेत् ॥
आज्यादिकं स्रुवेणान्नं दर्व्या वा मेक्षणेन वा ।
हस्तेनैव तु होतव्याः समित्सक्तुफलादिकाः
इति ॥
ओषध्यः सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् ।
एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनात्
इति शेषसूत्रे ॥ ॥ अथ मुद्राः ॥ कर्मरत्ने -
होमे मुद्रास्त्रयः प्रोक्ता मृगी हंसी च सूकरी ।
मुद्राहीनन्तु यद्धोमं तत्सर्वं निष्फलं भवेत् ॥
सूकरी पञ्च चाङ्गुल्यो हंसी मुक्तकनिष्ठिका ।
मृगी कनिष्ठतर्जन्या मुक्ता तिस्र उदीरिताः ॥
चरुहोमं प्रकुर्वीत सूकरीमुद्रयान्वितः ॥
रम्भामुकुलवन्नम्रपाणिनाऽधोमुखेन तु ॥
चक्राङ्गमुद्रयाऽऽचार्यः कुर्याद्धोमं समस्तकम् ।
कनिष्ठाधोमुखेनोदक्तिर्यगग्रेण पाणिना ॥
किञ्चिदाधोऽग्रसंयुक्ततर्जन्यन्त्यवृषाग्रया ।
कुरङ्गीमुद्रया कुर्यादाज्यहोमं तथा रसम् ॥
हंसी स्यात्पौष्टके यज्ञे मृगी स्याच्छान्तिकर्मणि ।
सूकरी त्वाभिचारेषु दर्व्यादिग्रहणे स्मृता
इति ॥ ॥ अथ होतृनियमः ॥
विना मन्त्रजपं मौनी जान्वन्तस्थकरः शुचिः ।
पवित्रीप्राङ्मुखासीनः कुर्यात्कर्मोत्तरीयवान् ॥
मन्त्रावसाने विदधीत कर्म स्वाहावसाने हवनं बलिञ्च
इति प्र॰ रत्ने ॥
निधाय भूमावथ सव्यजानु चोद्धृत्य वामञ्च तदङ्घ्रिपार्श्वे ।
स्पृष्ट्वा च पत्सव्यतळेन वामहस्तास्पृशन्दक्षिणबाहुमूलम् ॥
देवतामिह मन्त्रोक्तां यामुद्दिश्याहुतिं हुनेत् ।
तस्या इदं न तु ममेत्युद्देशत्यागमाचरेत् ॥
सप्लुतप्रणवस्वाहापुटितेनात्मना हुनेत् ।
मन्त्रार्थगतचेतास्तु अक्षयं तद्धुतं भवेत् ॥
स्वाहान्तेनैव होतव्यं स्वरितान्ते तथैव च ।
होतव्यं प्लुतपर्याप्तौ हुतं तद्ब्रह्मवद्भवेत् ॥
चिकीर्षितं हुतं यद्यत्प्रणवाद्यं प्लुतान्तकम्
इति गृ॰ सङ्ग्रहे ॥ ॥ अथ पक्वावदानधर्मः ॥
आलोड्य मेक्षणेनैव चरुं दर्व्यामवद्यति ।
पूर्वार्धादपरार्धाच्च प्रथमं यद्यपद्यति ॥
द्वितीयाद्यवदाने तु तद्विपर्यय इष्यते ।
अथावत्तप्रदेशे तु प्रत्यज्य स्रुङ्मुखेन तु ॥
अथाम्नातं हविर्तुत्वा पुनस्तदभिहुत्य च ।
पुरस्तादुपरिष्टाच्च हविषां स्यात् स्रुवाहुतिः ॥
अथ स्विकृतोऽवद्येदुत्तरार्धात्सकृच्चरोः ।
अवदायाऽभिघार्य द्विः प्रत्यज्यान्नात्र तद्धविः ॥
उपस्तीर्याऽवदाय द्विः पुनस्तदभिधारयेत् ।
चतुःसम्पत्तिरेषा तु ज्ञेया चतुरवत्तिनाम् ॥
वत्सा विदा आर्ष्टिषेणाः पञ्चावत्तिन एव ते ।
तेषां हविरवद्येत्त्रिर्मध्यपूर्वापरार्धतः ॥
स्विष्टकृद्धविषस्तेषां त्रिः कार्यमभिधारणम्
इति गृ॰ सद्ग्रहे ॥
जामदग्न्या वत्सविदा आर्ष्टिषेणास्तथैव च ॥
भार्गवच्यावना और्वाः पञ्चावत्तिन ईरिताः
इति प्र॰ पारिजाते ॥ निर्वापमारभ्य पञ्चावदानधर्मः इति बोधायनः । अवदानमारभ्येति शालीकिः॥ ॥अथ याज्यापुरोऽनुवाक्ययोर्लक्षणम् ॥
पुरोऽनुवाक्या याज्या च यद्याम्नाते उभे अपि ।
प्रणवान्तं पुरोऽनूच्य यजेत्स्वाहाऽन्त्ययाऽन्यया ॥
अन्त्यस्वरादिकस्यैव स्थाने सप्रणवः प्लुतः ।
ऋचौ संहतया ब्रूयादुत्तरार्धर्च उच्छ्वसेत् ॥
(बो. गृ. सू. ४.९ )
हुतः प्रहुतः आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञानां न प्रयाजा इज्यन्ते नानूयाजा न सामिधेनीरन्वाहतेषु कर्मस्वग्निमुपसमाधाय सम्परिस्तीर्य यत्र यत्र दर्वीहोमं कुर्यात्तत्र तत्र चरुं समवदाय जुहोति ॥
(बो. गृ. प. सू. १.६ )
सर्वत्र दर्वीहोमेष्वाधारवत्सु
पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय
इति ब्राह्मणम् ॥ यत्रैकाऽऽम्नाता स्यात्तां द्विरभ्यावर्तयेत् । ‘तत्सवितुर्वरेण्यम्’ इत्यनुद्रुत्याऽऽम्नाताया जुहोत्यथवा भूर्भुवस्सुवरोमित्यनुद्रुत्य ‘तत्सवितुर्वरेण्यम्’ इति जुहोति । अनाम्नातेषु तदेतत्सर्वप्रायश्चित्तम् । विष्णव आहुतीषु नामकरणोपनिष्क्रमणाऽन्नप्राशनोपाकर्मव्रतेषु च पक्वहोमस्स्यान्नाऽपक्वाः पाकयज्ञास्सर्वत्र पक्वहोमं कुर्यादिति । एतेन होमदानप्राशनानि व्याख्यातानि भवन्तिपक्वाज्जुहोति पक्वाद्ददाति पक्वात्प्राश्नातीति पाकयज्ञास्तस्माध्दुतप्रहुताऽहुतेषु पक्वः कार्य इति ॥ एकविंशतिदारुमिमं करोति यज्ञस्य सरूपत्वाय । अभिधारयति ‘तेजसैवैनं समर्धयति’ इति ब्राह्मणम्। अरनिमात्रीं दर्वीं बाहुमात्रीमित्यपरम् । अथ वै भवति
निर्ऋतिगृहीता वै दर्वी यद्दर्व्या जुहुयाम्निर्ऋत्याऽस्य यज्ञं ग्राहयेत्
इति दर्व्यान्नस्य जुहोति स्रुवेणाज्यस्य ‘वैकङ्कती स्रुगाकृतिर्भवति’ इति विज्ञायते ॥
(बो. गृ. शे. सू. १.१)
न पत्न्या हविषां भक्षणमन्यत्रोच्छिष्टमभिसम्पाताऽभिहुतानां पिण्डदानस्य शेषञ्च नैव देवताहुतशेषमन्यत्र ब्रह्मौदनात् ॥
(बो. ग. शे. सू. १.१)
पवित्रकरणं, प्रोक्षणीसंस्कारं, प्रणीताप्रणयनं, स्रुक्स्रुवसम्मार्जनमिति दर्शपूर्णमासवत्तूष्णीम् ॥
( वो. गृ. शे. सू. १.३)
अथ संस्थायामाद्यन्तयोः परिषेचनं यथा पुरस्तात् । विज्ञायते -
नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथाऽजिह्वेऽन्नं दद्यात्तादृक्तस्मात्समिद्वत्येव होतव्यम्
इति ॥
होमे - आधारमाग्निहोत्रिकमापूर्विकञ्चेति त्रीणि तंत्राण्युदाहरन्ति । तदाह बोधायनः -
आघारं प्रकृति प्राह दर्वीहोमस्य बादरिः ।
आग्निहोत्रिकमात्रेयः काशकृत्स्नस्त्वपूर्वताम्
इति ॥
-
अत्र “मही द्यौः" इत्यादि मंत्रयोजनपद्धतिः प्रयोगशिखामणेः संगृहीता । ↩︎ ↩︎
-
अत्र सहशब्दः प्रशस्तवचनः इति संस्कारकौस्तुभे ॥ ↩︎
-
“पुण्याहादित्रयं त्रिस्तु ब्रूयुरुच्चोत्तरोत्तरम्” इति गृ॰ संग्रहे ॥ ↩︎
-
“सर्वेषु धर्मकार्येषु पत्नी दक्षिणतः स्थिता ॥ विप्रपादक्षालने तु अभिषेके च वामतः” इति संस्कारकौस्तुभे ॥ ↩︎
-
“अनामिकामूलदेशे ब्रह्मणस्य पवित्रकम्” इति प्र॰ तिलके ॥ ↩︎
-
ईशशिखिवक्त्रैरग्न्यादिविदिग्गतरेखाद्विकैरिति समासयोजना । ↩︎
-
“ब्रीहिमेदस्त्वणुः पुमान्” इति कोशः ॥ ↩︎
-
कनका । ↩︎
-
यज्ञकर्मसु । ↩︎
-
“शांतिहोमः” इति प्रयोगपरिजाते। ↩︎
-
“आजं वा माहिषं वाऽपि" इति प्र॰ रत्ने । ↩︎