(बो. ग. शे. सू. १.१५:१-२)
अथातः प्रतिसरबन्धं व्याख्यास्यामः ॥ यस्मिन् दिने नान्दीमुखं कुर्यात्तस्यां रात्र्यां प्रदोषान्ते प्रतिसरमारभेत ।
उदकुम्भमन्वारभ्य सावित्रीं जपति “तत्सवितुर्वरेण्यम्" इत्येतां पच्छोऽर्धर्चशोऽनवानमुक्त्वा वेदादीन्जपति । राक्षोघ्नं “कृणुष्व पाजः” इत्येतमनुवाकं “अग्ने यशस्विन्" इति चतस्र आप्यं “हिरण्यवर्णाः शुचयः पावकाः” इत्येतमनुवाकं “पवमानः सुवर्जनः” इत्येतमनुवाकम् । वरुणसूक्तं “उदुत्तमं वरुणपाशम् ’ इति षडृचं, रुद्रसूक्तं “परि णो रुद्रस्य हेतिः” इति षडृचं, ब्रह्मसूक्तं “ब्रह्म जज्ञानम्” इति षडृचं, विष्णुसूक्तं “विष्णोर्नुकम्” इति षडृचं, पञ्च दुर्गाः “जातवेदसे” इति, श्रीसूक्तं “हिरण्यवर्णा हरिणीम्” इति पञ्चदशर्चं, “नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह” इति ब्राह्मणम् । प्रणवेनोत्थाप्य व्याहृतीभिः सुरभिमत्याब्लिङ्गाभिः प्रोक्ष्य प्रतिसरसूत्रमादाय वासुकिं ध्यात्वा त्र्यम्बकेन त्रिरुर्ध्वं भस्मना सम्मृज्य “अग्निरायुष्मान्" इति पञ्चभिः तस्य दक्षिणहस्तं गृहीत्वा “बृहत्साम” इति बध्वा स्त्रीणां वामहस्तं, भस्मना घृतसूक्तेन “यो ब्रह्म ब्रह्मणः” इत्यष्टर्चेन रक्षां कुर्यात् ॥ ( वो. गृ. शे. सू. ५. २. १४ )
आधाने सोमयागे च दम्पत्योरुभयोरपि ।
सीमन्ते पुंसवे गर्भे स्त्रिया एव तु कौतुकम् ॥
प्रतिसरबन्धप्रयोगः
अथ प्रतिसरबन्धप्रयोगः –
पूर्वेद्युर्नान्दीश्राद्धं कृत्वा तस्यां रात्रौ प्रदोषान्ते आचमनप्राणायामादिदेशकालौ सङ्कीर्त्यामुककर्माङ्गतया विहितं रक्षार्थ प्रतिसरबन्धं करिष्ये
इति सङ्कल्प्य ब्राह्मणवरणाद्युदकशान्तिवद्ब्रह्मकुम्भं संस्थाप्य व्याहृतीभिः शुद्धोदकैः पूरयित्वा अर्चनान्तं कृत्वा परिस्तीर्य दूर्वाक्षतफलैरवकीर्य दूर्वादर्भैः प्रतिच्छाद्य उत्तरतश्शालीतण्डुलपूर्णे कांस्यपात्रे प्रतिसरसूत्रं1 गन्धानुलिप्तं भस्मना सहितं निदधाति । ततो ब्राह्मणाः कुम्भमन्वारभ्य जपन्ति - प्रणवं, व्याहृतीः, सावित्रीं पच्छोऽर्धर्चशोऽनवानमुक्त्वा । “अ॒ग्निमी॑ ळे पु॒रोहि॑तम्॰ इ॒षे त्वो॒र्जे त्वा॑॰ अग्न॒ आया॑हि॰ शंनो॑ दे॒वीः॰" इति वेदादीन् ॥ “कृ॒णु॒ष्वपाजः॒॰ रक्ष॑से॒ हन्त॒वा उ॑ ॥ मदे॑चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ नद॑रन्ते परि॒बाधो॒ अदे॑वीः” इति राक्षोघ्नमनुवाकम् ॥
“अग्ने॑ यश॒स्विन्" इति चतस्रः ॥
हिरण्यवर्णाः शुचयः॰ निधत्त ॥ यददः संम्प्रयतीरहावनदता हते ॥ तस्मादा नद्यो नाम स्थ ता वोनामानि सिन्धवः ॥ यत्प्रेषिता वरुणेन ताः शीभ समवल्गत॥ तदाप्नोदिन्दो वो यतीस्तस्मादापो अनु स्थन ॥ अपकाम स्यन्दमाना अवीवरत वो हिकम् ॥ इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्णाम वो हितम् ॥ एको देवो अप्यतिष्ठत्स्यन्दमाना यथा वशम् ॥ उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥ आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः ॥ तीव्री रसो । मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गन् ॥ आदित्पश्याम्युतवा शृणोम्या माधोषौ गच्छति वाइन आसाम् ।। मन्ये भेजानो A अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः॥ आपो हि ष्ठा॰ चनः ॥ दिवि श्रेयस्वान्तरिक्ष यतस्व पृथिव्या सम्भव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा [[TODO: परिष्कार्यम्]]
इत्येतमनुवाकम् ॥ पव॑मान॒स्सुव॒र्जनः॑" इत्येतमनुवाकम् ॥
उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमँ श्रथाय ॥ अर्था वयमादित्यव्रते तवानागसी अदितये स्याम ॥ अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीविश्वा भुवनानि सम्राइविश्वेत्तानि वरुणस्य व्रतानि ॥ यत्किञ्चदं० रीरिषः ॥ कितवासो प्रियासः ॥ अव ते हेडो वरुण नमोभिरवं यज्ञेभिरीमहे हविर्भिः ॥ क्षयन्नस्मभ्यमसुर प्रचेतो राजन्नेना ५ सि शिश्रथः कृतानि ॥ तत्वा यामि० प्रमोषीः" [[TODO: परिष्कार्यम्]]
इति षडृचं वरुणसूक्तम् ॥
परिणो रुद्रस्य हेतिवृणक्तु परि त्वेषस्य दुर्मतिरघायोः ॥ अव स्थिरा मघवद्भयस्तनुष्व मीदवस्तोकाय तनयाय मृडय॥ स्तुहि श्रुतं गतसदं युवानं मृगं न भीममुपहनुमुग्रम् ॥ मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः॥ मीढुष्टम शिवतम शिवो नस्सुमना भव ॥ परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ अर्हन्बिभर्षि सायंकानि धन्य ।। अर्हनिष्कं यजतं विश्वरूपम् ॥ अर्हन्निदं दयसे विश्वमभुवम् ॥ नवा ओजीयो रुद्र त्वदस्ति ॥ त्वमग्ने रुद्रो असुरो महो दिवस्त्वर शर्धो मारुतं पृक्ष ईशिषे ॥ त्वं वातैररु | णैर्यासि शं गयस्त्वं पूषा विधतः पासि नुत्मना ॥ आवो राजानमध्वरस्य॑ रुद्रर होतारः सत्ययज रोदस्योः॥ अग्निं पुरातनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्" [[TODO: परिष्कार्यम्]]
इति षडृचं रुद्रसूक्तम् ॥ “ब्रह्म॑ जज्ञा॒नं॰ पि॒ता वि॒राजा॑॰ ब्रह्म॑ दे॒वान्॰ अ॒न्तर॑स्मिन्॰ ब्रह्म॑ दे॒वाः॰ चत॑स्र॒ आशाः॒॰” इति षट्टचं ब्रह्मसूक्तम् ॥
विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाँ सि यो अस्कभायदुत्तरँ सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ तदस्य प्रियमभिपाथो अश्याम् ॥ नरो यत्र देव॒यवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णो’ : पदे परमे मध्य उत्सः॥ प्रतद्विष्णुस्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः ॥ यस्योरुषु त्रिषु विक्रमणेषु ॥ अधिक्षियन्ति भुवनानि विश्वा॥ परो मात्रया तनुवा वृधान ॥ न ते महित्वमन्वश्रुवन्ति ॥ उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् ॥ परमस्य वित्से ॥ विचक्रमे पृथिवीमेष एताम् ॥ क्षेत्रीय विष्णुमनुष दशस्यन् ॥ ध्रुवासा अस्य कीरयो जनासः ॥ उरुक्षिति५ सुजनिमा चकार ॥ त्रिदेवः पृथिवीमेष एताम् ॥ विचक्रमे शतचसं महित्वा ॥ प्रविष्णुरस्तु तवसस्तवीयान् । त्वेष हास्य स्थविरस्य नाम” [[TODO: परिष्कार्यम्]]
इति षडृचं विष्णुसूक्तम् ॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ॥ स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्यग्निः ॥ तामग्निवर्णा तपसा ज्वलन्ती वैरोचनी कर्मफलेषु जुष्टाम् ॥ दुर्गा देवी शरणमहं प्रपद्ये सुतरसितरसे नमः ॥ अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ॥ पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ विश्वानि नो दुर्गा जातवेदः सिन्धुं न नावा दुरितातिपर्षि ॥ अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ।। पृतनाजित ५ सहमानमुग्रमाग्नि ५ हुवेम परमात्सधस्थात् ॥ स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः’ [[TODO: परिष्कार्यम्]]
इति पञ्चर्चं दुर्गासूक्तम् ॥
हिरण्यवर्णाँ हरिणीँ सुवर्णरजतस्रजाम् ॥ चन्द्राँ हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ॥ यस्याः हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ अश्वपूर्वार रथमध्या५ हस्तिनादप्रबोधिनीम् ॥ श्रियं देवीमुपह्वये श्रीमी देवी जुषताम् ॥ का सोस्मिता५ हिरण्य माकारामाः ज्वलन्ती तृप्तां तर्पयन्तीम् ॥ पद्मस्थितां पद्मवर्णा तामिहोपह्वये श्रियम् ॥ चन्द्रां प्रभासां यशसा ज्वलन्ती श्रिय लोके देवर्जुष्टामुदाराम् । तां पद्मनीमी शरणमहं प्रपद्येऽलक्ष्मी, नश्यतां त्वां वृणे ॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ॥ तस्य फलानि तपसा नुदन्तु मायान्तरायाच बाह्या अलक्ष्मीः ॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह ॥ प्रादुर्भूतोऽस्मि राष्ट्रऽस्मिन्कीर्तिमृद्धिं ददातु मे ॥ क्षुत्पिपासामला ज्येष्ठामलक्ष्मी नाशयाम्यहम् ॥ अभूतिमसमृद्धिश्च सर्वा निर्गुद मे गृहात् ॥ गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् ॥ ईश्वरी ५ सर्वभूतानां तामहोपह्वये | श्रियम् । मनसः काममाकूति वाचः सत्यमशीमहि ॥ पशूना ५ रूपमन्नस्य मयि श्रीः श्रूयतां यशः॥ कर्दमेन प्रजाभूता मयिसम्भव कदम ॥ श्रिय वासय मे कुले मातरं पद्ममालिनीम् ॥ आपः सृजन्तु स्निग्धानि चिक्लीतवस मे गृहे ॥ नि च देवीं मातर ५ श्रियं वासय मे कुले ॥ आर्द्रा पुष्करिणीं पुष्टिं पिकला’ पद्ममालिनीम् ।। चन्द्रा हिरण्मयीं लक्ष्मी जातवेदो म आवह ॥ आर्द्रां यष्करिणीं यष्टिं सुवर्णा हेममालिनीम् ॥ सूर्या ५ हिरण्मयीं लक्ष्मी जातवेदो म आवह ॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ॥ यस्या ५ हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्दयं पुरुषानहम् [[TODO: परिष्कार्यम्]]
इति पञ्चदशर्चं श्रीसूक्तम् ॥ “नमो॒ ब्रह्म॑णे॒॰ बृह॒ते क॑रोमि” इति परिधानीयां त्रिः ॥ ॥ इत्येवञ्जपित्वा पुनस्संपूज्य प्रणवेन कुम्भमुत्थाप्य कुम्भोदकेन तत्सूत्रं संस्कार्यञ्च व्याहृताभिः2 “दधि॒क्राव्ण्णः॑” इत्यृचा “आपो॒ हि ष्ठा” इति तिसृभिः
देवस्य त्वा सवितुः प्रसवे ॥ अश्विनोर्बाहुभ्याम् ॥ पूष्णो हस्ताभ्याम् ॥ आश्विनोभैषज्येन ॥ तेजसे ब्रह्मवर्चसायाभिषिञ्चामि।। देवस्य त्वा हस्ताभ्याम्॥ सरस्वत्यै भैषज्येन ॥ वीर्यायान्नांद्यायाभिषिञ्चामि ॥ देवस्य त्वा॰ हस्ताभ्याम् ॥ इन्द्रस्येन्द्रियेण ॥ श्रियै यशसे बलायाभिषिञ्चामि” [[TODO: परिष्कार्यम्]]
इति त्रिभिः पर्यायैश्च प्रोक्ष्य प्रतिसरसूत्रमादाय वासुकिं ध्यात्वा “त्र्यं॑बकं यजामहे सुग॒न्धिम्पु॑ष्टि॒वर्ध॑नम् ॥ उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्” इति मन्त्रेण त्रिरूर्ध्वं भस्मना संमृज्य “अ॒ग्निरायु॑ष्मा॒न्” इति पञ्चभिः संस्कार्यस्य दक्षिणहस्तं गृहीत्वाथैतेन सूत्रेण “बृ॒हत्साम॑ क्षत्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम् ॥ इन्द्र॒स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष” इति बध्नीयात् ॥ स्त्रीणाञ्चेद्वामहस्तम्, तत्र “आयुष्मतीं3 करोमि” इत्यूहो विशेषः ॥ ततो भस्मना घृतसूक्तेन “यो ब्रह्म ब्रह्मणः” इत्यष्टर्चेन रक्षां कुर्यात् ॥ ऋत्विग्भ्यो दक्षिणामुदकशान्तिवत्प्रतिपाद्य देवतामुद्वास्य कलशमाचार्याय दत्वा कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इति प्रतिसरबन्धप्रयोगः ॥