( बो. गृ. शे. सू. ५. २. १०-१२ )
चौळाद्यङ्कुरमेव च ॥
गर्भवर्जोत्सवात्पूर्वमयुगेऽह्न्यन्कुरापर्णम् ।
प्रदोषे वाथ सायाह्ने गुणाधिक्येऽह्नि वेष्यते ॥
आधानगर्भसंस्कारजातकर्माणि नाम च ।
हित्वान्यत्र विधातव्यं मङ्गळाङ्कुरवापनम् ॥
( बो. गृ. शे.सू. ४.१८. १४, १५ )
आसप्तमात्प्रजाकाम आषष्ठात्पुत्रनाशनम् ।
पञ्चमे भक्तिकामानां विष्णोः सर्वात्मनस्तथा ॥
चतुर्थे चाङ्करं विद्यात्पापीयान् जायते तु सः ।
त्रियहे सर्वकामानां सद्यो वाऽप्यङ्कुरार्पणम् ॥
(बो. ग. शे. सू. ४. १८. २)
मध्ये चतुर्मुखं विद्यात्पूर्वे वज्रिणमेव च ।
दक्षिणे तु यमं विद्यात्पश्चिमे वरुणं तथा ॥
उत्तरे शशिनं विद्यात्पालिकास्थापनं क्रमात् ।
अन्यत्रापि–चौलोपनयने स्नाने दम्पत्योश्च विवाहके । अग्न्याधाने च सोमे च कुर्यादडरवापनम् ॥ a.
अङ्कुरार्पणप्रयोगः
अथाङ्कुरार्पणप्रयोगः ॥
कर्ता आचम्य प्राणानायम्य तिथ्यादि संकीर्त्य अमुककर्मकर्तुमादौ कर्मसाफल्यनिरन्तरशुभत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमंकुरार्पणं करिष्ये ॥
इति संकल्प्य गणपतिं सम्पूज्य ब्राह्मणानभ्यर्च्य, ‘पुण्याहं स्वस्त्यृद्धिमिति’ वाचयित्वा ‘ब्रह्मादयः प्रीयंतामित्यपो’ निनीय । शुचौ समे देशे गोमयेन गोचर्ममात्रं1 चतुरश्रं स्थण्डिलमुपलिप्याक्षतान्संप्रकीर्याद्भिरभ्युक्ष्य पञ्च पालिकाः सौवर्णा राजतास्ताम्रा मृण्मयीर्वा यथासंभवं संगृह्य तासु वल्मीकमृत्तिकां ह्रदमृदं शुष्कगोमयं च प्रक्षिप्य मध्ये प्रागादि चतुर्दिक्षु च दूर्वाङ्कुरश्वत्थशिरीषबिल्वपत्राणामुपरि ताः क्रमेण संस्थाप्य श्वेतसूत्रेणावेष्ट्य मध्यमायां व्याहृतीभिर्ब्रह्माणमावाहयति -
ॐभूः ब्रह्माणमावाहयामि । ॐभुवः प्रजापतिमावाहयामि । ॐसुवः चतुर्मुखमावाहयामि । ॐभूर्भुवस्सुवः हिरण्यगर्भमावाहयामि
इति एताभिरेव प्राच्याम् -
इन्द्रं, वज्रिणं, शचीपतिं, शतक्रतुमिति ॥
एताभिरेव दक्षिणस्याम् -
यमं, वैवस्वतं, पितृपतिं, धर्मराजमिति ॥
प्रतीच्याम् -
वरुणं, प्रचेतसं, सुरूपिणं, अपांपतिमिति ॥
उदीच्याम् -
शशिनं, निशाकरं, चन्द्रं, सोमं चेत्यावाह्य
अथैनान् स्नापयति - ‘आपो हिष्ठा मयोभुवः’ इति तिसृभिः ‘हिरण्यवर्णाश्शुचयः पावकाः’ इति चतसृभिः ‘पवमानस्सुवर्जनः’ इत्येतेनानुवाकेन मार्जयित्वा गन्धपुष्पधूपदीपैरमुष्मै नमोऽमुष्मै नम इत्यभ्यर्च्याथैनानुपतिष्ठते -
दिशां पतीन्नमस्यामि सर्वकामफलप्रदान् ।
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम्
इति ॥ अथ व्रीहियवमाषतिलमुद्गसर्षपान् मिश्रीकृत्य क्षीरेण प्रक्षाल्यौषधिसूक्तेन
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । मन्दामि बभ्रूणामहँ शतं धामानि सप्त च ॥ शतं वो अम्ब धामानि सहस्रमुतवोरुहः । अथा शतकत्वो यूयमिमं मे अगदं कृत ॥ पुष्पावतीः प्रसूवतीः फलिनीरफला उत । अश्वा इव सजित्वरीवर्वीरुधः पारयिष्णवः ॥ ओषधीरिति मातरस्तद्वा देवीरुप ब्रुवे । रपाँ सि विनतीरित रपश्चातयमानाः ॥ अश्वत्थे वो निषदनं पर्ण वो वसतिः कृता । गोभाज इत्किलासथ यत्सनवथपूरुषम् ॥ यदहं वाजयन्निमा ओषधीहस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा । यदोषधयः सङ्गच्छन्ते राजानः समिताविव । विप्रः स उच्यते भिषग्रक्षोहामीवचातनः॥ निष्कृतिर्नामवोमाताथा यूयँ स्थ संकृतीः । सराः पतत्रिणी स्थन यदामयति निष्कृत ॥ अन्या वो अन्यामवत्वन्यान्यस्या उपावत । ताः सर्वा ओषधयः संविदाना इदं मे प्रावता वचः ॥ उच्छष्मा ओषधीनां गावो गोष्ठा दिवरेते । धनँ सनिष्यन्तीनामात्मानं तव पूरुष ॥ अतिविश्वाः परिष्वाः स्तेन इव व्रजमक्रमुः । ओषधयः प्राचुच्यवुर्यत्किञ्च तनुवाँ रपः ॥ यास्त आतस्थुरात्मानं या आविविशुः परः परुः । तास्ते यक्ष्म विबाधन्तामुग्रो मध्यमशीरिव ॥ साकं यक्ष्म प्रपत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया । अश्वावतीँ सोमवतीमूर्जयन्तीमुदोजसम्। आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँ हसः ॥ या ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीमनु । तासां त्वमस्युत्तमा प्र णो जीवातवे सुव ॥ अवपतन्तीरवदन्दिवओषधयः परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः । याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । इह सङ्गत्य तास्सर्वा अस्मै सन्दत्त भेषजम् ॥ मा वो रिषत्खनिता यस्मै चाह खनामि वः । द्विपच्चतुष्पदस्माकँ सर्वमस्त्वना तुरम् ॥ ओषधयस्संवदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस्तँ राजन्पारयामास ॥ [[TODO: परिष्कार्यम्]]
इत्यनुवाकेनाभिमन्त्र्य मथाक्रमं निवपति -
ब्रह्म जज्ञानं प्रथम पुरस्तात् । विसीमतः सुरुचो वेन आवः ॥ सबुध्निया उपमा अस्य विष्ठाः। सप्तश्च योनिमसतश्च विवः ॥ पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आ विवेश ॥ तमरभ्यर्चन्ति वत्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां मध्यमायाम् ॥
यत इन्द्र भयामहे ततो नी अभयंकृधि । मघवञ्चाग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ॥ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुरएतु नस्स्वस्तिदा अभयंकरः [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां प्राच्याम् ॥
योऽस्य कौष्ठ्यजगतः पार्थिवस्यै कइद्वशी ॥ यमं भग्यश्श्रयो गाय यो राजा न परोध्यः ॥ यमङ्गाय भंग्यः श्रवो यो राजा न परोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां दक्षिणस्याम् ॥
इमं में वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीः [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां प्रतीच्याम् ॥
सोमो धेनुँ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ॥ सादन्यं वियध्यँ सभेयम् । पितुः श्रवणं यो ददाशदस्मै । आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य संगथे [[TODO: परिष्कार्यम्]]
इति द्वाभ्यामुत्तरस्याम् । ततो यथाक्रमं शुद्धाभिः सिकताभिः प्रच्छादयेत् । पञ्चगव्येन यथाक्रमं सेचयेत् । प्रणवेनैव सापिधानं कृत्वा यावत्कर्म तावत् सुरक्षितं गोपायेत् । समाप्ते कर्मणि ब्राह्मणान् पञ्च-भोजयेत् । व्याहृतीभिर्देवता यथाक्रममुद्वासयेत् ॥ ॥ इत्यङ्कुरार्पणप्रयोगः ॥
-
“गोचर्ममात्रं परितः षण्णवत्यंगुलात्मकम्” इति गृ. संग्रहे । ↩︎