०६ मातृकापूजननान्दीश्राद्धयोर्विधिः

तत्र मातृकापूजनविषये विधिरुक्तस्मृत्यन्तरे

यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः

इति । तथा च ब्रह्मपुराणे -

गणशः क्रियमाणानां मातॄणां पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु

इति ॥ (बो. गृ. शे. स. ४.१९)

अथातो नान्दीमखं व्याख्यास्यामः । आदित एव द्वौ विप्रो निमन्त्र्य चतुरवरांश्च पित्रर्थानथ श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्याग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय दध्ना घृतेन संयुत्य स्रुवं समृज्य देवार्थौ विप्रुवुपवेश्यालङ्कृत्यानुदेश्य द्विः पवित्र एव यवोदकं निधाय पुष्पफलाक्षतमिश्रं भोजनस्थानेष्वासनेषु यवान्सिकताश्च सम्प्रकीर्य पित्रार्थानुपवेश्य तेषां सपवित्रेषु पाणिषु

नान्दीमुखाः पितरः प्रीयन्ताम्

इत्यनेन मन्त्रेण पात्रान्तरेणोपहत्य यवोदकं दत्वा द्विरथालङ्कृत्यैवमेव दत्वाग्नौकरणमनुज्ञाप्यालङ्कृत्य पृषदाज्यात्स्रुवेणोपहत्य ‘नान्दीमुखेभ्यः पितृभ्यस्स्वाहा’ इत्येतावदग्नौ कृत्वाऽन्नमुपस्तीर्णाभिधारितं पात्रेषूद्धृत्य पृषदाज्येन संसृज्य दर्भेषु सादायित्वा दर्भैः प्रतिच्छाद्य

नान्दीमुखार्थानां पितॄणां क्षेष्ठा अमुत्रामुष्मिल्लोके

इति मन्त्रमूह्याभिमृश्य विप्रेभ्यो द्विरुपस्तीर्याभिमृष्टस्यान्नस्य द्विरवादय द्विरभिघार्य यथावद्भोजयेत् । पितृसामान्यवाचिस्वधायुक्तानि ब्रह्माण्यभिश्राव्य भुक्तवत्स्वाचान्तेषूपलिप्याशयेषु दध्योदनं सम्प्रकीर्य संक्षाळनेन प्रदक्षिणं द्विःपरिषिच्य पूर्ववद्यबोदकं दत्वा दक्षिणां प्रदाय

नान्दीमुखाः पितरः प्रीयन्ताम्

इति वाचयित्वाभिवाद्य स्वधायै स्थाने सर्वैस्समानं दक्षिणं जानुं निपात्य सव्यमुद्धत्य जपति- ‘इडा देवहूः’ इत्यान्तादनुवाकस्य जपित्वा

नान्दीमुखाः पितरः प्रीयन्ताम्

इत्यपो निनीय । ब्राह्मणानुत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्य देवताञ्च विसृज्य दक्षिणेनाग्निं प्रागग्रेषु दर्भेषु नान्दीमुखेभ्यः पितृभ्यो दद्यात् - ‘नान्दीमुखेभ्यः पितृभ्यस्स्वाहा’ इति संक्षाळनेन प्रदक्षिणं परिषिच्य — ‘ऊर्जं वहन्तीः’ इति भाविजयाद्यर्थेन कालहोमान् पृषदाज्येन पूर्ववद्धोमं केचिदिच्छन्तीत्युक्तमेतन्नान्दीमुखम् ॥

तत्र नान्दीनिमित्तान्युक्तानि (शेषसूत्रे ५. २. १०.१३)

नामादिनान्दीकरणमाशिषं द्विजभोजनम् ।
रक्षाबन्धनमन्नादिचौळाद्यङ्कुरमेव च

इति

पुंसि नामान्नचौळोपस्नानपाणिग्रहेषु च ।
अग्न्याधाने च सोमे च दशस्वभ्युदयं स्मृतम्

इति च ॥ वैद्यनाथीयेऽपि -

सीमन्तव्रतचौळनामकरणान्नप्राशनोपानयस्नानाधानविवाहयज्ञतनयोत्पत्तिप्रतिष्ठासु च । पुंसूत्यावसथप्रवेशनसुताद्यास्यावलोकाश्रमस्वीकारक्षितिपाभिषेकदायिताऽद्यर्तौ च नान्दीमुखम्

इति ॥ एकदा तन्त्रेण बहुकर्म सन्निपाते एकस्यैव कर्मणोऽसकृत्प्रयोगे च नान्दीश्राद्धादिकं सकृदेव कार्यं नत्वावृत्या –

एकदा क्रियमाणानामनेकशुभकर्मणाम् ।
वृध्द्यङ्कुरप्रतिसरान् सकृदेव समाचरेत्

असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः ।
इत्युपक्रम्य-एवमेवभवेच्छ्राद्धमेतेषु न पृथक्पृथक्

इति । वैद्यनाथीयोक्तेः ॥ ॥ अथ नान्दीकालः । (यो. गृ. प. सू. १.३)

अथाप आचम्य बाह्याभ्यन्तरतः पूतो मेध्यो यज्ञियो भूत्वा वेदकर्माणि प्रयोक्ष्यन् पूर्वद्युरेव युग्मान् ब्राह्मणान्भोजयेदिति नान्दीमुखा एवैता उक्ता भवन्ति ॥ तेषु भुक्तवत्सु स्वधायै स्थाने ‘मधुमनिष्ये मधुजनिष्ये’ इत्येतद्यजुर्जपित्वा

नान्दीमुखाः पितरः प्रीयन्ताम्

इत्यपो निनयति स्वधैवैषोक्ता भवति ॥ नैकाह्ना पित्र्यं देवञ्च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवञ्च कुर्वन्ति प्रजा हास्य प्रमायुका भवन्ति

तस्मात्पितृभ्यः पूर्वेद्युः क्रियते यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते

इति ब्राह्मणम् ।

गृह्यसङ्ग्रहेऽपि

नान्दीमुखञ्च पूर्वद्युः पुण्याहञ्चापरेऽहनि

इति ।

अनेन पूर्वेद्युरेव नान्दीकाल इत्यवसीयते ।

तथाऽपि “महत्सु पूर्वेद्युस्तदहरल्पेषु” इत्याश्वलायनगृह्यपरिशिष्टोक्या कर्मणां महत्वे पूर्वेचुरल्पत्वे सद्य इति व्यवस्थाप्यते ॥ ॥ नान्दीमुखस्यावधिदिनान्युक्तानि निर्णयासिन्धौ

एकविंशत्यहर्यज्ञे विवाहे दश वासराः ।
त्रिषट् चौलोपनयने नान्दीश्राद्धं विधीयते

इति ॥ ॥ नान्दीश्राद्धकर्तारः –

नान्दीश्राद्धं पिता कुर्यादाद्यपाणिग्रहावधि ।
अत उर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्

इति प्रयोगपारिजाते सायणीयवचनात् ।

स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु ।
पिण्डानोद्वाहनात्तेषां तदभावे तु तत्क्रमात् ॥
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः

इति कात्यायनोक्तेः ।

तस्मात्पितृ-याचार्यमातुलादयः संस्कार्यस्योपनेयादेरेव पितृभ्यः श्राद्धं दद्युः

इति

हेमाद्रिनिगमनवाक्याच्च सुतसंस्कारकर्मसु आद्यविवाहपर्यन्तं पितैव स्वपितॄनुद्दिश्य नान्दीश्राद्धं कुर्यात् । पितुरभावे पूर्वसंस्कृतभ्राता स्वपितॄनुद्दिश्य कुर्यात् । तस्याप्यभावे पितृव्याचार्यमातुलादयस्संकार्यस्य पितनुद्दिश्य कुर्युः । तथा च नान्दीश्राद्धं आद्यविवाहपर्यन्तं पितैव कुर्यात्, तस्याभावे भ्राता, तस्याप्यभावे पितृव्यादयः कुर्युः, द्वितीयविवाहादिषु स्वयमेव कुर्यादिति निर्णयः पर्यवस्यति ॥

तच्च नान्दीश्राद्धं पूर्वं मातृपार्वणं ततः पितृपार्वणं ततस्सपत्नीकमातामहपार्वणमिति पार्वणत्रयोद्देश्यकम् ॥

तत्र मातृजीवने सापत्नमातृमरणेऽपि न मातृपार्वणम् ॥ एवं मातामह्या जीवने मातामहीसपत्न्या मरणेऽपि न मातामहादेस्सपत्नीकत्वम् ॥ अथ कर्तुर्जीवत्पितृकत्वे

जीवेत्तु यदि वर्गाद्यस्तं वर्गन्तु परित्यजेत्

इति न्यायेन जीवपितृकः स्वापत्यसंस्कारेषु पितृपार्वणं विहाय मातृमातामहपार्वणयुतं नान्दीश्राद्धं कुर्यात् ॥ मातरि च जीवन्त्यां मातामहपार्वणकमेव । पितृमातामहयोर्जीवतोर्मातृपार्वणकमेव ॥ वर्गत्रयाद्येषु जीवत्सु नान्दीश्राद्धलोप एव सुतसंस्कारेषूचितः । द्वितीयविवाहाधानपुत्रेष्टिसोमयागादिषु स्वसंस्कारकर्मसु

येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः

इति वचनेन

मृतमातृमातामहकोऽपि जीवत्पितृकः पितुर्मातृपितामहीप्रपितामह्यः । पितुः पितृपितामहप्रपितामहाः । पितुर्मातामहमातृपितामहमातृप्रपितामहाः ।

इत्येवं पार्वणत्रयमुद्दिश्य श्राद्ध कर्यात्, न तु स्वमातृमातामहपार्वणोद्देशेन । तथा च ‘येभ्य एव पिता दद्यात्’ इति पक्षस्य ‘वर्गाद्यजीवने तत्पार्वणलोपः’ इति द्वारलोपपक्षस्य च स्वसंस्कारस्वापत्यसंस्कारभेदेन व्यवस्था सिद्धान्तितेति ज्ञेयम् ।

केचित्तु पक्षद्वयस्यैच्छिको विकल्पो न तु व्यवस्थित इत्याहुः ॥

एतच्चाभ्युदयिकश्राद्धमन्नेन कार्यमिति मुख्यः कल्पः, आमेन हेम्ना वा कर्यादित्यनकल्पः,

इति । वैद्यनाशीये प्रदर्शितः । तदपि वैश्वदेवानन्तरं पुण्याहवाचनपूर्वकं कार्यम् ।

वृद्धावादौ क्षये चान्ते दर्शे मध्ये महालये ।
आचान्तेषु च कर्तव्यं वैश्वदेवञ्चतुर्विधं

इति स्मृतिसारसग्रहोक्तः “नान्दीश्राद्धाङ्गपुण्याहवाचनं कार्यं” इति विष्णुभट्टोक्तश्च । अत्र नान्दीश्राद्धे नियमविशेषः प्रोक्तो गृह्यसूत्रे (बो. गृ. शे. पू. ३ १२ )

अथाभ्युदयिकेषु प्रदक्षिणमुपचारः, यज्ञोपवीतं, प्रागग्रा दर्भाः, युग्मा ब्राह्मणाः, यवैस्तिलार्थः, पृषदाज्यं हविः, सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जनं च । नान्दीमुखेभ्यः पितृभ्यस्स्वाहत्यग्नौकरणमनुदेशनम् । आशयषु च परिसमूढेषु प्रागग्रेषु दर्भेषु पृषदाज्येनानुप्रदानं सर्वं द्विर्द्विरिति ।

विष्णुभट्टीये –

पुष्पफलाक्षतमिश्रयवैस्तिलकार्यं, तिलोसीत्यत्र यवासीत्यूहः, दूर्वाभिर्दर्भकार्यं, उदगपवर्गः, सर्वत्र पितृपदात्पूर्वं पितृपदविभक्त्यन्तं नान्दीमुखपदं योज्यं, पृषदाज्येन होमपिण्डदानोपस्तरणाभिघारणानि, दध्यन्नेन विकिरणं, ‘इडादेवहूरिति’ स्वधावाचनं, नामगोत्ररूपाण्यग्निमुखं स्विष्टकृदादयश्च न सन्ति, सत्यवसुसंज्ञका विश्वेदेवाः

इत्यपि विशेषः ॥ ॥ पैतृके कर्मणि विश्वेषां देवानामावश्यकत्वमुक्तं देवलेन -

यत्र तु क्रियते कर्म पैतृके ब्राह्मणान्प्रति ।
तत्सर्वं तस्य कर्तव्यं वैश्वदेवत्यकर्माण

इति । पुनस्तेषां संख्या नामानि च निर्दिश्यते बृहस्पतिना -

ऋतुर्दक्षो वसुः सत्यः कालः कामस्तथैव च ।
धुरिश्च रोचनश्चैव तथा चैव पुरूरवाः ।
माद्रवश्च दशैते तु विश्वेदेवाः प्रकीर्तिताः

इति । तदग्रहणकाल उक्तस्तेनैव -

इष्टिकाले ऋतुर्दक्षः सद्यो नान्दीमुखे वसुः ।
नैमित्तिके कालकामौ काम्ये च धुरिलोचनौ ॥
पुरूरवो माद्रवाश्च पार्वणे समुदाहृतौ

( ३. ९१-९३ ) इति ॥

मातृकापूजननान्दीश्राद्धयोः प्रयोगः

अथ मातृकापूजननान्दीश्राद्धयोः प्रयोगः ॥

कर्ता पूर्वेद्युः प्रातर्मङ्गलस्नानाद्यौपासनान्तं नित्यकर्म कृत्वा वैश्वदेवं हुत्वा आदित एव विश्वेदेवार्थौ द्वौ पित्रार्थांश्च षट् इत्यष्टावरान् ब्राह्मणान्निमन्त्र्य श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्य द्विराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्वः करिष्यमाणामुककर्माङ्गतया विहितमभ्युदयार्थं नान्दीमुखश्राद्धं सदैवं करिष्ये

इति सङ्कल्प्य, गणेशादीन्सम्पूज्य,

अस्य करिष्यमाणनान्दीश्राद्ध-(समाराधनाख्यस्य) कर्मणः ॐ पुण्याहं भवन्तो ब्रुवन्तु । अस्मै नान्दीश्राद्ध-(समाराधनाख्याय) कर्मणे ॐ स्वस्ति भवन्तो ब्रुवन्तु । अस्य नान्दीश्राद्ध-(समाराधनाख्यस्य) कर्मणः ॐ ऋद्धिं भवन्तो ब्रुवन्तु । नान्दीमुखाः पितरः प्रीयन्ताम्

इति पुण्याहं वाचयित्वा मातृकापूजनं कुर्यात् ॥

अथ मातृकापूजनम् ॥

अमुककर्माङ्गभूतं मातृकापूजनं करिष्ये

इति सन्कल्प्य अक्षतपुञ्जेष्वावाहयेत्-ॐ गौर्यै नमः गौरीमावाहयामि, ॐ पद्मायैः॰, ॐ शच्यैः॰, ॐ मेधायैः॰, ॐ सावित्र्यैः॰, ॐ विजयायैः॰, ॐ जयायै॰, ॐ देवसेनायैः॰, ॐ स्वधायैः॰, ॐ स्वाहायै॰, ॐ मातृभ्यो॰, ॐ लोकमातृभ्यो॰, ॐ धृत्यै॰, ॐ पुष्टयै॰, ॐ तुष्ट्यै॰, ॐ कुलदेवतायैः॰, ॐ ब्राह्म्यै॰, ॐ माहेश्वर्यै॰, ॐ कौमार्यै॰, ॐ वैष्णव्यै॰, ॐ वाराह्यै॰, ॐ इन्द्राण्यै॰, ॐ चामुण्डायै॰, ॐ गणपतये॰, ॐ दुर्गायै॰, ॐ क्षेत्रपालाय॰, ॐ वास्तोष्पतये नमः वास्तोष्पतिमावाहयामि

इति सप्तविंशतिदेवता आवाह्य,

नर्य प्रजां में गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृत सत्ये प्रतिष्ठिताम् ॥ [[TODO: परिष्कार्यम्]]

इति प्रतिष्ठाप्य, ‘गौर्याद्यावाहितदेवताभ्यो नमः’ इति षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य,

गौरीमिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ’ [[TODO: परिष्कार्यम्]]

इति प्रार्थ्य अनेन पूजाराधनेन गौर्याद्यावाहितदेवताः प्रीयन्ताम् ॥ इति मातृकापूजनम् ॥

नान्दीश्राद्धप्रयोगः ॥ अथाग्निमुपसमाधाय1 सम्पारस्तीर्य आज्यस्थाली स्रुवं पृषदाज्यस्थालीं समिधं कूर्चं प्रोक्षणीपात्रं चेत्यासाद्य संस्कृतााभिः प्रोक्षणीभिरद्भिः प्रोक्ष्य पृषदाज्यस्थाल्यां तिरः पवित्रं (कूर्चं) दद्ध्यानीयाज्यस्थाल्यामाज्यं विलाप्याभिद्योत्योभयं पर्यग्निकृत्वाऽज्यमुत्पूय पृषदाज्यस्थाल्यामेव दध्यर्धपरिमितमवनयति तत्पृषदाज्यमत्र हविः । स्रुवं संमृज्य ब्राह्मणानुपवेश्य क्षणं दत्वा गन्धपुष्पयवदूर्वाचिते मण्डले

सत्यवसुसंज्ञका विश्वेदेवा इदं वः पाद्यमिदं वः पाद्यं

इति पाद्यं दद्यात् । ‘अस्तु पाद्यम्’ इति प्रतिवचनम् । एवमेव

नान्दीमुखा मातृपितामहीप्रपितामहः, नान्दीमुखाः पितृपितामह्मपितामहाः, नान्दीमुखा मातामहमातृपितामहमातृप्रपितामहाः पत्नीसहिताः, इदं वः पाद्यमिदं च

इति द्वयोर्द्वयोः प्रत्येक पाद्यं दत्वा तान्प्रक्षाळितपाणिपादानप आचमय्य प्रागग्रेष्वासनेषूदगपवर्गेषु द्वयोर्द्वयोर्वायवांश्च निदधाति

नान्दीमुखानां विश्वेषां देवानां इदमासनमिदञ्च

‘अस्तु सुखासनं’ इति प्रतिवचनम् । एवमेव

नान्दीमुखानां मातृपितामहीप्रपितामहीनां, नान्दीमुखानां पितृपितामहप्रपितामहानां, नान्दीमुखानां मातामहमातृपितामहमातृप्रपितामहानां पत्नीसहितानां इदमासनमिदञ्च

इतिद्वयोर्द्वयोः प्रत्येकमासनं दत्वा ‘अस्तु सुखासनं’ इति प्रतिवचनम् ॥ ततः प्रागग्रासु दूर्वासु अर्घ्यपात्राण्यासाद्य द्वेद्वे पवित्रे निधाय अप आनीय यवानोप्य पितृपात्रेषु मध्वानीयालोड्य किञ्चिन्निरस्यापः स्पृष्ट्वाभिमृश्य गन्धादिभिरभ्यर्च्य भोजनस्थानेष्वासनेषु च यवान् सिकताश्च सम्प्रकीर्य विश्वान्देवानावाह्य ‘वैश्वदेवे क्षणौ कियेताम्’ इत्यङ्गुष्ठौ गृहीत्वा वदेत् । ‘ॐ तथा’ इत्युक्ते ‘प्राप्नुतां भवन्तौ’ इति वदेत्। ‘प्राप्नवाव’ इति प्रतिवचनम् ।

ततः सत्यवसुसंज्ञका विश्वेदेवा

इति प्रतिपदार्थमुक्त्वा ‘इदं वो अर्घ्यमिदञ्च’ ‘इदं वो वस्त्रमिदञ्च’ ‘इदं वो गन्धोऽयञ्च’ ‘इमानि वः पुष्पाणीमानि च’ ‘इमे वो अक्षता इमे च’ ‘अयं वो धूपोऽयञ्च’ ‘अयं वो दीपोऽयञ्च’ ‘इदं वो अर्घ्यमिदञ्च’ इत्यादीनि दद्यात् । ‘अस्त्वर्घ्यं’ ‘सुवस्त्रं’ इत्यादि यथालिङ्गं प्रतिवदन्तौ प्रतिगृह्णीतः । एवमेव नान्दीमुखान्पितॄन् द्वयोर्द्वयोरावाह्य क्षणं ग्राहयित्वा तेषां सपवित्रेषु पाणिषु

नान्दीमुखाः पितरः प्रीयन्ताम्

इति मन्त्रेण पात्रान्तरेणोपहत्य2 द्विर्द्विर्यवोदकं दत्वा । वस्त्रादिभिरलंकृत्यैवमेव पुनश्चार्घ्यं दत्वा ‘अग्नौ करिष्यामि’ इति वदन् ‘कुरुष्व ’ इति तैरनुज्ञातोऽग्निमलङ्कृत्य समिधमादाय स्रुवेण पृषदाज्यं गृहीत्वा ‘नान्दीमुखेभ्यः पितृभ्यस्स्वाहा’ इति सकृदेवाहुतिं हुत्वा भोजनपात्रेषु द्विर्द्विः पृषदाज्येनोपस्तीर्य दध्योदनादिकं सर्वं सविशेषं द्विर्द्विः परिविष्य द्विर्द्विरभिघार्य प्रागग्रासु दुर्वासु सादायित्वा प्रागग्राभिर्दूर्वाभिः प्रतिच्छाद्याभिमृश्य ब्राह्मणेभ्यो निवेदयते

सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नं स्वाहा न मम इदञ्च

इति ब्रुवन् तयोः प्रक्षाळितेनाङ्गुष्ठेनानखेनानुदिश्य नमस्करोति । एवमेव

नान्दोमुखार्थानां पितॄणां क्षेष्ठा अमुत्रामुष्मिंल्लोके

इति मन्त्रमूह्याभिमृश्य

नान्दीमुखेभ्यो मातृपितामहीप्रपितामहीभ्य इदमन्नं स्वाहा न मम इदञ्च

इत्यादि प्रत्येकमनुदिश्य नमस्करोति । पुष्पफलाक्षतयवदुर्वाः सङ्गृह्य

ओदनमुद्ब्रुवते । परमेष्टी वा एषः । यदोदनः । परमामेवैनँ श्रिय गमयति ॥ ॥ यन्तु नदयो वर्षन्तु पर्जन्याः । सुपिप्पला ओषधयो भवन्तु । अन्नवतामोदनवतामामिक्षवताम् । एषाँ राजा भूयासम् ॥ [[TODO: परिष्कार्यम्]]

इति मन्त्रौ जापित्वा

नान्दीमुखा देवताः पितरश्च प्रीयन्ताम्

इति वाचयन्नपो निनीय नमस्कृत्य ‘ॐ तत्सदमृतमस्तु’ इत्यनुज्ञाप्य सर्वान्यथावद् भोजयेत् ॥ पितृसामान्यवाचिस्वधायुक्तानि ब्रह्माण्यभिश्राव्य तृप्तान्पृष्ट्वाऽप आचम्योपलिप्तेषु भोजनस्थानेषु दध्यन्नं विकीर्य संक्षालनेन प्रदक्षिणं द्विः परिषिच्य पूर्ववद्विप्रहस्तेऽर्घ्यं द्विर्द्विर्दत्वा शक्त्या च दक्षिणां प्रदायाक्षय्यं वाचयित्वाभिवाद्य पुष्पफलाक्षतदूर्वाभिस्सहोदकुम्भमादाय दक्षिणं जानु निपात्य सव्यमुद्धृत्य जपति ‘इडा देवहूः’ इत्यान्तादनुवाकस्य । नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनीय पित्रर्थविप्रान्विसृज्योत्थाप्यानुव्रज्य प्रसाद्य प्रणम्य प्रदक्षिणीकृत्य शेषमनुज्ञापयेत् ॥ एवं देवार्थो विप्रावपि विसृज्य दक्षिणेनाग्निं3 प्रागग्रा दूर्वा आस्तीर्य तत्र यवोदकं दत्वा

नान्दीमुखेभ्यः पितृभ्यः स्वाहा

इति स्रुक्स्रुवेण पृषदाज्यं दत्वा सङ्क्षालनेन यवमिश्रेण ‘ऊर्जं वहन्तीः’ इति मन्त्रेण प्रदक्षिणं द्विः परिषिच्य जयाद्यर्थं पूर्ववद्धुत्वा न वा हुत्वा कर्मशेष समापयेत् ॥ इत्ययमाचार्योक्तः प्रधानः कल्पः ॥

गौणः कल्पः

अथ गौणः4 कल्पः -

पूर्वेद्युः सद्यो वा कृतस्नानादिक्रियो युग्मान्ब्राह्मणान्निमन्त्र्यासनेषूपवेभ्य अमुककर्माङ्गभूतं नान्दीसमाराधनं हिरण्येन करिष्ये

इति सङ्कल्प्य गणेशं संपूज्य वैश्वदेवं हुत्वा ‘नान्दीमुखाः पितरः प्रीयन्ताम्’ इति पुण्याह वाचयित्वा मातृकापूजनं कुर्यात् ॥ ततो हस्ते दूर्वाक्षतजलश्चादाय -

नान्दीमुखास्सत्यवसुसंज्ञका विश्वेदेवाः भूर्भुवस्सुवरिदं वः पाद्यं स्वाहा नम इयञ्च वृद्धिः ॥ नान्दीमुखाः मातृपितामहीप्रपितामह्यः भूर्भुवस्सुवरिदं वः पाद्यं स्वाहा नम इयश्च वृद्धिः ॥ नान्दीमुखाः पितृपितामहप्रपितामहाः भूर्भुवस्सुवरिदं वः पाद्यं॰ वृद्धिः ॥ नान्दीमुखाः मातामहमातृपितामहमातृप्रपितामहाः पत्नीसहिता भूर्भुवस्सुवरिदं वः पाद्यं॰ वृद्धिः ॥

इति पृथक्पृथगुद्दिश्य निनयेत् ॥ ततो गन्धपुष्पाक्षतजलञ्चादाय –

नान्दीमुखास्सत्यवसुसंज्ञका विश्वेदेवाः भूर्भुवस्सुवरिदं व आसनगन्धाधुपचारकल्पनं स्वाहा॰ वृद्धिः ॥ नान्दीमुखाः मातृपितामहीप्रपितामह्यः भूर्भुवस्सुवरिदं व आसन॰ वृद्धिः ॥ नान्दीमुखाः पितृपितामह॰ इदं व आसन॰ ॥ नान्दीमुखाः मातामह॰ पत्नीसहिताः भूर्भुवस्सुवरिदं व आसन॰ ॥

इति तथैव निनयेत् ॥ पुनर्हस्ते हिरण्यं जलं चादाय -

नान्दीमुखास्सत्यवसुसंज्ञका विश्वेदेवाः भूर्भुवस्सुवरिद वो युग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयभूतं किञ्चिद्धिरण्यं स्वाहा नम इयञ्च वृद्धिः ॥ नान्दीमुखाः मातृ॰ इदं वो युग्म॰ ॥ नान्दीमुखाः पितृ॰ इदं वो युग्म॰ ॥ नान्दीमुखाः मातामह॰ पत्नीसहिताः भूर्भुवस्सुवरिदं वो युग्म॰ ॥

इति पूर्ववन्निनीय गौर्यादि षोडशमातरो ब्राह्म्यादि सप्तमातरश्च गणपतिदुर्गाक्षेत्रपालवास्तोष्पतिसहिताः इदं वो॰ वृद्धिः ॥

इडो देवहूर्मनु॰ शोभायै पितरोऽनु मदन्तु" [[TODO: परिष्कार्यम्]]

इति जपित्वा कृतस्य कर्मणस्साङ्गतासिध्यर्थं

द्राक्षामलकनिष्क्रयभूतं5 किञ्चिद्धिरण्यं स्वाहा नम इयञ्च वृद्धिः

इति किञ्चिद्धिरण्यं समर्प्य ॥

इडामग्ने पुरुद ँ सं ँ सनिङ्गोश्शश्वत्तमँ हवमानाय साध । स्यान्नस्सूनुस्तनयो विजा वाऽग्ने साते सुमतिर्भेत्वस्मे ॥ इड पहि । अदित एहि । सरस्वत्येहि ॥ शिवँ शिवँ शिवम् ॥ [[TODO: परिष्कार्यम्]]

इति गन्धपुष्पाक्षतादियुतपात्रं हस्ते धृत्वा हिरण्येन तदधास्त्रस्ताडयेदिति शिष्टाचारः ।

अनेन नान्दीसमाराधनकर्मणा श्रीपरमेश्वरः प्रीयताम्

इति कर्म समर्प्य तत्साङ्गतासिध्यर्थं फलहिरण्यादिकमाचार्याय दद्यात् ॥ आमश्राद्धपक्षे पूर्ववत् पाद्यमासनादिकं च दत्वा भोजनचतुर्गुणपरिमितमामं सोपस्करं पात्रे निधाय व्याहृतिसहितया गायत्र्या प्रोक्ष्य, इदं वो युग्मब्राह्मणभोजनपर्याप्तमामं स्वाहा नम इयञ्च वृद्धिः ॥ इत्यनुदिशेदिति विशेषः ॥ अन्यत्सर्वं पूर्ववत् ॥ ॥ इति नान्दीश्राद्धम् ॥

कुलदेवतास्थापनम्

अथ कुलदेवतास्थापनम् ॥ चौलोपनयनविवाहादिशुभकर्मसु नान्द्यनन्तरं पुण्याहानन्तरं वा यथाचारं तण्डलपर्णपात्रे फलताम्बूलादिकं निधाय स्वस्वकुलदेवतां तत्तन्मन्त्रेणावाह्य षोडशोपचौरैस्सम्पूज्य देवस्य पुरतः प्रतिष्ठापयेत् ॥ समाप्त कर्मणि विसर्जयेदिति ॥


  1. अत्रौपासनाग्निर्ग्राह्यः -“देवधर्ममिदं कर्म भवेदौपासनानले " इति कल्पसारोक्तेः। ↩︎

  2. दारुमयेन मृण्मयेन वा । श्रुतौ तथैवोपयामपात्रनिर्वचनात् । ↩︎

  3. उत्तरेणाग्निमिति विष्णुभट्टः । ↩︎

  4. अयं कल्पः प्रयोगग्रन्थेषूल्लिखितः शिष्टैरादृतश्च । ↩︎

  5. “ द्राक्षामलकमूलानि यवांश्च विनियोजयेत् । तान्येव दक्षिणार्थन्तु दद्याद्विप्रेषु सर्वदा” इति संस्कारकौस्तुभे । ↩︎