सर्वेषामपि कर्मणामादौ निर्विघ्नपरिसमाप्तये गणपतिपूजनं कर्तव्यम्
न ऋते त्वत्क्रियते किं च न
इति मन्त्रलिङ्गात् ।
नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ! ।
तस्माद्विघ्नं समुत्पन्नं तत्क्रोधजमिदं खलु
इति पद्मपुराणे तदकरणेन विघ्नोपहतिस्मरणाच्च । तदर्चनन्तु मण्डलात्मकबिम्बे षोडशभिरुपचारैः कार्यं तथैव शिष्टाचारात् । बिम्बलक्षणं चोक्तं विश्वामित्रकारिकायाम् -
प्रादेशमात्रप्रमितं त्रिकोणष्टकोणयुक्तं गुणवर्तुळाढ्यम् ।
बिम्बन्तु बाह्ये चतुरस्रयुक्तं मध्ये यजेद्विघ्नपति विपश्चित्
इति । तल्लेखनप्रकारश्च तत्रैवोक्तः -
शक्रासुरानिलहुताशनवारुणेशभागाश्रितन्तु विलिखेद्रसकोणमन्तः ।
पाशीशपावकसुदिश्युदितं त्रिकोणं विघ्नार्चने तु विहितं नवकोणचक्रम्
इति ॥ षोडशोपचारास्तु ( वो. गृ. सू. १.११.१४ )
आसनावाहनं पाद्यमर्घ्यमाचमनं तथा ।
स्नानं वस्त्रोपवीतं च गन्धपुष्पं तथैव च ॥
धूपं दीपं च नैवेद्यं पानीयाचमनं तथा ।
ताम्बूलोद्वासनं चेति ह्युपचारास्तु षोडश
इति ॥ एवं क्षेत्रपालपूजनं वास्तोष्पतिपूजनं कुलदेवतापूजनाञ्च कुर्यात् शिष्टैः समादृतत्वात्।
सव्याहृतिं सप्रणवाञ्च साग्रमादौ त्रयीमातरमेकचित्तः । त्रिरायतप्राण उदीर्य कर्म चेष्ट्वाऽऽरक्षेताथ निजेष्टदेवान " इति प्रयोगतिलके स्वेष्टदेवतापूजनविधानाच्च
इति ॥ ‘प्रयोगतिलके स्वेष्टदेवतापूजनविधानाच्च’ इति ॥
प्रयोगः
अथ प्रयोगः ॥
आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं करिष्ये
इति सङ्कल्प्य पूर्वोक्तप्रकारेण गणपतिबिम्बं विलिख्य तन्मध्ये गणपतये नमः ‘आसनं कल्पयामीत्यासनं’ कल्पयित्वा,
ॐ गणानान्त्वा गणपति॰ सीदसादनम् ॥ [[TODO: परिष्कार्यम्]]
इति मन्त्रेण हृदि ध्यानं
ॐ भूर्भुवस्सुवः महागणपतिमावायामीति
दूर्वाक्षतैरावाह्य,
ॐ गणपतये नमः पाद्यं समर्पयामि । एवमेव अर्घ्यं स॰ । आचमनं॰ । स्नानं॰ । वस्त्रं॰ । उपवीतं॰ । गन्धं॰ । अक्षतं॰ । पुष्पं॰ । धूपं॰ । दीपं॰ । नैवेद्यं॰ । पानीयं॰ । आचमनं॰ ।1ताम्बूलं समर्पयामि
इति षोडशोपचारैरन्यैः सुवर्णपुष्पमङ्गळनीराजनप्रदक्षिणनमस्काराद्युपचारैर्यथोपपन्नैरभ्यर्च्य
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभा ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
इति प्रार्थ्य
अनेन पूजनेन विघ्नहर्ता महागणपतिः प्रीयताम्
इति समर्प्यान्ते विसर्जयेत् ॥ ततः क्षेत्राधिपतिं फलताम्बूलादिना सन्तोष्य प्रणम्य
क्षेत्रस्य पतिना, क्षेत्रस्यपते [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां प्रार्थयेत् ॥ अथ वास्तुसमीपं गत्वा वास्तोष्पतिं गन्धादिभिरभ्यर्च्य ॥
वास्तोष्पते प्रतिजानीह्यस्मान्स्वविशो अनमीवो भवा नः । यत्वेमहे प्रति तन्नो जुषस्व शन्न एधि द्विपदे शञ्चतुष्पदे ॥ वास्तोष्पते शग्मया सँसदा ते सक्षीमहि रण्ययां गातुमत्या । आवः क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभिः सदा नः ॥ अमीवहा वास्तोष्पते विश्वारूपाण्याविशन्। सखा सुशेव एधिनः ॥ [[TODO: परिष्कार्यम्]]
वास्तोष्पते नमस्तेऽस्तु भूशय्यानिरत प्रभो ।
मद्गृहे धनधान्यादिसमृद्धिं कुरु सर्वदा ॥
इति प्रार्थयेत् ॥ इति गणेशादिपूजनम् ॥
अथानन्तरमभिधेयगर्भाधानादिसंस्काराणां प्रायेण मातृकापूजननान्द्यङ्कुरार्पणोदकशान्तिप्रतिसरबन्धपुण्याहवाचनाग्निमुखग्रहशान्तिपूर्वकत्वेन तत्सापेक्षकत्वात्प्रथमं तावदुद्देशक्रमेण नान्दीश्राद्धादयोऽभिधीयन्ते ॥
-
इदमाचमनमुपहाराङ्गम् । एवं स्नानवस्त्रोपवीतेष्वप्याचमनं योज्यं तच्च न पृथगुपचारः । तदुक्तमाश्वलायनपरिशिष्टे। ↩︎