०४ प्रधानसङ्कल्पः

श्रीः। एवं कृतमङ्गलस्नानादिकोऽहतवासाः1 स्वलङ्कृतः संभृतसकलसंभारः कर्ता शुचौ देशे प्राङ्मुखो दर्भेष्वासीनो दर्भान्धारयमाणः पत्नीं स्वदक्षिणतः प्राङ्खीमुपवेश्य संस्कार्यञ्च तद्दक्षिणतस्तथैवोपवेश्य माङ्गल्यमन्त्रघोषपुरस्सरं ब्राह्मणैरनुज्ञातः पवित्रपाणिर्यज्ञोपवीती द्विराचम्य प्राणानायम्य श्रीमहागणपतये नमः ।

देवीं वाचमजनयन्त देवाः॰ नमो महद्भ्यो॰ [[TODO: परिष्कार्यम्]]

इत्यादि पठित्वा “सुमुखश्चेत्यादि देशकालौ’ संकीर्त्य

श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोऽमुकशर्माऽहममुकफलावाप्तयेऽमुककर्म श्वः सद्यो वा करिष्ये

इति सङ्कल्पं2 कुर्यात् ॥ इति प्रधानसङ्कल्पः ॥


  1. “अहतं वाससां शुचिस्तस्माद्यत्किञ्चेज्यासंयुक्तं स्यात्सर्वं तदहतैर्वासोभिः कुर्यात्॥ प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानात्विजश्च परिदधीरन् ” इति वो. धर्मसूत्रं १-६ सू. सं. ४-५ । ↩︎

  2. इमं सङ्कल्पं ‘नान्दीश्राद्धादिपुण्याहान्तानि कर्माणि प्रयोगाद्बहिर्भूतानि’ इति वदतां मते पुण्याहवाचनान्ते कुर्यात ॥ ↩︎