॥ अथ स्नानादिचतुष्टयविधिः ॥
॥ श्रीः ॥
अथात्मशुद्धर्थं स्नानं, पवन, मन्त्राचमनं, मन्त्रप्रोक्षणं चेत्येतानि
सर्वकर्मणामादौ कर्तव्यानि भवन्ति -
स्नानं च पवनं चैव मन्त्राचमनमेव च ।
मन्त्रप्रोक्षणमेतानि कुर्यात्संस्कार आदितः
इति गृह्यसारसङ्ग्रहादिषु विधानात् ।
तत्र स्नानं आन्हिकप्रकरणोक्तप्रकारेण पुण्यतीर्थाऽवगाहनमेवेति ज्ञेयम् ।
(बो. गृ. प. सू. १. ३. ७-८ )
वेदकर्माणि प्रयोक्षन्नादित एव तीर्थे स्नात्वोदेत्या हतं वासः परिधायैकविंशत्या दर्भपिञ्जूलैरात्मानं पावयित्वा यस्य कुर्वन्भवति तं पवयति -
पवित्रं वै दर्भाः पवित्रं विष्णुस्स प्रतिष्ठा सोमस्य प्रतिष्ठित्यै
इति विज्ञायते ॥
एकविंशत्या पवयत्येकविंशो वै यज्ञ एकविंशः पुरुष एकविंशतिश्छन्दांस्येकविंशतिर्वै देवलोकाः छन्दोभिरेवैनं यज्ञेन यजमानमेकविंशे प्रतिष्ठाप्य पूर्त मेध्यं यज्ञियं पश्यति । सप्ताभः पवयति सप्त छन्दांसि छन्दोभिरेवैनं पवयति । सप्तभिः पश्यति सप्तैवास्यैते पुरुषास्सन्ततिमनुसन्तन्वति त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनान् पवयति । त्रेधा विभक्तैः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति
इति ब्राह्मणम्
इति गृह्योक्तेः । पवनञ्चोक्तं गृ० सङ्ग्रहे-
आत्मानं दर्भपिञ्जूलैः पावयेत्सप्तकैस्त्रिाभिः ।
मुखं नाभिं च गुल्फञ्च प्रोक्ष्य तानि क्षिपेदुदक् ॥
ऋत्विक्चेत्पयित्वा स्वं स्वामिनं पावयेत्ततः
इति । अन्यत्रापि -
सप्तभिस्सप्तभिर्दर्भैस्त्रिस्तूष्णीं पवनं भवेत् ।
कण्ठादूर्धं कटेरूर्ध्वमधश्चैव कुशाग्रकैः
इति ॥
मन्त्राचमनं मन्त्र प्रोक्षणञ्च आन्हिककाण्डोक्त प्रकारेणैवेति ज्ञेयम् ।
मन्त्रप्रोक्षणविषये विशेष उक्तः प्रयोगमालायाम् -
द्वात्रिंशन्मार्जनाः प्रोक्ताश्शिरः पूर्वादयः क्रमात् ।
शिरोवक्रग्रीवबाहुवक्षोहृन्नाभिपार्श्वयुक् ॥
कटिगुह्योरुजान्वादिजङ्घपादाङ्गुलीषु च ।
सर्वाङ्गेषु च ते कार्या मार्जनाः पापनाशनाः ॥
बाहुपार्श्वोरुजान्वाङ्घ्रिष्वेकैकस्यैकमार्जनम् ।
शिरः पूर्वादिषु ज्ञेयौ मार्जनौ युग्मयुग्मको
इत्युक्तम् ॥
स्नानादिचतुष्टयप्रयोगः
अथ स्नानादिचतुष्टयप्रयोगः ॥
कर्ता सपत्नीकः संस्कार्येण सह प्रातर्मङ्गलस्नानं विधाय सन्ध्यावन्दनादिनित्यकर्म समाप्य दर्भेषु प्राङ्मुखं उपविश्य पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यामुककर्मकर्तुं, शरीरशुध्यर्थं स्नानपवनमन्त्राचमनमन्त्रप्रोक्षणानि करिष्ये
इति सङ्कल्प्य । ॐ आपोहिष्ठादि तिसृभिर्नवधा मार्जयित्वा1 एकविँशतिदर्भपिञ्जूलानि त्रेधा विभज्य प्रथमभागेन कण्ठादुपरि शिरोन्तं तूष्णीं त्रिरुन्मृजेत् । एवं द्वितीयभागेन नाभेरुपर्याकण्ठं त्रिरुन्मृज्य तृतीयभागेन नाभेरधस्तादागुल्फं त्रिरवमृजेत् । त्रेधा विभक्तानि समुच्चित्याद्भिरभ्युक्ष्योदङ्निरस्य अप उपस्पृश्य शुध्यर्थमाचमनं कृत्वा दर्भपाणिर्मन्त्राचमनं
आपोहिष्ठादि त्रिभिः कृत्वा ॐ भूः ॐ भुवः ॐ सुवः इत्यङ्गुष्ठमूलेन मुखं त्रिः परिमृज्य इत्यादि सर्वैर्मूर्धानमित्युपस्पृशेत् ।
ततो द्विराचम्य मन्त्रप्रोक्षणं कुर्यात् – ‘ॐदधि॒क्राव्ण’ इति सुरभिमत्या ‘ॐ आपो॒हिष्ठा॰’ इत्यादि तिसृभिरब्लिङ्गाभिः । ‘ॐ यच्चि॒द्धिते॒॰’ इत्यादि चतसृभिर्वारुणीभिः ‘ॐ हिर॑ण्यवर्णाः॒ शुच॑यः॰’ इत्यादि चतसृभिः ‘ॐ पव॑मानः सुव॒र्जनः॑॰’ इत्यादि पावमानीभिः सप्तदशभिश्चात्मानं कुशाग्रैः प्रोक्ष्य ॐ भूः॥१॥ ॐ भुव ॥२॥ ॐ सुवः ॥ ३॥ ॐ भूर्भुवस्सुवः ॥४॥३२॥
ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योभिस्रवन्तु नः॥ ॥ ॐ कयानश्चित्र आ भुवदूती सदावृधस्सखा । कया शचिष्टया वृता ॥ कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । दृढाचिदारुजे वसु ॥ अभीषु णः सखीनामविता जरितॄणाम् । शतं भवास्यू तिभिः ॥ ॥ ॐ तरत्समन्दी धावति धारा सुतस्यान्धसः । तत्समन्दी धावति ॥ उस्रा वेद वसूनां मर्तस्य देव्यवसः । तरत्स मन्दी॰ ॥ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ॥ तत्समन्दी॰ ॥ आययोस्त्रिँशतन्तना सहस्राणि च दद्महे । तरत्समन्दी॰ ॥ [[TODO: परिष्कार्यम्]]
इत्यतैश्च मन्त्रैरात्मानं प्रोक्षयेत् ।
एभिः स्नान-पवन-मन्त्राचमन-मन्त्रप्रोक्षणकर्मभिः श्रीपरमेश्वरः प्रीयताम् ॥
इति कर्म समर्पयेत् ॥ इति स्नानादिचतुष्टयप्रयोगः ।
-
“प्रोक्षयेत्पादपर्याप्तौ सर्वमन्त्रेष्वनुक्रमात् । अर्धशो वा मन्त्रान्ते मन्त्रस्नानेष्वयं विधिः” इति गृ. सं.। ↩︎