॥ अथ संस्काराणां स्वरूपनिरूपणम् ।।
॥ श्रीः ॥
संस्क्रियत आत्मा एभिरिति संस्काराः
इति व्युत्पत्त्या अविद्योपहतस्यात्मनो विशुद्धिजनका वैदिकक्रियाविशेषाः संस्कारपदवाच्या भवितुमर्हन्ति ।
तेन जातसंस्कारा मृतसंस्काराश्चेति
द्विविधा निरूप्यन्ते । तथा च गृह्यसूत्रम् -
तस्माज्जातस्य वै मनुष्यस्य द्वौ संस्कारावृणभूतौ भवतो जातसंस्कारो मृतसंस्कारश्चेति विज्ञायते जातसंस्कारेणेमंल्लोकमभिजयति मृतसंस्कारणामुंल्लोकम्
इति ॥ तत्र
गर्भाधानादयस्ते तु विवाहान्तास्तु षोडश
इति गृह्यसारसङ्ग्रहे -
गर्भाधानं, पुंसवनं, सीमन्तोन्नयनं, जातकर्म, नामकरणं, उपनिष्क्रमणं. अन्नप्राशनं, कर्णवेधनं, चौलं, उपनयनं, होतृव्रतं शुक्रियं उपनिषत् गोदानञ्चेति चत्वारिवेदव्रतानि, समावर्तनं विवाहश्चेति
षोडश जातसंस्काराः प्राधान्येन स्मर्यन्ते । अत्र प्रसिद्धस्य विष्णुबलेः रक्षात्मकत्वात्, संमितव्रतस्य च तत्रैव -
तानि व्रतानि पञ्च स्युः पञ्चमं नेष्यते परैः ।
अथ सम्मितमेतत्तु गृहस्थैरपि चर्यते ।
चतुर्वेदव्रतं त्वष्टाचत्वारिंशद्भिराप्यते ।
वत्सरैः सम्मितं तद्धि संस्कारैर्वाऽखिलैर्यतः ।
व्रतान्यवश्यचर्याणि चत्वार्युक्तानि यानि तु ।
इत्यादि
वक्ष्यमाणत्वाच्च संस्कारेषु परिगणना न कृतेति
गम्यते ॥ मृतसंस्काराश्च दाहाद्याः षोडशैव संगृहीताः स्मृतिसङ्ग्रहे -
प्रथमञ्च द्वितीयञ्च तृतीयञ्च चतुर्थकम् ।
पञ्चमं चाथ षष्ठञ्च सप्तमञ्चाष्टमं तथा ॥
नवमं दशमञ्चैव दशकर्माण्यनुक्रमात् ।
दहनं सञ्चयं चैव एकोद्दिष्टं च मासिकम् ॥
सपिण्डीकरणं पश्चादेकोद्दिष्टं1 ततः परम् ।
एतान्युत्तरकर्माणि षोडशेति विदुर्बुधाः
इति ॥ एतदुभयमपि संस्कारजातं प्रशंसितं प्रयोगरत्ने -
गर्भाधानोपक्रमाष्षोडशोक्ताः संस्कारास्ते जन्मभाजां द्विजानाम् ।
एतावन्तो मृत्युभाजाञ्च तेषां दाहाद्यास्ते पिण्डसंयोगनिष्ठाः ॥ इत्येताभिस्संस्क्रियाभिर्विहीनो जीवन्विप्रो हीयते ब्राह्मणत्वात् ।
त्यक्तप्राणश्चान्यसंस्कारहीनः शश्वत्प्रेतः पुण्यलोकं न याति ॥
इति । एतेन संस्काराः समन्त्रका द्विजात्यनुष्ठेयाश्चेत्याह याज्ञवल्क्यः -
विप्रक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः
इति ॥ अथान्ये स्व-स्व-सूत्रानुसारेण संस्कारान्विविधमाचख्युः । यथा च मनुः -
संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः
इति गर्भाधानादिविवाहान्तानां पूर्वसंस्कारत्वं, पाकयज्ञहविर्यज्ञसोमयज्ञानामेकविंशतीनामुत्तरसंस्कारत्वं चोक्तवान् । हारीतस्तेषामेव क्रमेण ब्राह्मत्वं दैवत्वं चावोचत् । अङ्गिराश्च
गर्भाधानं पुंसवनं सीमन्तो बलिरेव च ।
जातकृत्यं नामकर्म निष्क्रमोऽन्नाशनं तथा ॥
चौलकर्मोपनयनं तद्व्रतानां चतुष्टयम् ।
स्नानोद्वाहौ चाग्रयणमष्टकाश्च यथायथम् ॥
श्रावण्यमाश्वयुज्यं च मार्गशीर्ष्यञ्च पार्वणम् ।
उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यकाः ॥
संस्कारा नियता एते ब्राह्मणस्य विशेषतः ।
पञ्चविंशतिसंस्कारस्संस्कृता ये द्विजातयः ।
ते पवित्राश्च योग्याः स्युः श्राद्धादिषु सुयन्त्रिताः
इति पञ्चविंशतिसंस्कारान्व्याचख्यौ । गौतमोऽपि -
गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्नप्राशन-चौलोपनयनानि, चत्वारि वेदव्रतानि, स्नानं, सहधर्मचारिणीसंयोगः, पञ्चमहायज्ञाः । अष्टका, पार्वणः, श्राद्धं, श्रावणी, आग्रहायणी, चैत्री, आश्वयुजीति सप्त पाकयज्ञसंस्थाः । अग्न्याधेयं, अग्निहोत्रं, दर्शपूर्णमासौ, चातुर्मास्यानि, आग्रयणेष्टिः, निरूढपशुबन्धः, सौत्रामणीति सप्त हविर्यज्ञाः। अग्निष्टोमः, अत्यग्निष्टोमः, उक्थ्यः, षोडशी, वाजपेयः, अतिरात्रः, आप्तोर्यामः, इति सप्त सोमयज्ञसंस्थाः । इत्येते चत्वारिंशत्संस्काराः । अष्टावात्मगुणाः - दया सर्वभूतेषु, क्षान्तिः, अनसूया, शौचं, अनायासः, माङ्गल्यं, अकार्पण्यं, अस्पृहेति ।यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणस्सायुज्यमाप्नोति
इत्यष्टाचत्वारिंशत्संस्कारान्व्यदधात् ॥ तथापि-
स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः ।
कर्तव्या भूतिकामेन नान्यथा सिद्धिमृच्छति
इत्यङ्गिरोवचनेनास्मद्गृह्ये
केषाञ्चिदनुक्तौ संस्काराणां न्यूनत्वेऽपि न क्षतिरित्यवगन्तव्या ।
प्रयोगमालायाम् -
विष्णुबालसम्मितव्रताभ्यां सह गर्भाधानादिविवाहान्ता अष्टादश, शुलगवो, बलिहरणं, प्रत्यवरोहणं, आग्रयणं, अष्टकाहोमः, उत्सर्जनं, उपाकर्मेते सप्तः पञ्चमहायज्ञाः, सप्त हविर्यज्ञसंस्थाः, सप्त सोमसंस्थाः, दयाद्यष्टावात्मगुणा
इति कथञ्चिदिहाप्यष्टाचत्वारिंशत्संस्काराः प्रकल्पिताः॥ आचार्यबोधायनस्तु न कुत्रापि संस्कारान्पर्यजीगणयत् । अपि तु (वो गू. प. सू. १.१.१९) गृह्ये सप्त पाकयज्ञसंस्थाः श्रौते सप्त हवियज्ञसंस्थाः सप्त सोमयज्ञसंस्थाश्च सूत्रयन् -
एकविंशतिसंस्थो यज्ञ ऋग्यजुस्सामात्मकश्च्छन्दोभिश्चितो ग्राम्यारण्यपश्वोषधीभिर्हविष्मान् दक्षिणाभिरायुष्मान् ॥
(बो. गृ. प. सू. १.१.२४)
नाक्रियो ब्राह्मणो नासंस्कारो द्विजो नाविद्वान्विप्रो नैतैर्हीनः श्रोत्रियो नाश्रोत्रियस्य यज्ञः
इति यज्ञं व्याख्याय पाकयज्ञेषु गर्भाधानादीन् स्मार्तान्स्कारान्सजग्राह । तथा च (बो. गृ. सू. १.१)
यथो एतद्धुतः प्रहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञसंस्था इति। ता अनुव्याख्यास्यामः ॥ तत्र यद्धूयते स हुतो यथैतद्विवाहः सीमन्तोन्नयनञ्चति ॥ तत्र हि हूयते एव ॥ अथ यद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलञ्चेति । तत्र हि हुत्वा दीयत एव॥ अथ यत् हुत्वा दत्वा चादीयते स आहुतो यथैतदुपनयनं समावर्तनञ्चेति । तत्र हि हुत्वा दत्वा चादीयते ॥ अथ यच्छूलेषूपानक्षिप्य गव्यानि अपयन्ति स शूलगवः ॥ अथ यद्गृह्याभ्यो देवताभ्योऽन्नं सम्प्रकिरन्ति तद्वलिहरणम् ॥ अथ यदृतो ऋतुं प्रत्यवरोहन्ति तत्प्रत्यवरोहणम्॥ अथ यदेकाष्टकायामन्नं क्रियते सोऽकाहोम इति ॥
एवमिह सामान्येन कांश्चिदुदाहृत्योत्तरत्र हुते विवाह-गर्भाधान-पुंसवन-सीमन्तोन्नयन-विष्णुबलीन्, हुतानुकृतौ होतृ-शुक्रियादि वेदवतानि, प्रहुते जातकर्म-नामकरणोपनिष्क्रमणान्नप्राशन-कर्णवेधन-चूडाकर्माणि, आहुते उपनयनं समावर्तनञ्चेति
सङ्गृह्य सूत्रितवान् ॥
नन्विह पाकयज्ञानामेव संस्कारत्वमस्तु गृह्ये गर्भाधानादिवत्तेषामप्यविशेषेण विधानात्
इति न च वाच्यम् । तथात्वे (बो. गृ प.सू २.६.१)
यथो एतद्यत्किञ्चान्यत्र विहाराद्धूयते सर्वास्ताः पाकयज्ञसंस्थाः
इति सूत्रात्
अविशेषेण यत्किञ्चित्रेताग्नेरन्यत्र हूयते सर्वास्ताः पाकयज्ञसंस्थाः
इति
भवस्वामिभाष्याच्च पाकयज्ञानामपरिमितत्वात् संस्कारा अप्यनियता व्याकुलीभवेयुरिति ॥
तस्मादत्र आचार्यकल्पैः कारिका कृद्भिनिर्णीता एव गर्भाधानादयः प्रधानाष्षोडश जातसंस्काराः । तेष्वपि
इतरथा ब्रह्मचर्यादेव प्रव्रजेत्
इति
ब्रह्मचर्यानन्तरमेवैकान्तविरक्तस्य प्रवृज्याविधानात्, “नासंस्कारो द्विजः" इति व्यतिरेकेणाचार्यकृतद्विजशब्दार्थनिरुक्तश्च गर्भाधानादि उपनयनान्ताः प्रधानतमा द्विजातेरवर्जनीयाश्चेति युक्तमुत्पश्यामः ॥
इति संस्कारनिरूपणम् ॥
-
पश्चादेकोद्दिष्टन्तु महैकोद्दिष्टादनन्तरमेकोद्दिष्टविधानेन क्रियमाणं षोडशमासिकश्राद्धमिति प्रकरणादवगन्तव्यम् । ↩︎