०१ मङ्गलाचरणम्

अथ मङ्गलाचरणम्

योऽसौ कर्ममयो बिभर्ति भुवनं कर्ता स्वयं कर्मणां
भोक्ता कर्मफलोच्चयस्य च पुनर्दाताप्युपाधेर्वशात् ।
वेद्यो वेदवचःप्रमाणशरणैःप्राप्यश्च तैः सत्कियैः
सत्यानन्दचिदात्मकः स भगवान् विश्वेश्वरः पातु नः॥०१॥

मेधां बोधायनो नो वितरतु सहितः षष्ठिसाहस्रशिष्यैः
यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्यशिष्यः।
सूत्रं प्रायुङ्क्तनैकक्रमविधिनिपुणाऽध्वर्युनानाप्रयोग-
व्यक्तिज्ञानोपयुक्तस्फुटमृदुगहनप्रौढसन्दर्भगर्भम्॥०२॥

कल्पामृतं क्षितिसुरप्रकराय योऽदात्
वेदाम्बुराशिमधिमथ्य निजप्रभावात्।
बोधायनाय मुनिवन्दितपादपद्म-
द्वन्द्वाय कण्वतनयाय नमोऽस्तु भूयः॥०३॥