२२ शय्याविधिः

अथ शय्याविधिः

विष्णुः - (७०-१-१७)

आर्द्रपादो न सुप्स्यात् । नोत्तराऽपरशिराः (अपरः- पश्चिमः) न नग्नः । नानुवंशं (अनुवंशं- गृहमूर्धन्यदीर्घकाष्ठम्) नाकाशे (अनावृते देशे) न पलाशे शयने । न पञ्चदारुकृते (पञ्चजातीय दारुकृते)। न गजभग्नकृते । नभिन्ने । नाग्निप्लुष्टे । न घटसिक्तजले । न श्मशानशून्यालयदेवतालयेषु । न चपलमध्ये (चपलोऽत्रव्यसनी) न नारीमध्ये । न धान्यगोगुरुहुताशनसुराणामुपरि । नोच्छिष्टः । न दिवा स्वपेत् । न सन्ध्ययोः । न भस्मनि देशे ।। न चाशुचौ । न चार्द्रे (देश इत्यनुवृत्तिः) । न पर्वतमस्तके ॥

हारीतः -

न सन्धिवेलायां शयीत । नान्यपूर्वे ।। (अन्यपूर्वे- पूर्वोपभुक्ते) नानुवंशास्तीर्णे । नाश्मपीठोपधाने । न तिर्यगुदक्प्रत्यक्शिराः । न नग्नः । नाशुचिः । नासने । नोच्छिष्टः । नोभग्ने । न प्रगे (प्रातः) नोच्चैर्निशायां भाषते । सुप्यात्प्रत्यकशिराः इत्यनुवृत्तौ ॥

शङ्कलिखितौ-

न विशीर्ण खट्वायाम् । नान्यवर्णोपसेवितायामनभ्युक्ष्य । न भूतयक्षग्रहायतनेषु । न श्मशानवृक्षच्छायासु । न पर्वणि रभसोत्सवे वा(पर्वः प्रतिपत्पञ्चदश्योः सन्धिः । रभसोत्सवे - हर्षोत्पादकपुत्रजन्माद्युत्सवे) ॥

[[205]]

॥ अथ प्रक्षालित्पादः शय्यामधिष्ठाय रात्रिसूक्तं जपेत् ।
अथ रात्रिसूक्तम् -

रात्रीव्यख्यदायती पुरुत्रा देव्य अक्षभिः । विश्वा अधिश्रियोऽधित ॥ ओर्वप्रा अमर्त्या निवतो देव्यु १द्वतः । ज्योतिषा बाधते तमः ॥ निरु स्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तमः । सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसतिं वयः ॥ निग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।। नि श्येनासश्चिदर्थिनः ॥ यावया वृक्यं वृकं यवयस्तेनमूर्म्ये । अथा नः सुतरा भव ॥ उपमा पेपिशत्तमः कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥ उप ते गा इवाकरं वृणीष्व दुहितदिवः । रात्रि स्तोमं न जिग्युषे ॥

इति जपित्वा-

सुत्रामाणपृथिवीं घामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसमस्रवन्तीमारुहेमा स्वस्तये ।
अगस्तिर्माधवश्चैव मुचुकुन्दो महामुनिः ॥
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥

इत्येतांश्च स्मृत्वा दक्षिणाशिराः प्राक्शिरा वा शयीत ॥ ब्राह्मे मुहूर्ते पुनरुत्थाय नित्यान्यारभेत ॥ इति शय्याविधिः ॥

  • इति आह्निककाण्डम् *

[[206]]