२१ सायंसन्ध्याप्रयोगः

अथ सायंसन्ध्याप्रयोगः

प्रातःकालवद्भस्मधारणान्तं कृत्वा । आचम्य प्राणानायम्य

ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सायंसन्ध्यामुपासिष्ये ।

इति सङ्कल्प्य आपोहिष्ठा० इत्यादिभिर्मार्जियित्वा हस्ते जलमादाय

ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदन्हा पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु ।। यत्किंच दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा

इत्यभिमन्त्र्य पीत्वा द्विराचम्य

ॐ दधिक्रावुण्णो… रिषत् । आपोहिष्ठा … चनः ।

इति चतुभिर्मार्जयित्वा ‘ॐ भूर्भुवः सुवः’ इत्यात्मानं प्रदक्षिणं परिषिच्य सूर्याभिमुख उपविश्यैवार्घ्यं दद्यात्- ‘भास्कराय नमः इदमर्घ्यं’ इत्यत्र ‘सवित्रे नमः इदमर्घ्यं’ इति वदेत् । अन्यत्सर्वं प्रातःकालवत् । जपं च उपविश्यैव कुर्यात् । तत उत्थाय सूर्यमुपतिष्ठते -

इमं मे वरुण श्रुधीहवमद्या च मृडय । त्वामवस्युराचके ॥ तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशं समान आयुः प्रमोषीः

इति ॥ दिगुपस्थानादिकं प्रातःकालवत् । अनेन सायंसन्ध्योपासनकर्मणा श्रीपरमेश्वरः प्रीयताम् । इति कर्मेश्वराय समर्प्य ‘तद्विष्णोः … राततम्’ इति विष्णुं स्मृत्वा द्विराचामेत् ।
ततः शिशुमारमुपतिष्ठते ॥

[[203]]

॥ अथ शिशुमारोपस्थानं पूर्वोक्त … ‘ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं ध्रुवमण्डले परब्रह्मण उपस्थानं करिष्ये’ इति सङ्कल्प्य -

ॐ भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः प्रपद्ये ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्रपद्येऽमृतकोशं प्रपद्ये चतुर्जालं ब्रह्माकोशं यं मृत्युर्नावपश्यति तं प्रपद्ये देवान् प्रपद्ये देवपुरं प्रपद्ये परीवृतो परीवृतो ब्रह्मणा वर्मणाऽहं तेजसा कश्यपस्य यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तरा हनुर्यज्ञोऽधरा विष्णुर्हृदयं संवत्सरः प्रजननमश्विनौ पूर्वपदावत्रिमध्यं मित्रावरुणावपरपादावग्निः पुच्छस्य प्रथमं काण्डं तत इन्द्रस्ततः प्र॒जाप॑तिरभयं चतुर्थं स वा एष दिव्यः शाक्करः शिशुमारस्तं ह य एवं वेदाप पुनर्मृत्युं जयति जयति स्वर्गं लोकं नाध्वनि प्रमीयते नाग्नौ प्रमीयते नाप्सु प्रमीयते नानपत्यः प्रमीयत लध्वान्नो भवति ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वं भूतानां श्रेष्ठौसि त्वां भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वन्ते नमो नमः शिशुकुमाराय नमः

इति ॥