२० भोजनविधिः

अथ भोजनविधिः (बो० ध० सू०)
अथ शालीनयायावराणामात्मयाजिनां प्राणाहुतीर्व्याख्यास्यामः । सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतमाह्रियमाणं ‘भूर्भुवस्सुवरो’मित्युपस्थाय वाचं यच्छेत् । न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्चन् ‘अमृतोपस्तरणमसि’ इति पुरस्तादपः पीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति-

प्राणो निविष्टोऽमृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहेति

॥ पञ्चान्नेन प्राणाहुतीर्दत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् । नाऽन्तरा वाचं विसृजेद्यदन्तरा वाचं विसृजेत् ‘भूर्भुवस्सुवरोम्’ इति जपित्वा पुनरेव भुञ्जीत । त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याऽद्भिरभ्युक्ष्य भस्माऽवकीर्य पुनरद्भिः प्रोक्ष्य वाचा च प्रशस्तमुपयुञ्जीत । अथाप्युदाहरन्ति -

आसीनः प्राङ्मुखोऽश्रीयाद्वाग्यतोऽन्नमकुत्सयन् । अस्कन्दयंस्तन्मनाश्च भुक्त्वा चाग्निमुपस्पृशेत्

इति ॥ सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर्नावद्येत् । नातिसुहितः । ‘अमृतापिधानमसी’त्युपरिष्टादपः पीत्वाऽऽचान्तो हृदयदेशमभिस्पृशति

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व

इति । पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति –

अङ्गुष्ठमात्रः पुरुषोङ्गुष्ठञ्च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्

इति ।

[[200]]

हुतानुमन्त्रणमूर्ध्वहस्तः समाचरेत् -

श्रद्धायां प्राणे निविश्यामृतं हुतं प्राणमन्नेनाप्यायस्व

इति पञ्च ।

ब्रह्मणि म आत्मामृतत्वायेत्यात्मानम् । अक्षरेण चात्मानं योजयेत् । सर्वक्रतुयाजिनामात्मयाजी विशिष्यते ।

अथाप्युदाहरन्ति -

यथा हि तूलमैषीकमग्नौ प्रोतं प्रदीयते ।
तद्वत्सर्वाणि पापानि दह्यन्ते ह्यात्मयाजिनः ॥
केवलाघो भवति केवलादी ।
मोघमन्नं विन्दते

इति । स एवमेवाहरहः सायंप्रातर्जुयात् । अद्भिर्वा सायम् ।
अथाप्युदाहरन्ति -

अग्रे भोजयेदतिथीनन्तर्वर्त्नीरनन्तरम् ।
बालवृद्धांस्तथा दीनान्व्याधितांश्च विशेषतः॥
अदत्वा तु य एतेभ्यः पूर्वं भुङ्ते यथाविधि ।
भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥
पितृदेवतभृत्यानां मातापित्रोर्गुरोस्तथा ।
वाग्यतो विघसमश्नीयादेवं धर्मो विधीयते

इति ॥
अथाप्युदाहरन्ति -

अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥
आहिताग्निरनंगाश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम्

इति ॥

गृहस्थो ब्रह्मचारी वा यो नाश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥

अन्यत्र प्रायश्चित्तात्प्रायश्चित्ते तदेव विधानम् ।
अथाप्युदाहरन्ति -

अन्तरा प्रातराशश्च सायमाशं तथैव च ।
सदोपवासी भवति यो न भुङ्ते कदाचन ॥
प्राणाग्निहोत्रमन्त्रांस्तु निरुद्धे भोजने जपेत् ।
त्रेताग्निहोत्रमन्त्रांस्तु द्रव्यालाभे यथा जपेत्

इति ॥ एवमेवाचरन्ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पते इति ॥

भोजनप्रयोगः

[[201]]

अथ भोजनप्रयोगः प्रक्षालितपाणिपादो द्विराचम्य शुचौ संवृते देशे चतुरश्रमण्डले प्रक्षालितं भोजनपात्रं निधाय । प्राङ्मुख उपविश्य परिविष्टमन्नं ‘ॐ भूर्भुवः सुवरों’ इत्युपस्थाय ‘ॐ तत्सवितुः० प्रचोदयात्’ इति प्रोक्ष्य ‘सत्यं त्वर्तेन परिषिञ्चामि’ इति प्रदक्षिणं परिषिच्य

ॐ चित्राय स्वाहा । ॐ चित्रगुप्ताय स्वाहा । ॐ यमाय स्वाहा । ॐ यमधर्मराजाय स्वाहा ।

इति दक्षिणतो भूमौ दण्डाकारेण बलिचतुष्टयं दत्वा तेषु

ॐ चित्राय नमः तृप्तिरस्तु । ॐ चित्रगुप्ताय नमः तृप्तिरस्तु । ॐ यमाय नमः तृप्तिरस्तु । ॐ यमधर्मराजाय नमः तृप्तिरस्तु ।

इति जलं दत्वा

अन्तश्चरति भूतेषु गुहायां विश्वतो मुखः । त्वं यज्ञस्त्वं वषटकारस्त्वं विष्णुः पुरुषः परः

इत्यन्नमभिमन्त्र्य वाचं यमो दक्षिणेन पाणिना जलमादाय सव्येन पात्रमविमुञ्चन् ‘ॐ अमृतोपस्तरणमसि स्वाहा’ इति प्राश्य सघृतेनान्नेन

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा

इति षडाहुतीर्मुखे हुत्वा षष्ठ मन्त्रानुसन्धानपूर्वकं यथात्महितं भुञ्जीत । भोजनान्ते ‘अमृतापिधानमसि स्वाहा’ इति पुनर्जलं प्राश्य द्वादशगण्डूषैर्मुखशुद्धिं कृत्वा हस्तपादं प्रक्षाल्य द्विराचामेत् ॥ ततो हृदयदेशमभिस्पृशति-

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेनाप्यायस्व

इति । पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति -

अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः ।। ईशः सर्वस्य जगतः प्रभुः प्रोणाति विश्वभुक्

इति । भुक्तमन्नमूर्ध्वहस्तोऽभिमन्त्रयति -

श्रद्धायां प्राणे निर्विश्यामृतंहुतम् । प्राणमन्नैनाप्यायस्व ॥ श्रद्धायामपाने निविश्यामृतं हुतम् । अपानमन्नैनाप्यायस्व ॥ श्रृद्धायो व्याने निविश्यामृतं हुतम् ।। व्यानमन्नेनाप्यायस्व ॥ श्रृद्धामुदाने निविश्यामृतं हुतम् । उदानमन्नेनाप्यायस्व ॥ श्रृद्धायां समाने निविश्यामृतं हुतम् । समानमन्नेनाप्यायस्व ॥

ततो- ‘ब्रह्मणिम आत्मामृतत्वार्य’ इत्यात्मानम् । ‘वाङ्म आसन्’ इति मुखम् । ‘नसोः प्राणः’ इति नासिके । ‘अक्ष्योश्चक्षुः’ इति चक्षुषी । ‘कर्णयोः श्रोत्रम्’ इति श्रोत्रे । ‘बाहुदोर्बलम्’ इति बाहू । ‘ऊरुवोरोजः’ इति ऊरू । ‘अरिष्टा विश्वान्यङ्गानि तनूः’ इति सर्वाङ्गानि । ततः प्रार्थयति- ‘तनु वा मे सह नमस्ते अस्तु मा माहिं सी’ इति ।

[[202]]

ततो जपति- ‘वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मु मुग्ध्यस्मान्निधयेऽवबद्धान् ॥ नमो रुद्राय विष्णवे मृत्युर्मे पाहि’ इति ॥ इति भोजनप्रयोगः ॥

सायम्

भोजनविधौ च - परिषेचने ‘सत्यंत्वर्तेन’ इत्यत्र ‘ऋतन्त्वा सत्येन परिषिञ्चामि’ इति विशेषः । अन्यत्सर्वं दिवाभोजनवत् ॥