१९ त्रिसुपर्णविधिः

अथ त्रिसुपर्णविधिः

ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवः सहस्रपर्यन्तं पङ्क्तिपुनानास्त्रिसुपर्णमंत्रा भोजनात्प्राक्पठनीयाः इति भाष्ये ॥

त्रिसुपर्णमन्त्राः

अथ त्रिसुपर्णमन्त्राः ॥

ॐ ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् । यास्ते सोम प्रजावत्सोभिसो अहम् ।। दुःष्स्वप्नहं दुरुष्वह । यास्ते सोम प्राणास्ताञ्जुहोमि । त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नंन्ति ।। ये ब्राह्मणात्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ सहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥१॥

ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधुमेधया । अद्यानौ देव सवितः प्रजावत्सा वीः सौभगम् । परा दुष्वप्नियं सुव । विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्म आसुव । मधु वाता॰ षधीः ॥ मधु नक्तमुतोषसि॰ नः पिता ॥ मधुमानो० भवन्तु नः ॥ य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा ए॒ते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति ।आ सहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥२॥

ब्रह्ममेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा । ब्रह्मा देवानां पदवीः कवीनामृषिविप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वर्धितिर्वानानां सोमः पवित्रमत्येति रेभन् ॥ हंसः शुचिषद्वसुरन्तरिक्ष सद्धोता वेदिषदतिथिदुरोणसत् । नुषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतुजा अद्रिजा ऋतं बृहत् ॥ ऋचे त्वा रुचे त्या समित्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभिचाकशीमि । हिरण्ययो वेतसो । मध्य आसाम् । तस्मिन्सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधु देवताभ्यः । तस्यासते हरयः सप्ततीरै स्वधां दुहाना अमृतस्य धाराम् । य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥३॥

इति त्रिसुपर्णमन्त्राः ॥

[[199]]