१८ गोग्रासप्रयोगः

अथ गोग्रासप्रयोगः

आगावो अग्मन्नुत भद्रमक्रन् । सीदन्तु गोष्ठे रणयन्त्व॒स्मे ॥ प्रजावतीः पुरुरूपा इहस्युः । इन्द्राय पूर्वीरुषसो दुहानाः ॥

श्री गोदेव्यै नमः इति गन्धादिभिरभ्यर्च्य ॥

सौरभेय्यः सर्वहिताः सर्वपापप्रणाशनाः ।
प्रतिगृहन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥

श्री गोदेव्यै नमः ग्रासं समर्पयामि ॥

इति ग्रासं दत्वा प्रणम्य

गावो मे पुरतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम्।।

इति प्रार्थयेत् ।। इति गोग्रासविधिः ॥

[[198]]