१७ वैश्वदेवविधिः

अथ वैश्वदेवविधिः
अथ बलिहरणम् (बो॰ गृ॰ सूत्रे २-८-१)

सायंप्रातर्यदशनीयस्य क्रियेतौपासने पचने वा होमः । एतावदेव नाना । क्षारलवणावरान्नसंसृष्टस्य तु होमं परिचक्षते । काममितरेष्वायतनेषु । अथ यद्येतदेव स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात् । सर्वेष्वायतनेषु पाणिना परिसमूह्योभयतः परिषेकं निदध्यात् । देशाभ्यासे मन्त्राभ्यासः कामं समानस्थानेषु ॥

वैश्वदेवहोमः

अथ वैश्वदेवहोमः ॥
औपासनैकदेशाग्निं लौकिकाग्निं वा

ॐ भूर्भुवःसुवरोम् । आवसथ्यनामानमग्निं प्रतिष्ठापयामि ।।

इत्यग्निं प्रतिष्ठाप्य प्रबोध्य, आचम्य प्राणानायम्य

मम 1 पञ्चसूनादोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवहोमं करिष्ये

इति सङ्कल्प्य

[[183]]

‘जुष्टोदना…भोजनानि’ इत्युपस्थाय, परिसमूह्य पर्युश्य परिस्तीर्य, ‘जुषस्वनः’ इत्याद्यन्यभ्यर्चनान्तं कृत्वा हस्तेनावग्राहशो हविरादाय जुहोति -

ॐ अग्नये स्वाहा (अग्नय इदं नममेत्यादि यथालिङ्गमुद्देशत्यागः) ॐसोमाय॰ । ॐ ध्रुवाय॰ ।ॐ ध्रुवाय भूमाय॰ । ॐ ध्रुवक्षितये॰ । ॐ अच्युतक्षितये॰ । ॐ ईशानाय॰ । ॐ जयन्तायु॰ । ॐ धर्माय॰ । ॐ धर्मरुचये॰ । ॐ धन्वन्तग्ये॰ । ॐ विद्यायै॰ । ॐ अम्बिकायै॰ । ॐ हरये॰ । ॐ गणेभ्यः॰ । ॐ गणपतिभ्यः॰ । ॐ परिषद्भयः॰ । ॐ विश्वभ्यो देवेभ्यः॰ । ॐ साध्येभ्यो देवेभ्यः॰ । ॐ सर्वेभ्यो देवेभ्यः॰ । ॐ सर्वाभ्यो देवता॑भ्यः॰ । ॐ भूः स्वाहा अग्नय इदम्॰ । ॐ भुवः स्वाहा वायव इदम्॰ । ओं सुवः स्वाहा सूर्याय इदम्॰ । ॐ भूर्भुवः सुवः स्वाहा प्रजापतय इदम्॰ ॥ ॐ अग्नये स्विष्टकृते स्वाहा, इत्युत्तरार्धपूर्वार्धे अग्नये स्विष्टकृत इदम्॰

॥ इति ॥
अथाग्नेः पश्चाद्भूमौ चतुरश्रमण्डलं विलिख्य प्रागादिचतुर्दिक्षु क्रमेण चतुरो बलीन्दद्यात् -

ॐ धर्माय स्वाहा । ॐ अधर्माय॰ । ॐ कद्रुवे नागमात्रे॰ । ॐ सर्पेभ्यः॰ ।

इति ॥
अथ तत्रैवेशानमारभ्य प्रदक्षिणाकारेणैकविंशतिं —

ॐ अचलायै देव्यै स्वाहा । ॐ वास्तुपाल्यै सर्गणायै॰ । ॐ अद्भ्यः॰ । ॐ वरुणाय॰ । ॐ प्र॒जाप॑तये॰ । ॐ परमेष्ठिने॰ । ॐ ऋषभाय॰ ।ॐ रुद्राय॰ । ॐ रुद्राण्यै॰ । ॐ ओषधिवनस्पतिभ्यः॰ । ॐ रक्षोदेवजनेभ्यः॰ । ॐ कामाय॰ । ॐ भगाय॰ । ॐ श्रियै॰ । ॐ विष्णवे॰ । ॐ गृहाय॰ । ॐ गृहराजाय॰ । ॐ धनधान्याभ्यां स्वा॰ । ॐ वैश्रवणाय॰ । ॐ श्रियै॰ । ॐ पुष्टयै॰

इति ॥ पुनरीशानादिपूर्ववत्पञ्चदश –

ॐ उलूखलमुसलाभ्यां स्वा॰ । ॐ दृषदुपलाभ्या॰ ।ॐ समूहन्यै देव्यै॰ । ॐ गृहाभ्यः॰ । ॐ अवसानेभ्यः॰ । ॐ अवसानपतिभ्यः॰ । ॐ सर्पदेवजनेभ्यः॰ । ॐ सर्वभूतेभ्यः॰ । ॐ अन्तरिक्षाय॰ । ॐ अवान्तरिक्षाय॰ । ॐ धात्रे॰ । ॐ विधात्रे॰ । ॐ भूत्यै॰ । ॐ प्रभूत्यै॰ । ॐ यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं नाम्ने॰

इति ॥

[[184]]

अथ मण्डलमध्ये प्रागपवर्गाश्चतुत्रिंशत् -

ॐ ज्येष्ठाभ्यां स्वाहा ।
ॐ करस्कराभ्यां॰ ।
ॐ श्रियै॰ ।
ॐ विष्णवे॰ ।
ॐ रुद्राय॰ ।
ॐ पशुभ्य॰ । ॐ पशुपतये॰ ।
ॐ वास्तोष्पतये॰ ।
ॐ पृथिव्यै॰ ।
ॐ अन्तरिक्षाय॰ ।
ॐ दिवे॰ ।
ॐ सूर्याय॰ ।
ॐ चन्द्रमसे॰ ।
ॐ नक्षत्रेभ्यः॰ ।
ॐ अद्भ्यः॰ ।
ॐ ओषधीभ्यः॰ ।
ॐ वनस्पतिभ्यः॰ ।
ॐ चराचरेभ्यः॰ ।
ॐ परिप्लवेभ्यः॰ ।
ॐ सरीसृपेभ्यः॰ ।
ॐ देशेभ्यः॰ ।
ॐ कालेभ्यः॰ ।
ॐ लोकेभ्यः॰ ।
ॐ वेदेभ्यः॰ ।
ॐ देवेभ्यः॰ ।
ॐ ऋषिभ्यः॰ ।
ॐ वसुभ्यः॰ ।
ॐ रुद्रेभ्यः॰ ।
ॐ आदित्येभ्यः॰ ।
ॐ इन्द्राय॰ ।
ॐ बृहस्पतये॰ ।
ॐ प्रजापतये॰ ।
ॐ ब्रह्मणे॰ ।
ॐ आयतनवते॰

इति ॥
अथ दक्षिणतः प्राचीनावीती

ॐ पितृभ्यः स्वधा नमः स्वाहा ।
ॐ पितामहेभ्यः स्वधा नमः॰ ।
ॐ प्रपितामहेभ्यः स्वधा नमः॰ ।
मातृभ्यः स्वधा॰ ॥
पितामहीभ्यः स्वधा॰ ॥
प्रपितामहीभ्यः स्वधा॰ ॥
मातामहेभ्यः स्वधा॰ ॥
मातापितामहेभ्यः स्वधा॰ ॥
मातुःप्रपितामहेभ्यः स्वधा॰ ॥
मातामहीभ्यः स्वधा॰ ॥
मातुःपितामहीभ्यः स्वधा॰ ॥
मातुःप्रपितामहीभ्यः स्वधा॰

इति॥ अथाप उपस्पृश्योत्तरतो यज्ञोपवीती -

ॐ नमो रुद्राय पशुपतये स्वाहा

इति ॥
अथ दिक्षु -

ॐ प्राच्यै दिशे स्वाहा ॥ ॐ दक्षिणायै दिशे॰ ।
ॐ प्रतीच्यै दिशे॰ ।
ॐ उदीच्यै दिशे॰ ।
ॐ ऊर्ध्वायै दिशे॰ ।
ॐ अधरायै दिशे॰

इति ॥

[[185]]

अथावान्तरदिक्षु -

ॐ अग्नये स्वाहा । ॐ निर्ऋतये॰ । ॐ वायवे॰ । ॐ ईशानाय॰

इति बलिं दत्वा

ॐ बलिहरण देवताभ्यो नमः जलगन्धाद्युपचारपूजां समर्पयामि

इति सम्पूज्य, आकाशे बलिमुत्क्षिपति -

ॐ ये भूताः प्रचरन्ति दिवाबलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा

इति ॥ (रात्रौ चेद्दिवा स्थाने ‘नक्तं’ उभयोस्तन्त्रैक्ये ‘दिवा नक्तं’ इति च योजयत्) भूतेभ्यश्च दत्वा, सङ्क्षालनं प्रागुदीच्यां दिशि निनयति -

ॐ नमो रुद्राय भौमाय स्वाहा

इति ॥ पुनः ‘जुषस्वनः॰ । अदितेन्वमं स्थाः॰’ इत्यग्निं परिषिच्य ‘यत्ते अग्ने॰’ इत्युपस्थाय, प्रणम्य,

अनेन वैश्वदेवहवनकर्मणा श्रीपरमेश्वरः प्रीयताम्

इति कर्म समापयेत् ॥ इति वैश्वदेवविधिः ॥

पञ्चमहायज्ञविधिः

__ अथ पञ्चमहायज्ञविधिः
अत्रेयं श्रुतिः (तै॰ आ॰ २-१॰)-

पञ्च वा एते महायज्ञाः संतति प्रायन्ते सतति सन्तिष्ठन्ते देवयक्षः पितृयज्ञो भूत | यज्ञो मनुष्ययशो ब्रह्मयज्ञ इति यद॒ग्नौ जुहोत्यपि समिधं तद्देवय॒नः सन्तिष्ठते यत्पितृभ्यः स्वधाकरोत्यप्यपस्तपितृयज्ञः सन्तिष्ठते यद्भुतेभ्यो बलिरहरति त तयशः सन्तिष्ठते यद्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययशः सन्तिष्ठते यत्स्वाध्यायमधीयीकामप्यूचं यजुःसाम घा तब्रह्मयशः सन्तिष्ठते

इति ॥

(तै॰ आ॰ २-११)

ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्या दिशि ग्रामाद दिर्दर्श उदीच्या | प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्तावनिय त्रिरामिद्भिः परिमृज्यं सकृदुपस्पृश्य शिरश्चक्षुषी नासि के श्रोत्रे हदयमालभ्य…दर्भाणां महदुपस्तीर्योपस्थ कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष औषधीनारसो यह ः सरसमेव ब्रह्मकुरुते दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यते…भूर्भुवःस्वरित्याहै तद्वै वाचः सत्यं यदेव वाचः सत्यं तत्मायुतार्थ सावित्री गायत्री त्रिरम्वाह पच्छोऽर्धशोऽनवान सविता श्रियः प्रसविता श्रियमेवाऽऽप्नोत्यथोप्रक्षातयैव प्रति पदा छन्दांसि प्रतिपद्यते

इति ॥

[[186]]

(बो॰ गृ॰ सू॰ २-९)-

अथ वैश्वदेवं हुत्वाऽतिथिमाकाझेदागोर्दोहकालम् । अनं चोद्धृत्य दद्यात् । विज्ञायते - ‘यशो वा एष पञ्चमो यदतिथिः । जघनेन गार्हपत्यमुपविश्यौपासनस्य वा ‘अधीहि भो’ इति गार्हपत्यमुक्त्वा प्राणायामैत्रिरायम्य सावित्री सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशवारम् । वेदादयश्छन्दांसि, कूष्माण्डानि चाधीयीत 2

‘अग्निमीळे पुरोहितं’ इति ऋग्वेदस्य, ‘इषे त्वोर्जेत्वा’ इति यजुर्वेदस्य, ‘अग्न आयाहि वीतये’ इति सामवेदस्य, ‘शन्नो देवीरभिष्टय’ इत्यथर्ववेदस्य, ‘अग्निर्मूर्धा’ इति छन्दांसि, ‘यद्देवा देवहेळनं’ इति कूष्माण्ड्यः । यदधीते स ब्रह्मयज्ञो, यज्जुहोति स देवयज्ञो, यत्पिलभ्यः स्वधाकरोति स पित्यज्ञो, यद्भूतेभ्यो बलिं हरति स भूतयज्ञो, यद्राह्मणेभ्योऽनं ददाति स मनुष्यज्ञ इति ॥ एते पञ्च महायज्ञाः सततं सुप्रयुक्ता नयन्ति परमां गतिम् ॥

प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते ।
पञ्चानां महतामेषां स यज्ञैः सह गच्छति ॥
प्रवासे कुरुते चैनान्यदन्नमुपपद्यते ।
न चेदुत्पद्यते चान्नमद्भिरेनान्समापयेत् ॥
अद्भिरेव व्रतं कुर्याद्यथालाभमनुवतम् ।
देवानां देवयज्ञेन द्विजा गच्छन्ति साम्यताम् ॥
पितॄणां पिठ्यशेन भूतयज्ञ न भूतिनः ।
मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः ॥
एतासां साम्यतां गत्वा देवतानां शतं समाः ।
आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययम्॥

इति ॥ अथास्मा अतिथिर्भवति गुरोः समानवृत्तिवैखानसो वानप्रस्थः परिव्राजको गतश्रीः [‘त्रयो वै गतश्रियः शुश्रुवान्यामणी राजन्यः’ इति (तै॰ सं॰ २-५-६)]

स्नातको राजा वा धर्मयुक्तः । तेषामभ्युत्थायासनं पाद्यमर्हणमर्घ्यं प्रयुञ्जीत । यास्तत्रोषधयः सन्ति ता देयाः । अन्यां यां प्रक्रियां प्रकुर्वीत । सर्वेभ्योऽभ्यागतेभ्य आश्वचण्डालेभ्यः स्वागतं कार्यम् । ओषधिविभागस्तु विभववता कार्यः । अभावे भूमिरुदकं तृणानि कल्याणी वागिति ॥ एतानि वै सतोऽगारे न क्षीयन्ते कदा च न

इति तानेतान्परब्रह्मेत्याचक्षते ॥१
(बो॰ ५॰ सू॰ २-४-४) अथ गृहस्य वैश्वदेवं कृत्वाऽनं दत्वा कालयोर्भोजनं मानुषम् ॥

(बो॰ ५॰ सू॰ २-४-८)-

पञ्च महायज्ञाः - देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । देवयशः स्वाहाकार आकाष्ठात् । पितृयज्ञः स्वधाकार औदनपात्रात् । भूतयज्ञो नमस्कार आपुष्पेभ्यः । मनुष्ययज्ञो दानमामूलफलशाकेभ्यः । ब्रह्मयज्ञ ओङ्कार आव्याहृतिभ्यः । अथास्यातिथयोऽभ्यागता वर्णाश्रमा आनृशंसा अभ्युत्थेया अर्ध्या अर्चनीया आभ्यन्तरा रहस्या विश्वास्याश्च भवन्ति । श्रान्तोऽ दृष्टपूर्वोऽश्रुतः केवलमन्नार्थी नान्यत्प्रयोजनो य एति सोऽतिथिर्भवति । अपि वा सर्ववर्णानामन्यतमः काले यथोपपन्नः सर्वेषा । मतिथीनां श्रेष्ठतमोऽतिथिर्भवति । श्वश्रूश्वशुरयोनिसम्बन्धाः स्नेहबन्धमभिभाषमाणा भूयो भूयोऽभ्यागच्छेरन् तथा प्रेषणिकाश्चाभ्यागता भवन्ति । सखा सहाधीतिः सहाध्वनीनो ब्राह्मणक्षत्रियवैश्यरथकाराः सगृहाः साग्निहोत्रिका अनस्विनो रथिनश्चा । तिथयो भवन्ति । तेषामन्तराले विपतीः कृत्वा सर्वान्कामानुपहरेत्सानड्वाहपशून् ।
विज्ञायते – तस्मादनस्वी च रथी चाति । थीनामपचिततमावपचितिमान्भवति य एवं वेद इति ब्राह्मणम् ॥ ॥ यदि ब्राह्मणः क्षत्रियश्च समेत्यायातां ब्राह्मणोऽतिथिः क्षत्रिये सान्त्वम् । अथ यदि क्षत्रियो वैश्यश्च समेत्यायातां क्षत्रियोऽतिथिर्वैश्ये सान्त्वम् । अथ यदि वैश्यः शूद्रश्च समेत्या यातां वैश्योऽतिथिः शूदे सान्त्वम् ! अथ यदि शूदमभ्यागतं कर्मणि नियुज्यात् । अथ यदि ब्रह्मचारी मातापित्रोराचार्यार्थ वाऽध्वनि वर्तमानो गृहमागच्छेन्नैनं प्रत्युत्तिरोत्स्वागतमित्युक्त्वाऽऽसनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत । कपालमस्मै दद्यात् ‘नियममेवोपतिष्ठस्व’ इति । उपावृत्ताय भैक्ष्यमिति ब्रुवते गृहादेवान्नं भैक्ष्यमित्युपहरेत्स तस्योपचारः ।

[[188]]

अथ यदि वानप्रस्थमभ्यागतं स्वागतमित्युलाऽभ्युत्थायासनं पादशौचं दत्वा कुशलमभिभाष्योपासीत । विदित्वा चरणं कन्दमूलफलशाकान्यारण्या | श्वौषधय इत्युपहरेत्स तस्योपचारः । अथ यदि यतिमागतं स्वागतमित्युक्त्वाऽभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्यो पासीत । नैनं पूर्वमुपामन्त्रयेन्न चास्मै प्रक्रियां प्रकुर्वीत । काले त्वन्नं भैक्ष्यमित्युपहरेत्स तस्योपचारः । यद्यर्थी वसत्याशय्या देशमुपकल्प्य काले ज्योतिष्करणं नोपस्तरणमेके ब्रुवते दद्याद्वा । वालानां वृद्धानां स्त्रीणां तु विभ्रष्टानां गूढचरितविकृतवेषाणा मपि वा श्वचण्डालादीनामानृशंस्यवत्सं विभागो विहितः । मत्त उन्मत्त आर्तो भीतो राजा चोरश्चेति सम्भ्रमेणाभ्युत्थेयाः । आचार्य ऋत्विपिता मातुलः श्वशुरो वेदविद्राह्मणः क्षत्रियोऽभिषिक्तः सहस्रप्रदो वैश्यो राजपुरोहितश्चेत्याही भवन्ति । पितृज्येष्ठक नोयसामुपाध्यायपुत्रस्त्रिमधुस्त्रिगाचिकेतस्त्रिसुर्पणः पञ्चाग्निष्पडङ्गविच्छोर्षको ज्येष्ठसामिकोऽथवाङ्गिरसोऽध्येतारः स्नातका इत्येते सवाहनस्नापनशय्यालङ्कारविभूषणाच्छादनैरर्चनीया भवन्ति । यदि बहवोऽतिथयोऽभ्यागच्छरन्तत्राऽपि विद्वद्धकृशबालाश्चा र्चनीया भवन्ति । अथ यद्यतिथिरार्तो व्याधितो वा यठ्यादिदं मे क्रियतामित्यविद्यमानोऽन्यां प्रक्रियां प्रकुर्वीत । यद्याप्रयाणेष्टिपशुचातुर्मास्याध्वराणामुद्यतां दक्षिणां नोत्सृजेत्तां तस्मै दद्यात् ‘अतिथिः सर्वयज्ञक्रतुसम्मित’ इति विज्ञायते । अथ यद्य तिथिरभ्यागतो वा यस्य गृहे नाश्नीयात्तस्मै सर्वा देवता अवरुद्धा भवन्ति तस्मात्सदारः सापत्योऽभ्युत्थानं पाद्यमहणमर्थ्य वा प्रयच्छेत यास्तत्रौषधयस्ता उपहरेत् । य एतेन विधिनाऽतिथीनियच्छति यश्चैतेन विधिनाऽतिथीपूजयति नैनं मृत्युरभिभवति । नार्तिरिष्टिर्नावृत्तिर्न जरा न शोको यश्चैवं वेद यश्चेवं वेद ॥

[[189]]

॥ (बो॰ ध॰ सू॰ २-६)

अथेमे पञ्चमहायज्ञास्तान्येव महासत्राणि देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । अहरहस्स्वाहा कुर्यादाकाष्ठात्तथैतं देवयज्ञं समाप्नोति । अहरहस्स्वधा कुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोति । अहरहर्नमस्कुर्यादापुष्पेभ्यस्तथैतं भूतयज्ञं समाप्नोति । अहरर्ब्राह्मणेभ्योऽन्नं दद्यादामूलफलशाखेभ्यस्तथैतं मनुष्ययज्ञं समाप्नोति । अहरहस्स्वाध्यायं कुर्यादाप्रणवात्तथैतं ब्रह्मयज्ञं समाप्नोति । स्वाध्यायो वै ब्रह्मयज्ञः । तस्य ह वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृञ्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं यावन्तं ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति भूयांसं चाक्षय्यं चाऽप पुनर्मृत्युं जयति य एवं विद्वान्त्स्वाध्यायमधीते । तस्मा’त्स्वाध्यायोऽध्येतव्य’

इति हि ब्राह्मणम् ॥

॥ ‘अतिथिलक्षणम्’ यमः -

तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
सोऽतिथिः सर्वभूतानां शेषानभ्यागतान्विदुः ॥
व्रती यतिरेकरात्रं निवसन्नुच्यतेऽतिथिः ।
यस्मान्नित्यं न वसति तस्मात्तमतिथिं विदुः

इति ॥ तथैवाहतुः पराशरशातातपौ –

अचिन्तितमनाहूतं देशकाल उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥
क्षुधार्तस्तृषितः श्रान्तो दूरादध्वन आगतः ।
तं पूजयेत्प्रयत्नेन सोऽतिथिः स्वर्गसङ्क्रमः

इति ॥ ॥ विशेषमाहतुः शङ्खलिखितो –

‘नाब्राह्मणोऽतिथिब्रह्मणस्य’ इति ॥

पञ्चमहायज्ञप्रयोगः

अथ पञ्चमहायज्ञप्रयोगः ॥ वैश्वदेवबलिहरणानन्तरं अतिथिमाकाङ्क्षेदागोर्दोहनकालम् । आगतमतिथिं भोजयित्वाऽग्रं वोद्धृत्य दद्यात् । अथ प्रक्षालितपाणिपादोऽप आचम्याग्नेः पश्चाद्दर्भेष्वासीनो दर्भान्धारयमाणस्त्रीन्प्राणानायम्य सावित्रीं सहस्र कृत्व आवर्तयेच्छतकृत्वो दशवारं वा ॥
॥ अथ वेदादीञ्च्छन्दांसि कूष्माण्डानि चाधीयीत ॥

[[190]]।

ॐ अग्निमीळे पुरोहितं य॒ज्ञस्य॑ देवमृत्त्विजम् । होतारं रत्नधातमम् ॥

(इति ऋग्वेदस्य) ॥

इषे त्वोर्जेत्वा वायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्नियादेवभागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मामावस्तेन ईश तमाघशंसो रुद्रस्य हेतिः परीवो वृणक्तुध्रुवा अस्मिन्गोपतो स्यात बह्वीर्यजमानस्य पुशून्पाहि ॥ यक्षस्य घोषदसि प्रत्युष्टंरक्षः प्रत्युष्टा अरातयः प्रेयमगाद्धिषणा बर्हिरच्छमनुना कृता स्वधया वितष्टात आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बहिरासदे देवानां परिषूतमसि वर्षवृद्धमसि देवबर्हिमात्वान्वमातिर्यक्पर्वते राध्यासमाच्छेत्तातेमारिपन्देवबर्हिःशतवल्शं विरोह सहस्रवल्शा वियरुंहेम पृथिव्याः सम्पृचः पाहि सुसम्भृता त्वा सम्भराम्यदित्यै रास्नामिन्द्राण्यै सन्नहनं पूषा ते ग्रन्थिं ग्रंथ्नातु स ते मास्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छेर्बृहस्पतेर्मूर्ध्ना हराम्युर्वन्तरिक्षमन्विहि देवङ्गममसि ॥ शुन्धध्वं दैव्याय कर्मणे देवयज्यायै मातरिश्चनो धर्मोऽसि द्यौरसि पृथिव्यसि विश्वाधाया असि परमेण धाम्ना दृंहस्व मा ह्वार्वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं हुतस्तोको हुतो द्रुप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्यांसा विश्वायुस्सा विश्वव्यचास्सा विश्वकर्मा सम्पृच्यध्वमृतावरीमिणीर्मधुमत्तमा मन्द्राधनस्य सातये सोमेन त्वाऽऽतनच्मीन्द्राय दधिविष्णो हव्यंरक्षस्व ॥

(इति यजुर्वेदस्य)॥

अग्न आयाहि वीतये गृणानो हव्यदातये । निहोतासत्सि बर्हिरषि ॥

(इति सामवेदस्य)॥

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥

(इत्यथर्ववेदस्य) ॥

[[191]]

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥ त्वाम॑ग्ने पुष्करादध्यथर्वानिरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ अयमग्निः सहस्रिणो वाज॑स्य शतिनस्पतिः । मूर्धाकवी रयीणाम् ॥ भुवो य॒ज्ञस्य रजसश्च नेता यत्रानियुद्भिः सचसे शिवाभिः । दिवि मुर्धानं दधिषे सुवर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्रव॒यामुज्जिहानाः प्रभानवः सिस्रते नाकमच्छ ॥ अवोचाम कवये मेध्याय वचो बन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुर्व्यञ्च मश्रेत् ॥ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्य॑से । घृतप्रतीको बृहृता दिविस्पृशा द्युमद्विभाति भरतेभ्य शुचिः ॥ त्वामग्ने अङ्गिरसो गुहाहितमन्वविन्दन्छिश्रियाणं वने वने । स जायसे मथ्यमानः सहोम हत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथं सबर्हिषि सीदन्निहोता यजथाय सुक्रतुः ॥ त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ॥ शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥ सायः सं वः सम्यञ्चमिषं स्तोमश्चाग्नये । बर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इडस्पदे समिध्यसे स नो वसन्याभर ॥ एना वो अग्निं नमसर्जो न पातमाहुवे । प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥ स योजते अरुषो विश्वभोजसा स दुद्रव॒त्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देव राधो जनानाम् ॥ उदस्य शोचिरस्थादाजुह्वानस्य मोदुषः । उद्धूमासो अरुषासो दिविस्पृशः साग्निभिन्धते नरः ॥ अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥ स इधानो वसुष्कविरग्निरीडेन्यो गिरा ॥ रेवदस्मभ्यं पुर्वणीक दीदिह । क्षपो राजन्नुतत्मनाऽग्ने वस्तोरुतोषसः । स तिग्मजंभरक्षसो दह प्रति ॥ आ ते अग्न इधीमहि द्युमन्तं देवाऽजरम् । यद्ध स्याते पनीयसो समिद्दीदयाति द्यवोषंस्तोतृभ्य आभर ॥ आते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं॰ ॥ उभे सुश्चन्द्र सर्पिषो दर्वाश्रोणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं॰ ॥ अग्ने तमद्याश्वं न स्तोमैः क्रतुन्न भद्रं हृदि स्पृशम् । ऋध्यामात ओहैः ॥ अधाह्यग्ने क्रतोर्भद्रस्य दक्षस्यसाधोः । रथीव॒तस्य॑ बृहतो बभूथ ॥ आभिष्टे अद्य गीर्भिगृणन्तोऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः ॥ एभिनौ अर्कैर्भवा नो अर्वाङ् सुवर्न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥ अग्निं होतारं मन्ये दास्वन्तं वसौः सूनुं सहसो जातवेदसम् विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्र शोचिष आजुह्वानस्य सर्पिषः ॥ अग्ने त्वन्नो अन्तमः । उत त्राता शिवो भव वरूथ्यः ॥ तन्त्वा शोचिष्ठ दीदिवः । सुम्नाय नून मीमहे सखिभ्यः ॥ वसुरग्निर्वसुश्रवाः । अच्छानक्षि द्युमत्तमो रयिं दाः ॥ इति छन्दांसि ॥ ‘यद्देवा देव हेळनं’ इति कूष्माण्डमन्त्राः ॥ ॐ नमो ब्रह्मणे॰ इति त्रिरनूच्याप उपस्पृशेत् ॥

[[192]]

देवयज्ञः

अथ देवयज्ञः - पूर्वोक्त॰ देवयज्ञेन यक्ष्ये - इति सङ्कल्प्य

ॐ विद्युदसि विद्यमे पाप्मानमृतात्स॒त्यमुपैमि

इत्यपः स्पृष्ट्वाऽग्निं परिषिच्य ‘ॐ देवेभ्यः स्वाहा’ इत्यन्नं समिधं वा हुत्वा पुनः परिषिच्य

वृष्टिरसि वृश्चमे पाप्मानमृतात्सत्यमुपागाम्

इत्यपः स्पृशेत् । इति देवयज्ञः ॥

पितृयज्ञः

अथ पितृयज्ञः- पूर्वोक्त॰ पितृयज्ञेन यक्ष्ये - इति सङ्कल्प्य ‘विद्युदसि’ इत्यपः स्पृष्ठा प्राचीनावीती अग्नेर्दक्षिणतोऽपसव्यं परिषिच्य दक्षिणाग्रेषु दर्भेषु ‘पितृभ्यः स्वधास्तु’ पिण्डमपो वा दत्वा पुनः परिषिच्य यज्ञोपवीती ‘वृष्टिरसि’ इत्यपः स्पृशेत् ॥ इति पितृयज्ञः ॥

[[193]]

भूतयज्ञः

अथ भूतयज्ञः- पूर्वोक्त॰ भूतयज्ञेन यक्ष्ये इति सङ्कल्प्य ‘विद्युदसि’ इत्यपः स्पृष्ट्वाऽग्नेरुत्तरतः परिषिच्य दर्भेषु ‘भूतेभ्यो नमः’ इत्यन्नं फलं पुष्पं वा दत्वा पुनः परिषिच्य ‘वृष्टिरसि’ इत्यपः स्पृशेत् ॥ इति भूतयज्ञः ॥

मनुष्ययज्ञः

अथ मनुष्ययज्ञः - पूर्वोक्त॰ मनुष्ययज्ञेन यक्ष्ये इति सङ्कल्प्य ‘विद्युदसि’ इत्यपः स्पृष्ट्वा ‘मनुष्येभ्यो हन्ता’ इत्यतिथयेऽन्नं दद्यादभावे भूमौ वा परिषिच्य दत्वा ‘वृष्टिरसि’ इत्यपः स्पृशेत् ॥ ततश्चरुशेषं बहिर्भूमौ – ऐन्द्रवारुणवायव्या याम्या नैर्ऋतिकाश्च ये । ते काकाः प्रतिगृण्हन्तु भूमौ पिण्डं मयार्पितम् ॥ द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ । ताभ्यामन्नं प्रदास्यामि स्यातामेतावहिंसकौ ॥ इति दत्वा हस्तपादं प्रक्षालयेत् ॥ इति मनुष्ययज्ञः ॥

ब्रह्मयज्ञः

अथ ब्रह्मयज्ञः ॥ अथ दर्भेष्वासीनो दर्भान्धारयमाण आचम्य प्राणानायम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थंं ब्रह्मयज्ञेन यक्ष्ये इति सङ्कल्प्य -

विद्युदसि विद्यमे पाप्मानमृतात्सत्यमुपैमि

इति हस्ताववनिज्य ‘ॐ आपोहिष्ठा॰’ इति तिसृभिराचामेत् ‘ॐ भूर्भुवःसुवः’ इत्योष्ठो द्विः परिमृज्य सकृदुपस्पृश्य सव्यं पाणिं पादौ च प्रोक्ष्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य - वामपादोपरि दक्षिणपादं प्रतिष्ठाप्य दक्षिणजानूपरि दक्षिणोत्तरौ पाणी कृत्वा ‘ॐ भूर्भुवः सुवः’ इति प्रतिपद्य

ॐ तत्सवितुर्वरेण्यम् । ॐ भर्गो देवस्य धीमहि । ॐ धियो यो नः प्रचोदयात् ॥ ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ॐ धियो यो नः प्रचोदयात् ॥ ॐ तत्सवितु… धीमहि । धियो … यात् ॥ अग्निमीळे … धातमम् ॥ इऔषतयषे त्वोर्जे त्वा…पशून्पाहि ॥ अन आ याहि … बर्हिषि ॥ शन्नो देवी … वन्तु नः ॥ अथ शिक्षां प्रवक्ष्यामि ॥ अमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति ॥ वृद्धिरादैच् ॥ समाम्नायः समाम्नातः ॥ मयरसतजभनलगसम्मितम् ॥ पञ्चसंवत्सरमयम् ॥ गौः ग्मा ज्मा॥ योगीश्वरं यज्ञावल्क्यम् ॥ नारायणं नमस्कृत्य ॥ अथातो धर्मजिज्ञासा॥ अथातो ब्रह्मजिज्ञासा ॥ ॐ नमो ब्रह्मणे … बृहते करोमि ॥

इति परिधानीयां त्रिरनूच्य ‘वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम्’ इत्यपः स्पृष्ट्वा, शिरश्चक्षुषो नासिके श्रोत्रे हृदयमालभ्य । नियोतेन -

ॐ प्रजापति काण्डर्षिं तर्पयामि तर्पयामि । सोमं काण्डर्षिं तर्पयामि तर्पयामि ॥ अग्निं काण्डर्षिं तर्पयामि तर्पयामि ॥ विश्वान्देवान्काण्डर्षींस्तर्पयामि तर्पयामि ॥ स्वयम्भुवं काण्डर्षिं तर्पयामि तर्पयामि

इति तर्पयित्वा । अनेन ब्रह्मयज्ञकर्मणा श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वरार्पणं कृत्वा विष्णुस्मरणमाचमनं च कुर्यात् ।। अत्रानुपाकृतवेदस्तु गायत्रीमेव दशकृत्व आवर्तयेदिति विशेषः ॥

देवर्षिपितृतर्पणम्

अथ देवर्षिपितृतर्पणम् ॥
बो॰ ध॰ सू॰ (२-८-१५)

पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयति - ‘अग्निः प्रजापतिः’ ॥ ममोपात्त … देवर्षिपितृतर्पणं करिष्ये इति सङ्कल्प्य ॐ अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ॐ वसुंश्च त॰ ॥ ॐ पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि त॰ ॥ ॐ रुद्रांश्च त॰॥ ॐ मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सन … तर्पयामि ॥ आदित्यांश्च तर्पयामि ॥ ॐ वसवो वरुणोऽज एकपादहिर्बुध्न्यः पूषाश्विनौ यम इत्येतान्युदग्द्वाराणि दैवतानि सन … तर्पयामि ।।

[[195]]

ॐ विश्वेदेवांस्तर्पयामि ॥ ॐ साध्यांश्च त॰ ॥ ॐ ब्रह्माणं त॰ ॥ ॐ प्रजापतिं त॰ ॥ ॐ चतुर्मुखं त॰ ॥ ॐ परमेष्ठिनं त॰ ॥ ॐ हिरण्यगर्भं त॰ ॥ ॐ स्वयम्भुवं त॰ ॥ ब्रह्मपार्षदांश्च त॰ ॥ ॐ ब्रह्मपार्षदीश्च॰ ॥ । ॐ अग्निं॰ ॥ ॐ वायुं त॰ ॥ ॐ वरुणं त॰ ॥ सूर्यं त॰ ॥ ॐ चन्द्रमसं॰ ॥ ॐ नक्षत्राणि त॰ ॥ ॐ सद्योजातं त॰ ॥ ॐ भूः पुरुषं त॰ ॥ ॐ भुवः पुरुषं॰ ॥ॐ सुवः पुरुषं॰ ॥ ॐ भूर्भुवः सुवः पुरुषं त॰ ॥ ॐ भूस्त॰ ॥ ॐ भुवस्त॰ । ॐ सुवस्त॰ । ॐ महस्त॰ । ॐ जनस्त॰ । ॐ तपस्त॰ । ॐ सत्यं त॰ ॥ ॐ भवं देवं त॰ ॥ ॐ शर्वं देवं त॰ ॥ ओमीशानं देवं त॰ ॥ ॐ पशुपतिं देवं त॰ ॥ ॐ रुद्रं देवं त॰ ॥ ॐ उग्रं देवं त॰ ॥ भीमं देवं त॰ ॥ महान्तं देवं त॰ ॥ भवस्य देवस्य पत्नीं त॰ ॥ ॐ शर्वस्य देवस्य पत्नीं त॰ ॥ ॐ ईशानस्य देवस्य पत्नीं त॰ ॥ पशुपतेर्देवस्य पत्नीं त॰ ॥ ॐ रुद्रस्य देवस्य पत्नीं त॰ ॥ ॐ उग्रस्य देवस्य पत्नीं त॰ ॥ ॐ भीमस्य देवस्य पत्नीं त॰ ॥ महतो देवस्य पत्नीं त॰ ॥ भवस्य देवस्य सुतं त॰ ॥ ॐ शर्वस्यदेवस्य सुतं त॰ ॥ ओमीशानस्य देवस्य सुतं त॰ ॥ ॐ पशुपतेर्देवस्य सुतं त॰ ॥ ॐ रुद्रस्य देवस्य सुतं त॰ ॥ ॐ उग्रस्य देवस्य सुतं त॰ ॥ ॐ भीमस्य देवस्य सुतं त॰ ॥ ॐ महतो देवस्य सुतं त॰ ॥ ॐ रुद्रांस्त॰ ॥ रुद्रपार्षदांस्त॰ ॥ ॐ रुद्रपार्षदीश्च त॰ ॥ ॐ विघ्नं त॰ ॥ ॐ विनायकं॰ ॥ ॐ वीरं त॰ ॥ ॐ स्थूलं॰ ॥ वरदं त॰ ॥ ॐ हस्तिमुखं त॰ ॥ ॐ वक्रतुण्डं त॰ ॥ एकदन्तं त॰ ॥ लम्बोदरं॰ ॥ विघ्नपार्षदांस्त॰ ॥ ॐ विघ्नपार्षदीश्च त॰ ॥ ॐ सनत्कुमारं त॰ ॥ स्कन्दं॰ ।। ॐ इन्द्रं॰ । ॐ षष्ठीं॰ । षण्मुखं॰ । ॐ विशाखं॰ । जयन्तं॰ । महासेनं॰ ।

[[196]]

सुब्रह्मण्यं॰ । स्कन्दपार्षदांस्त॰ । स्कन्दपार्षदीश्च॰ ॥ ॐ आदित्यं॰ । सोमं॰ । अङ्गारकं॰ । बुधं॰ । बृहस्पतिं॰ । शुक्रं॰ । शनैश्चरं॰ । राहुं॰ । केतुं॰ ॥ ॐ केशवं॰ । नारायणं॰ । माधवं॰ । गोविन्दं॰ । विष्णुं॰ । मधुसूदनं॰ । त्रिविक्रमं॰ । वामनं॰ । श्रीधरं॰ । हृषीकेशं॰ । पद्मनाभं॰ । दामोदरं॰ । श्रियं देवीं॰ । सरस्वती देवीं॰ ।। पुष्टिं देवीं॰ ॥ तुष्टिं देवीं॰ । विष्णुं॰ । गरुत्मन्तं॰ । विष्णुपार्षदांस्त॰ । विष्णुपार्षदीश्च॰ ॥ ॐ यमं॰ । यमराजं॰ । धर्मं॰ । धर्मराजं॰ । कालं॰ । नीलं॰ । मृत्युञ्जयं॰ । वैवस्वतं॰ । चित्रं॰ । चित्रगुप्तं॰ । वैवस्वत पार्षदांस्त॰ । वैवस्वतपार्षदीश्च॰ ॥ ॐ भूमिदेवांस्त॰ । काश्यपं॰ । अन्तरिक्षं॰ । विद्यां॰ । धन्वन्तरिं॰ । धन्वन्तरिपार्षदांस्त॰ । धन्वन्तरिपार्षदीश्च॰ ॥

अथ निवीती उदङ्मुख ऋषितीर्थेन ऋषीन्द्विर्द्विस्तर्पयेत् –

ॐ ऋषींस्तर्पयामि तर्पयामि । महर्षींस्त॰ । परमर्षींस्त॰ । ब्रह्मर्षींस्त॰ । देवर्षींस्त॰ । राजर्षींस्त॰ । श्रुतर्षींस्त॰ । जनर्षींस्त॰। तपर्षींस्त॰ । सत्यर्षींस्त॰ । सप्तर्षींस्त॰ । काण्डर्षींस्त॰ । ऋषिकांस्त॰ । ऋषिपत्नीस्त॰ । ऋषिपुत्रांस्त॰ । ऋषिपौत्रांस्त॰ । काण्वं बोधायनं॰ । आपस्तम्बं सूत्रकारं॰ । सत्याषाढं॰ । हिरण्यकेशिनं॰ । वाजसनेयं॰ । याज्ञवल्क्यं॰ । आश्वलायनं॰ । शौनकं॰ । व्यासं॰ । वसिष्टं॰ । प्रणवं॰ । व्याहृतीस्त॰ । सावित्रीं॰ । गायत्रीं॰ । । छन्दांसि॰ । ऋग्वेदं॰ । यजुर्वेदं॰ । सामवेदं॰ । अथर्ववेदं॰ । इतिहासपुराणानि॰ । सर्ववेदांस्त॰ । सर्पदेवजनांस्त॰ । सर्वभूतानि॰ ॥

इति ॥

[[197]]

अथ प्राचीनावीती दक्षिणामुखः पितृतीर्थेन पितॄस्त्रिस्त्रिस्तर्पयेत् -

ॐ पितॄन्स्वधानमस्तर्पयामि । तर्पयामि । तर्पयामि । पितामहान्स्वधानमस्त॰ । प्रपितामहान्स्वधानमस्त॰ । मातृस्स्वधानमस्त॰। पितामहीस्वधानमस्त॰ । प्रपितामहीस्वधानमस्त॰॥ मातामहान्स्वधा नमस्त॰ । मातुः पितामहान्स्वधा नमस्त॰॥ मातुः प्रपितामहान्स्वधा नमस्त॰ ॥ मातामहीस्स्वधा नमस्त॰ । मातुः पितामहीःस्वधा नमस्त॰ ॥ मातुः प्रपितामहीस्स्वधा नमस्त॰ ॥ ओमाचार्यान्स्वधा नमस्त॰ । आचार्यपत्नीस्स्वधा नमस्त॰ ॥ गुरुन्स्वधा नमस्त॰ । गुरुपत्नीस्स्वधा नमस्त॰ ॥ सखींस्वधा नमस्त॰ ॥ सखिपत्नींस्वधा नमस्त॰ ॥ ज्ञातीन् स्वधानमस्तर्प॰ । शातिपत्नीः स्वधानमस्तर्प॰ ।। अमात्यान्स्वधा नमस्तर्प॰ । अमात्यपत्नीः स्वधानमस्तप॰ ॥ सर्वान्स्वधा नमस्त॰ ॥ सर्वास्स्वधा नमस्त॰ ॥

इति ॥

अनुतीर्थमप उत्सिञ्चति -

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यत

इति । अनेन देवर्षिपितृतर्पणकर्मणा श्रीपरमेश्वरः प्रीयताम् ॥

सायम्


[[204]]

अथ वैश्वदेवबलिहरणे-

ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः ।
तेभ्यो बलिं पुष्टिकार्मो हमि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा ॥

इति विशेषः । अन्यत्सर्व समानम् ॥


  1. पञ्चसूनाः- मनुराह –

    ‘पञ्चसूना गृहस्थस्य चुल्लीपेषण्युपस्करः ।
    कण्डनी चोदकुम्भश्च वध्यन्ते यास्तु वाहनम् ॥
    आसां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
    पञ्चक्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्’ इति ॥

    पञ्चसूना व्याख्याता हारीतेन –

    अथ सूना व्याख्यास्यामः । जङ्गमस्थावरादीन्प्राणिनः सूदयन्तीति सूदाः । एताः पञ्चविधा भवन्ति - द्रुतावतरणावगाहनविक्षोभणविक्षेपणापूतग्रहणयानादिभिराद्याङ्कुर्वन्ति । अवेलाविस्पृष्टद्रुतगमनाक्रमणादिभिर्द्वितीयाम् । आहननग्रहणबन्धनच्छेदनभेदनकुट्टनोत्पाटनादिभिस्तृतीयाम् ॥ आक्रमणघर्षणप्रेषणादिभिश्चतुर्थीम् । आदीपनतापनस्वेदनभर्जनपचनादिभिः पञ्चमीम् । तदेताः पञ्चसूना निरययोनीरहरहः प्रजाः कुर्वन्ति । अग्निगुरुशुश्रूषाखाध्यायैरादितः सूनात्रयं ब्रह्मचारिणः पावयन्ति

    इति ॥ ↩︎

  2. कूष्माण्डमन्त्राः संरकारकाण्डे विवाहप्रकरणे द्रष्टव्याः ॥ ↩︎