अथ मध्याह्नसन्ध्योपासनविधिः
मध्याह्ने नद्यादौ विधिवत्स्नात्वा ब्रह्मचारी चेत्केवलं प्रक्षालितपाणिपादः शुचित्रिपुण्ढ्रं भस्म धारयित्वाऽऽचम्य प्राणानायम्य ‘ममोपात्त … मध्याह्नसन्ध्यामुपासिष्ये’ इति सङ्कल्प्य ‘ॐ आपोहिष्ठा… चनः’ ।। इति नवधा मार्जयित्वा हस्ते जलं गृहीत्वा
ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ॥ यदुच्छिष्ठमभोज्यं यद्वा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ॥
इति पीत्वा द्विराचम्य ‘ॐ दधिक्रावुण्णो…रिषत् ।’ इत्यादिभिर्मार्जयित्वा ‘ॐ भूर्भुवःसुवः’ इत्यात्मानं प्रदक्षिणं परिषिच्योत्थाय प्राङ्मुखो मुक्ताङ्गुष्ठाभ्यां हस्ताभ्यां जलमादाय
हंसः शुचिषद्धसुरन्तरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्मोमसदब्जा गोजा ऋतजा अद्विजा श्रुतं बृहत् ॥
[[181]]
ॐ भास्कराय नमः इदमर्घ्य॑म् ॥
ॐ आसत्येन रज॑सा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनाविपश्यन्॥
ॐ भास्कराय नमः इदमर्घ्य॑म् ॥
ॐ भूर्भुवः सुवः ॐ तत्सवितुः…यात् ॥ ॐ भास्कराय नमः इदमर्घ्यम् ॥ इति सूर्याय त्रिरर्घ्यं दत्वा ॐ असावादित्यो ब्रह्मा । इति जलहस्तः प्रदक्षिणं कृत्वोपविश्याचम्य ॥
ॐ धातारं तर्पयामि ।
ॐ अर्यमणं त॰ ।
ॐ मित्रं त॰ ।
ॐ वरुणं त॰ ।
ॐ अंशुं त॰ ।
ॐ भगं त॰ ।
ॐ इन्द्रं त॰ ।
ॐ विवस्वतं त॰ ।
ॐ पूषणं त॰ ।
ॐ पर्जन्यं त॰ ।
ॐ त्वष्टारं त॰ ।
ॐ विष्णुं त॰ ।
ॐ भूस्त॰ ।
ॐ भुवस्त॰ ।
ओं सुवस्त॰ ।
ॐ भूर्भुवः सुवस्तर्पयामि ॥
प्रातःकालवद्गायत्रीजपान्तं कृत्वा सूर्यमुपतिष्ठते
ॐ उद्वयन्तम सस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रासूर्यमगन्मज्योतिरुत्तमम् ॥ ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरन् । पश्येम शरदश्शतं जीवेम शरदश्शृतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं श्रृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीताः स्याम शरदश्शतं ज्योक्क सूर्यन्दृशे ॥
ॐ य उदगान्महतोऽर्णवाद्विभ्राज॑मानः सरिरस्य मध्यात्समा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु
इति पञ्चभिः ॥
‘ॐ नमः प्राच्यै दिशे॰’ इत्यादिदिगुपस्थानादिसर्वं प्रातःकालवत्कृत्वा,
अनेन मध्याह्नसन्ध्योपासनकर्मणा श्रीपरमेश्वरः प्रीयताम्
इति कर्मेश्वराय समर्प्य, ‘तद्विष्णोः परम’मिति विष्णुं स्मृत्वाऽऽचामेत् ॥ इति मध्याह्वसन्ध्योपासनविधिः ।।
[[182]]