१४ देवपूजाविधिः

अथ देवपूजाविधिः

बो॰ ॰ शे॰ (२-१४-१)-

अथातो महापुरुषस्याहरहः परिचर्याविधिं व्याख्यास्यामः ॥

बो॰ गृ॰ शे॰ (२-१७-१)–

अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः ।

बो॰ गृ॰ शे॰ (२-२२-२)-

एतयोस्वर्णिक धर्मत्वात् सर्वत्र वचनाल्लोकप्रसिद्धप्राप्तप्रतिषेधाभावात् क्रियत इति ह माह बोधायनः । एवं प्रतिष्ठाप्य वा कुर्यात्तयोरेव सायुज्यं सलोकतामाप्नोति । यदि त्रिंशद्वत्सरादूर्ध्वं क्रियेत ततो देवयोः परमं पदं ब्रह्मसञ्जितं तदेव सगण आप्नोति । यदि तत्प्रणवः स्याद्य उ चैनदेवं विदुर्यस्मै प्रबूते यस्मै वा करोति तस्मै शतं दद्यान्माषाणां ब्राह्मणो राजन्यः सहस्रं दद्याद्वैश्यो यथाश्रद्धं दद्यात् । न स्त्रीशूद्रौ कुर्यातां यदि कुर्यातां स्वतन्त्रोपदेशे आचार्य आश्रय इति । स्वतन्त्रयोस्तयोश्चेद्वृत्तिक्षीणोऽपि ब्राह्मणः पतत्येवेति शालिकिः। अथ देवयोर्यथाकामी स्याद्यस्यां कस्याञ्चिदवस्थायां जले वा स्थण्डिले वा प्रतिमासु वा सर्वं कृत्वाऽभ्यर्चयेन्न तु प्रमाद्येत् । देशाभावे द्रव्याभावे साधारणे कुर्यान्मनसा वाऽर्चयेदिति ॥

तदाह भगवान्-

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥

इति ॥

भक्ति-नम्र एतान्मन्त्रानधीयीत न त्वेवानर्चकः स्यादन्यतरस्योभयोर्वा ततस्तयोरेव सायुज्यं सलोकतामाप्नोति । य एतयोरर्चनां कुरुतेऽन्यत्र पुत्रशिष्येभ्यः स्त्रियाश्च तस्मै सौवर्णं शङ्खं सुवर्णोपधानं वा दद्यादृषभं रुद्रस्य दक्षिणेत्याह बोधायनः । प्रतिष्ठाकरणे स्नापनकरणे वाऽऽचार्याय तदुपकरणं सर्वं दत्वा ऋषभैकादश गा दद्यादित्याह भगवान्बोधायनः ॥

महापुरुषपरिचर्याप्रयोगः

अथ महापुरुष (विष्णु) परिचर्याप्रयोगः - अथ स्नात्वा शुचिः परिहितधौतवासा गोमयादिलिप्ते देशे, प्राङ्मुख उद्ङ्मुखो वा दर्भेष्वासीनो, दर्भान्धारयमाण आचम्य प्राणानायभ्य, ‘सुमुखश्चेत्यादि’ देशकालौ सङ्कीर्त्य,

मम सकुटुम्बस्य सपरिवारस्य सकलपापापकरणद्वारा विष्णुसायुज्य-विष्णुसालोक्यक्रमेण निरतिशयानन्दब्रह्मपदप्राप्त्यर्थं महाविष्णुपूजां करिष्ये

इति सङ्कल्प्य, महागणपतिं सम्पूज्य, भूशुद्ध्यादिमण्डपार्चनान्तं कृत्वा, पुष्पाक्षतोदकान्यञ्जलौ गृहीत्वा महापुरुषमावाहयति-

ॐ भूः पुरुषमावाहयामि । ॐ भुवः पुरुषमावाहयामि । ओँसुवः पुरुषमावाहयामि । ॐ भूर्भुवः सुवः पुरुषमावाहयामि

इत्यावाह्य, ‘आयातु भगवान्महापुरुषः’ इति ॥
अथ कुशैरासनं ददाति-

ॐ त्रीणि पदा विचक्रमे । विष्णुगोपा अदाभ्यः । ततो धर्माणि धारयन् ॥ भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितः सुवर्णस्तं जुषस्व महाविष्णवे नमः, आसनं समर्पयामि ॥

अथ गायत्र्याऽद्भिः प्रक्षालितपात्रे तिरः पवित्रमप आनीय गन्धादिभिरभ्यर्च्य गायत्र्या अभिमन्त्र्य, ओमित्यातमितोरादित्यं दर्शयित्वा, तासामेकदेशं पात्रान्तरेणादाय, ॐ त्रीणि पदा … धारयन् ॥ इमा आपः शान्ताः शिवाः शिवतमाः पूताः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महाविष्णुविष्णवे नमः पाद्यं समर्पयामि ॥
‘ॐ भूर्भुवः सुवः’ इति निर्माल्यं व्यपोह्य

ॐ इदं विष्णुविचक्रमे त्रेधा निर्दधे पदम् । समूढमस्य पाँसुरे ॥ इमा आपः … अमृतरसा अर्ध्यास्ता जुषतां … नमः

अर्घ्यं समर्पयामि ॥

ॐ दिवो वा विष्णवुत वा पृथिव्या महो वो विष्णवुत वान्तऽरिक्षाद्धस्तौ पृणस्व बहुभिर्वसव्यैरा प्रयच्छ दक्षिणादोत सव्यात् ॥ इमा आपः … अमृतरसा आचमनीयास्ता जुषतां … नमः

आचमनीयं समर्पयामि ॥
अथैनं स्नापयति- ‘ॐ आपोहिष्ठा’ इति त्रिभिः, ॐ हिरण्यवर्णाः शुचयः’ इति चतसृभिः, ॐ पर्वमानः सुवर्जनः’ इत्येतेनानुवाकेन,

ॐ ब्रह्मजलानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ कयानश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्ठया वृता ॥ आपो वा इदँसर्वं विश्वाभूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दाँस्यापो ज्योतीँष्यापो यजूँष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ॐ विष्णवे नमः स्नानं समर्पयामि ॥

ततः पवित्रं पादमूले निधाय तर्पयति-

ॐ केशवं तर्पयामि, नारायणं॰, माधवं॰, गोविन्दं॰, विष्णुं॰, मधुसूदनं ॰, त्रिविक्रमं॰, वामनं॰, श्रीधरं॰, हृषीकेशं॰, पद्मनाभं॰, दामोदरं तर्पयामि

इति ॥ ‘ॐ भूर्भुवः सुवः’ इति प्रतिमामद्भिः परिषिच्य,

ॐ विष्णवे नमः वस्त्रं स॰ ॥
आचमनं स॰ ॥
‘गायत्र्या’ विष्णवे नमः यज्ञोपवीतं स॰ ॥
‘ॐ इदं विष्णु … सुरे’ विष्णवे नमः आचमनीयं स॰ ।

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् ॥
इमे गन्धाः शुभा दिव्याः सर्वगन्धैरलङ्कृताः ।
पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रश्मिभिः॥
विष्णवे नमः गन्धं स॰ ॥

ॐ इरावती धेनुमती हि भूतँ सूयवसिनी मनवे यशस्ये ।
व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः ॥
विष्णवे नमः अक्षतान् स॰ ॥

ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रश्मिभिः॥
विष्णवे नमः पुष्पाणि स॰ ॥

‘ॐ तत्सवितुः॰ ‘॥

वनस्पतिरसो धूपो धूपेभ्यो धूप उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
विष्णवे नमः धूपं स॰ ॥

ॐ उद्दीप्यस्व जातवेदोऽपघ्नं निर्ऋतिं मम । पशूँश्च महामावह जीवनं च दिशो दिश ॥
ज्योतिः शुक्रश्च तेजश्च देवानां सततं प्रियः ।
भास्वरः सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् ॥
विष्णवे नमः दीपं स॰ ॥

देवस्य पुरतश्चतुरश्रमण्डले महाहविः सर्वं स्वादुवस्तु-कन्दमूलफलानि च संस्थाप्याभिघार्य, गायत्र्या प्रोक्ष्य धेनुमुद्रां प्रदर्श्य अर्योदकेनान्वितं पुष्पाञ्जलिं

ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यं पूष्णो हस्ताभ्याम् ॥ विष्णवे नमः नैवेद्यार्थे इदं हविः क्षीरदधिफलमूलादिनैवेद्यं निवेदयामि स्वाहा

इति परिषिच्य समर्प्य,
अङ्गुष्ठानामिकायोगेन नैवेद्यमुद्रां प्रदर्श्य, ‘अमृतोपस्तरणमसि स्वाहा’ इत्यर्घ्यं दत्वा,
अङ्गुष्ठकनिष्ठानामिकाभिः ‘ॐ प्राणाय स्वाहा’,
अङ्गुष्ठतर्जनीमध्यमाभिः ‘ॐ अपानाय स्वाहा’,
मध्यमानामाङ्गुष्ठैः ‘ॐ व्यानाय स्वाहा’,
अङ्गुष्ठतर्जनीमध्यमानाभिः ॐ उदानाय स्वाहा’,
सर्वाङ्गुलीभिः ॐ समानाय स्वाहा’, इति पञ्च मुद्राः प्रदर्श्य, पटान्तरितो भुञ्जानं देवं मनसा ध्यायन् ‘ॐ विष्णवे नमः’ मध्ये पानीयं समर्पयामि ।

अङ्गुष्ठमात्रः पुरुषोङ्गुष्ठं च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्

समर्पितनैवेद्यं विसर्जयामि, ‘अमृता पिधानमसि स्वाहा’ इत्यर्घ्योदकं विसृज्य, नैवेद्यमुद्धृत्य, ॐ विष्णवे नमः आचमनीयं स॰ ॥
पुष्पैराराधयेत्-

ॐ केशवाय नमः । नारायणाय । माधवाय॰ । गोविन्दाय॰ । विष्णवे॰ । मधुसूदनाय॰ । त्रिविक्रमाय॰ । वामनाय॰ । श्रीधराय॰ । हृषीकेशाय । पद्मनाभाय॰ । दामोदराय नमः

इति ॥

पूगीफलसमायुक्तं नागवल्या दलैयुतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ विष्णवे नमः ताम्बूलं स॰ ॥

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवी द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ विष्णवे नमः ॥
सुवर्णपुष्पदक्षिणां स॰ ॥

ॐ त्रीणि पदा … धारयन्
विष्णवे नमः मङ्गळनीराजनं स॰ ॥

ॐ तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उत्सः
विष्णवे नमः मन्त्रपुष्पं स॰ ॥

ॐ क्रत्वा दा अस्थु श्रेष्ठः । अद्य त्वा वन्वन्त्सुरेक्णाः मर्त आनाश सु वृक्तिम्
विष्णवे नमः प्रदक्षिणं स॰ ॥

ॐ इमा ब्रह्म ब्रह्मवाह । प्रिया त आ बर्हिः सीद । ब्रीहि सूर पुरोडाशम्
विष्णवे नमः नमस्कारं स॰ ॥

ॐ उप नः सूनवो गिरः । शृण्वन्त्व॒मृतस्य॒ ये । सुमृडीका भवन्तु नः
विष्णवे नमः प्रार्थनां समर्पयामि ॥

अथैनं वैष्णवीभिः ऋग्यजुस्सामाथर्वभिः स्तुतिभिः स्तुन्वन्ति-

आवाहनं न जानामि न जानामि तवार्चनम् ।
पूजां चैव न जानामि क्षम्यतां पुरुषोत्तम ॥

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

अनेन मया कृतपूजनेन श्रीमहाविष्णुः प्रीयताम् ॥

श्रद्धां मेधां यशः प्रज्ञां विद्या बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे पुरुषोत्तम

प्रसादं गृह्णीयात् ॥

ततः पुरुषमुद्रासयति-

ॐ भूः पुरुषमुद्वासयामि । ॐ भुवः पुरुषमुद्वासयामि । ओँसुवः पुरुषमुद्वासयामि । ॐ भूर्भुवः सुवः पुरुषमुद्वासयामि ॥ प्रयातु भगवान् महापुरुषः क्षेमाय विजयाय पुनः सन्दर्शनाय च

इति ॥ प्रतिमास्थानेष्वावाहनोद्वासनवर्जम् ॥

इति महापुरुषपरिचर्याप्रयोगः ॥

महादेवपरिचर्याप्रयोगः

अथ महादेवपरिचर्याप्रयोगः - अथ स्नात्वा शुचिः मण्डपार्चनान्तं विष्णुपरिचर्यावत्कृत्वा ‘श्रीमहादेवपूजां करिष्ये’ इति सङ्कल्पं कुर्यात् ॥
अथ पुष्पाक्षतोदकान्यञ्जलौ गृहीत्वा महादेवमावाहयति-

ॐ भूः पुरुषमावाहयामि । ॐ भुवः पुरुषमावाहयामि । ओँसुवः पुरुषमावाहयामि । ॐ भूर्भुवः सुवः पुरुषमावाहयामि । [इत्यावाह्य] आयातु भगवान्महादेवः

॥ इति ॥
अथ कुशैरासनं ददाति-

ॐ त्र्यम्बकं … तात् । भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितः सुवर्णस्तं जुषस्व
महादेवाय नमः आसनं समर्पयामि ॥

अथ गायत्र्याऽद्भिः प्रक्षालिते

ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु

इत्यभिमन्त्रिते पात्रे तिरः पवित्रमप आनीय गन्धादिभिरभ्यर्च्य पुनस्तेनैव मन्त्रेण अभिमन्त्र्य ‘ॐ’ इत्यातमितोरादित्यं दर्शयित्वा तासामेकदेशं पात्रान्तरेणादाय पाद्यं ददाति-

इमा आपः शान्ताः शिवाः शिवतमाः पूताः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भवान् महादेवो महादेवाय नमः पाद्यं समर्पयामि ॥

‘ॐ भूर्भुवः सुवरों’ इति निर्माल्यमपोह्य

इमा आपः … अमृतरसा अर्घ्यास्ता जुषतां … नमः अर्घ्यं समर्पयामि ॥

इमा आपः … अमृतरसा आचमनीयास्ता जुषतां… नमः
आचमनीयं समर्पयामि ॥

अथैनं स्नापयति- ‘ॐ आपोहिष्ठा’ इति तिसृभिः,

ॐ हिरण्यवर्णाः शुचयः

इति चतसृभिः,

ॐ पवमानः सुवर्जन

इति एतेनानुवाकेन,

ॐ ब्रह्मजज्ञानं

इति मन्त्रेण,

ॐ कद्रुद्राय प्रचेतसे मीदुष्टमाय तव्यसे । वोचेम शन्तमँहृदे

इति मन्त्रेण, ।

ॐ यो रुद्रो अग्नौ

इति मन्त्रेण,

ॐ कयानश्चित्र आ

इति मन्त्रेण,

ॐ आपो वा इदँ

इति मन्त्रेण च ॥

व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य, ततः पवित्रं पादमूले निधायाद्भिस्तर्पयति-

ॐ भवं देवं तर्पयामि । शर्वं देवं॰ । ईशानं देवं॰ । पशुपतिं देवं॰ । रुद्रं देवं॰ । उग्रं देवं॰ । भीमं देवं॰ । महान्तं देवं तर्पयामि

इति ॥
ॐ नमो भगवते रुद्रायः महादेवाय नमः वस्त्रं समर्पयामि । आचमनीयं स॰ ॥
ॐ नमो भगवते त्र्यम्बकाय’ महादेवाय नमः उपवीतं स॰ । आचमनीयं स. ॥
ॐ यो रुद्रो इमे गन्धाः … रश्मिभिः’ महादेवाय नमः गन्धं स॰ ॥
ॐ यो रुद्रो अग्नौ॰’ महादेवाय नमः अक्षतान् स॰ ॥
ॐ यो रुद्रो अग्नौ॰ । इमे पुष्पाः…रश्मिभिः’ महादेवाय नमः पुष्पाणि स॰॥

ॐ भवाय देवाय नमः । शर्वाय देवाय॰ । ईशानाय देवाय॰ । पशुपतये देवाय॰ । रुद्राय देवाय॰ । उग्राय देवाय॰ । भीमाय देवाय॰ । महते देवाय नमः

इति पुष्पैराराध्य,

यो रुद्रो॰ । वनस्पतिरसो धूपो … धूपोऽयं प्रतिगृह्यताम् महादेवाय नमः धूपं स॰ ॥ ॐ यो रुद्रोः॰। ज्योतिः शुक्रश्च … दीपोऽयं प्रतिगृह्यताम् महादेवाय नमः दीपं स॰ ॥

देवस्य पुरतचतुरश्रमण्डले महाहविः संस्थाप्य

ॐ देवस्य त्वा॰ । महादेवाय नमः नैवेद्यार्थे … निवेदयामि स्वाहा

इति नैवेद्यमुद्रां प्रदर्श्य,
‘अमृतोपस्तरणमसि स्वाहा’ इत्यपो दत्वा ‘ॐ प्राणाय स्वाहा’ इत्यादिभिः पञ्च मुद्राः प्रदर्श, पटान्तरितो देवं मनसा ध्यायन्
‘ॐ त्र्यम्बकं यजामहे महादेवाय नमः पानीयं स॰’ ॥
‘अङ्गुष्ठमात्रः’ नैवेद्यं विसर्जयामि ॥
‘अमृतापिधानमसि स्वाहा’ इत्यपो दत्वा, ‘ॐ त्र्यम्बकं॰’ महादेवाय नमः आचमनीयं स॰ ॥
‘पूगीफल … गृह्यताम्’ । महादेवाय नमः ताम्बूलं स॰ ॥
‘ॐ हिरण्यगर्भ॰’ महादेवाय नमः दक्षिणां स॰ ॥
‘ॐ सद्योजातं॰’ महादेवाय नमः । मङ्गलनीराजनं स॰ ॥
‘ॐ वामदेवाय॰’ महादेवाय नमः मन्त्रपुष्पं स॰ ॥
‘ॐ अघोरेभ्यः॰’ महादेवाय नमः प्रदक्षिणं स॰ ॥
‘ॐ तत्पुरुषाय॰’ महादेवाय नमः नमस्कार स॰ ॥
‘ॐ ईशानः सर्व॰’ महादेवाय नमः प्रार्थनां समर्पयामि ॥
पुनः भवाद्यष्टमिः सम्पूज्य, रौद्रीमिः ऋग्यजुःसामाथर्वभिः स्तुत्वा समर्पयेत् ॥
प्रसादं सङ्ग्रह्य ‘प्रयातु भगवान्महादेवः’ इति विसर्जयेत् ॥ स्थावरलिजस्थानेष्वाषाहनोद्वासनवर्जम् ॥ इति

महादेवपरिचर्याप्रयोगः ॥