अथ तृचाकल्पनमस्काराः
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीसवितृसूर्यनारायणप्रीत्यर्थं च तृचाकल्पविधिना सूर्यनमस्कारं करिष्ये ॥
ताम्रपात्रे जलगन्धाक्षतपुष्पाणि क्षिप्त्वा, ‘ध्येयः सदा सवितृ … शङ्खचक्रः’ इति ध्यात्वा -
ॐ ह्रां उद्यन्नद्य मित्रमहः ह्रां ॐ मित्राय नमः ॥१॥
ॐ ह्रीं आरोहन्नुत्तरां दिवम् ह्रीं ॐ रवये नमः ॥२॥
ॐ ह्रूं हृद्रोगं मम सूर्य ह्रूं ॐ सूर्याय नमः ॥३॥
ॐ ह्रैं हरिमाणं च नाशय ह्रैं ॐ भानवे नमः ॥४॥
ॐ ह्रौं शुकेषु मे हरिमाणम् ह्रौं ॐ खगाय नमः ॥५॥
ॐ ह्रः रोपणाकासु दध्मसि ह्रः ॐ पूष्णे नमः ॥६॥
ॐ ह्रां अथो हारिद्रवेषु मे ह्रां ॐ हिरण्यगर्भाय नमः ॥७॥
ॐ ह्रीं हरिमाणं निदध्मसि ह्रीं ॐ मरीचये नमः ॥८॥
ॐ ह्रूं उदगादयमादित्यः ह्रूं ॐ आदित्याय नमः ॥९॥
ॐ ह्रैं विश्वेन सहसा सह ह्रैं ॐ सवित्रे नमः ॥१०॥
ॐ ह्रौं द्विषन्तं मम रन्धयन् ह्रौं ॐ अर्काय नमः ॥११॥
ॐ ह्रः मो अहं द्विषतो रधम् ह्रः ॐ भास्कराय नमः ॥१२॥
ॐ ह्रां ह्रीं उद्यन्नद्य मित्रमहः । आरोहनुत्तरां एव दिवम् ह्रां ह्रीं ॐ मित्ररविभ्यां नमः ॥१३॥
ॐ ह्रूं ह्रैं हृद्रोगं मम सूर्य । हरिमाणं च नाशय ह्रूं ह्रैं ॐ सूर्यभानुभ्यां नमः ॥१४॥
ॐ ह्रौं ह्रः शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ह्रौं ह्रः ॐ खगपूषभ्यां नमः ॥१५॥
ॐ ह्रां ह्रीं अथो हारिद्रवेषु मे हरिमाणं निदध्मसि ह्रां ह्रीं ॐ हिरण्यगर्भमरीचिभ्यां नमः ॥१६॥
ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वेन सहसा सह ह्रूं ह्रैं ॐ आदित्यसवितृभ्यां नमः ॥१७॥
ॐ ह्रौं ह्रः द्विषन्तं मम रन्धय॑न् । मो अहं द्विषतो रधम् ह्रौं हः ॐ अर्कभास्कराभ्यां नमः ॥१८॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्य … दिवम् । हृद्रोगं मम … च नाशय ह्रां ह्रीं ह्रूं ह्रैं ॐ मित्ररविसूर्यभानुभ्यो नमः ॥१९॥
ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे … सुदध्मसि । अथो हारि… निदध्मसि ह्रौं ह्रं ह्रां ह्रीं ॐ खगपूषहिरण्यगर्भमरीचिभ्यो नमः ॥२०॥
ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगाय … सह । द्विषन्तं मम … रंधम् ह्रूं ह्रैं ह्रौं ह्रः ॐ आदित्यसवित्रर्कभास्करेभ्यो नमः ॥२१॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रं ह्रैं ह्रौं ह्रः उद्यन्नद्य … दिवम् । हृद्रोगं … नाशय ॥ शुकेषु मे … सुध्मसि । अथो हारि … निदध्मसि ॥ उदगाय … सह । द्विषन्तं मम … रधम् ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रः ॐ मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॥२२-२३-२४॥
एवमेव त्रिवारम् ॥
इति चतुर्विंशतिवारं नमस्कारं कृत्वा-
विनतातनयो देवः कर्मसाक्षी सुरेश्वरः ।
सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥
ॐ अरुणाय नमः
इति प्रार्थयेत् ॥
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥
अनेन तृचाकल्पनमस्कारकर्मणा भगवान् श्रीसूर्यनारायणः प्रीयताम् ॥
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥
इति पात्रस्थजलं पिबेत् ॥
इति तृचाकल्पनमस्काराः ॥