अथ द्वादशनमस्काराः
मम श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीसूर्यनारायणप्रीत्यर्थं द्वादशनमस्काराख्यं कर्म करिष्ये
इति सङ्कल्प्य शुद्ध ताम्रपात्रे जलमापूर्य गन्धपुष्पाक्षतान् प्रक्षिप्य पुरतो निधाय-
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषणः ।
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥
इति ध्यात्वा-
ॐ मित्राय नमः, ॐ रवये नमः, ॐ सूर्याय॰, ॐ भानवे॰, ॐ खगाय॰, ॐ पूष्णे॰, ॐ हिरण्यगर्भाय॰, ॐ मरीचये॰, ॐ आदित्याय॰, ॐ सवित्रे॰, ॐ अर्काय॰, ॐ भास्कराय नमः, ॐ मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॥
विनतातनयो देवः कर्मसाक्षी सुरेश्वरः ।
सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥
ॐ अरुणाय नमः ॥
आदिस्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
जन्मान्तर सहस्रेषु दारिद्र्यं नोपजायते ॥
श्रीसूर्यनारायणाय नमः ॥
इति प्रतिमन्त्रं प्रणम्य
अनेन द्वादशनमस्काराख्येन कर्मणा भगवान् श्रीसूर्यनारायणः प्रीयताम् ॥
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥
इति पात्रस्थजलं पिबेत् ॥
इति द्वादशनमस्काराः ॥