११ औपासनविधिः

सम्बद्ध-विषयाः

विधिः

अथौपासनविधिः

तस्माद् अग्नये सायँ हूयते ।
सूर्याय प्रातः

इति श्रुतिः ॥

बो० प० सू० (१-१६-७)-

पाणि-ग्रहण-प्रभृति व्रीहिभिर् यवैर् वा ।
हस्तेनैते आहुती जुहोति-
‘ॐ अग्नये स्वाहा, प्रजापतये स्वाहा’
इति सायम् ।
‘ॐ सूर्याय स्वाहा, प्रजापतये स्वाहा’ इति प्रातरपि ।
अग्निहोत्र-हविषाम् अन्यतमेन हूयते॥

बो० गृ० शे० सू० (४-८-४)-

अथास्तमित आदित्ये व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति- ‘अग्नये स्वाहा, प्रजापतये स्वाहा’ इति सायम् । ‘सूर्याय स्वाहा, प्रजापतये स्वाहा’ इति प्रातरपि । अग्निहोत्रहविषामन्यतमेन जुहुयात् । पर्वणि पर्वणि चाग्नेयस्थालीपाकेन यजेत । उपवास एव कालान्तरे भोजनमतृप्तिश्चान्नस्य च । एवमेव सायं होमेन प्रतिपद्यते सन्तिष्ठत औपासनतन्त्रम् ॥

औपासनस्य कालो निरूपितः बोधायनसूत्रे-

आसायं कर्मणः प्रातः,
आप्रातः सायं कर्मण आहुतिर्नातिपद्येत पार्वणं पार्वणान्तरम्।

प्रदोषान्तो होमकालः सङ्गवान्तः प्रातः

इत्याश्वलायनः ।
प्रदोषान्तो नाम रात्रौ नवनाड्यात्मकः कालः ।
सङ्गवान्तो नाम प्रातर्दशनाड्यात्मकः कालः ॥

अग्नि-सम्पादनम्

अथ प्रातरौपासनप्रयोगः

अथाग्नेः पश्चात्सपत्नीकः प्राङ्मुख उपविश्य

[

समित्समारोपिताग्निश्चेदारोपितं समिधं

07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्त् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...

उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वँस् त्वा॑ पि॒तरय्ँ॒ युवा॑नम्
अ॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।

ॐ भूर्भुवःसुवरों अग्निं प्रतिष्ठापयामि

इति लौकिकाग्नौ प्रतिष्ठाप्य वेणुधमन्या प्रबोध्य
]

परिषेचनान्तम्

आचम्य प्राणानायम्य
आवयोर् उपात्त-दुरितक्षय-द्वारा
श्रीपरमेश्वर-प्रीत्यर्थं प्रातर्-औपासन-होमं व्रीहिभिर् होष्यामीति सङ्कल्प्य,

ॐ जुष्टो दमूना अतिथिर्दुरोणे । इमं नो यज्ञमुपयाहि विद्वान् ॥ विश्वा अग्नेऽभियुजो विहत्य । शत्रूयता माभरा भोजनानि

इत्युपस्थायाग्निं प्रागादिपरिसमूह्य पर्युक्ष्य परिस्तीर्य, हवनीयद्रव्यमुत्तरतो निधाय, ज्वलता दर्भद्वयेनाभिद्योत्य प्रोक्ष्य तेनैव दर्भद्वयेन पुनरभिद्योत्य, अन्येन ज्वलता दर्भद्वयेन त्रिः पर्यग्निकृत्वाऽप उपस्पृश्य हवनीयद्रव्यमग्नेः पश्चाद्दर्भेषु सादयित्वा

०१ जुषस्व नः ...{Loading}...

जुष᳓स्व नः समि᳓धम् अग्ने अद्य᳓
शो᳓चा बृह᳓द् यजतं᳓+++(=यज्ञीयं)+++ धूम᳓म् ऋण्व᳓न्+++(=प्रेरयन्)+++ ।
उ᳓प स्पृश दिव्यं᳓ सा᳓नु स्तू᳓पैः
सं᳓+++(→ततनः)+++ रश्मि᳓भिस् ततनः+++(←तन्)+++ सू᳓र्यस्य ॥

इति प्रार्थ्याग्निं परिषिञ्चति

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

(‘अदितेऽनुमन्यस्व’ इति दक्षिणतः प्राचीनम् , ‘अनुमतेऽनुमन्यस्व’ इति पश्चादुदीचीनम् ‘सरस्वतेऽनुमन्यस्व’ इत्युत्तरतः प्राचीनम् , ‘देवसवितः प्रसुव’ इति समन्तं प्रदक्षिणम् ॥ )

अलङ्कारः

अथ

(अग्नये नमः इत्यादि विसर्पिणे नमः । मध्ये यशपुरुषाय नमः)

Agnaye j Atavedase sahojase ...{Loading}...

अग्नये नमः, जातवेदसे नमः,
सहोजसे नमः, अजिरा-प्रभवे नमः,
वैश्वानराय नमः, नर्यापसे नमः,
पङ्क्तिराधसे नमः, विसर्पिणे नमः

+++(इति ऐन्द्र्यादिदिक्षु अग्निमर्चयेत् ।)+++

+++(“मध्ये यज्ञपुरुषाय नमः” इति क्वचित्।)+++

इत्यग्निमभ्यर्च्य

अग्निं प्रज्वलितं ...{Loading}...

अग्निं प्रज्वलितं वन्दे
जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं
समिद्धं विश्वतोमुखम् ॥

इति प्रणम्य

होमः

तूष्णीमेकां समिधम् अभ्याधाय
आदीप्तायास् तस्याः पश्चिमार्धे होमद्रव्यं हस्तेन गृहीत्वा
काय-तीर्थेन+++(=??)+++ प्राङ्मुखं जुहोति-

ॐ सूर्या॑य॒ स्वाहा॑ । सूर्यायेदं न मम ।

एवमेव द्वितीयां भूयसीं आहुतिं समित्पूर्वार्धे प्रत्यङ्मुखं जुहोति-

ॐ प्र॒जाप॑तये॒ स्वाहा॑ । प्रजापतय इदं न मम ॥

परिषेचनम्

पुनः ‘जुषस्वनः०’ इत्यादि, ।।

०१ जुषस्व नः ...{Loading}...

जुष᳓स्व नः समि᳓धम् अग्ने अद्य᳓
शो᳓चा बृह᳓द् यजतं᳓+++(=यज्ञीयं)+++ धूम᳓म् ऋण्व᳓न्+++(=प्रेरयन्)+++ ।
उ᳓प स्पृश दिव्यं᳓ सा᳓नु स्तू᳓पैः
सं᳓+++(→ततनः)+++ रश्मि᳓भिस् ततनः+++(←तन्)+++ सू᳓र्यस्य ॥

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

इति पूर्ववत् परिषिच्य

उपस्थानम्

समिधमाधाय उपतिष्ठते-

यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [11]

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

वर्चोन्नम् ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥

मूलम्

यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥

भट्टभास्कर-टीका

हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥

इति तृतीये पञ्चमे तृतीयोनुवाकः ॥

मयि मेधाम् ...{Loading}...
मूलम् (संयुक्तम्)

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मय्य् अ॒ग्निस् तेजो॑ दधातु ।

Keith

On me wisdom, on me offspring, on me brilliance may Agni bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु ।

भट्टभास्कर-टीका

मेधा ग्रन्थार्थधारणसामर्थ्यम् ।
प्रजा पुत्रादिः ।

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयीन्द्र॑ इन्द्रि॒यन् द॑धातु ।

Keith

on me wisdom, on me offspring, on me power may Indra bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु ।

भट्टभास्कर-टीका

इन्द्रियं चक्षुरादिशक्तिः ।
दधातु स्थापयतु । गतमन्यत् ॥

इति तृतीये तृतीये प्रथमोनुवाकः ॥

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

Keith

on me wisdom, on me offspring, on me blazing may Surya bestow.

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

(‘यत्ते अग्ने … भ्राजो दधातु’)
इति षड्भिरुपस्थायोपविश्य

भस्म-धारणादि

07 मा नस् ...{Loading}...

मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।

‘मानस्तोके … विधेम ते’
इत्य्-उदक-स्थितं प्राक्-स्थितं वा भस्म गृहीत्वा

‘ॐ ओजोसि’ इति ललाटे,
‘सहोसि’ इति कण्ठे,
‘बलमसि’ इति दक्षिणबाहुमूले,
‘भ्राजोसि’ इति है कण्ठपृष्ठे,
‘देवानां धाम नामासि’ इति नाभौ,
‘विश्वमसि विश्वायुः इति हृदये,
‘सर्वमसि सर्वायुरभिभूः’

इति शिरसि च धारयेत् ।

‘श्रद्धां मेधां… हव्यवाहन’ इत्याशिषः सम्प्रार्थ्य गोत्राभिवादनं कृत्वा

अनेन प्रातरौपासनहोमकर्मणा श्री परमेश्वरः प्रीयताम्

इति कर्मेश्वराय समर्प्य

समारोपणम्

[समारोपपक्षे-

19 अयन्ते योनिर् ...{Loading}...

अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम्

इत्यग्निं समिधि समारोप्य]

आचमनम्

२० तद्विष्णोः परमं ...{Loading}...

त᳓द्वि᳓ष्णोः परमं᳓ पदं᳓
स᳓दा पश्यन्ति सूर᳓यः ।
दिवी᳙व च᳓क्षुर्+++(→सूर्यः|श्रोणाः)+++ आ᳓ततम् ॥

‘तद्विष्णोः परमं पदं…चक्षुराततम्’ इति विष्णुं स्मृत्वाऽऽचामेत् ।

इति प्रातरौपासनहोमः ॥
इत्यौपासनविधिः ॥

सायमौपासनप्रयोगः

अथ सायमौपासनप्रयोगः- प्रातः इत्यत्र सायं इति ‘सूर्याय स्वाहा’ इत्यत्र ‘अग्नये स्वाहा’ इति योजनीयम् । अन्यत्सर्वंप्रातरौपासनवत् ॥ ॥ (रात्रौ ‘पञ्चमहायज्ञा न सन्ति’) देवताराधनमतिथिभोजनम् च यथोपपादं कुर्यात् ॥