१० ब्रह्मचारिणामग्निकार्यविधिः

अथ ब्रह्मचारिणामग्निकार्यविधिः

बो० गृ० सू० (२-५-२६)

एतस्मिन्नेवाग्नौ (उपनयनाग्नौ) व्याहृतीभिः सायम्प्रातः समिधोऽभ्यादध्यात्

इति ॥

बो० प० सू० (१-१६-५)

स एष उपनयनप्रभृति व्याहृतीभिः समिद्भिर्हूयत आसमावर्तनात् । समावर्तनप्रभृति आज्येन व्याहृतिभिरेव हूयत आपाणिग्रहणात्

इति ॥

बो० शे० सू० (२-११-७)-

अथैनमग्निमुपसमाधाय प्रोक्षणीः संस्कृत्य परिसमूह्य परिषिच्य व्याहृतीभिः समिध आधापयति । षोढा विहितेनोपस्थापयति । तदाऽऽग्नेयं भस्म सङ्गृह्य वामपाणितले निक्षिप्य ‘मानस्तोके’ इत्यद्भिः संसृज्य ‘शन्नो देवीरभिष्टय’ इति सम्मेल्य तिर्यक्त्रिपुण्ढ्रमेकपुण्ढ्रं वा ब्राह्मणस्य, वर्तुलाकारं राजन्यस्य, अर्धचन्द्राकृतिं वैश्यस्याङ्गानि सन्धापयति । ‘सरस्वती’ इति शिरसि, ‘मेधावी’ इति ललाटे, ‘तेजस्वी’ इति वक्षसि, ‘वर्चस्वी’ इति दक्षिणेंऽसे, ‘ब्रह्मवर्चसी’ इति उत्तरेंऽसे, ‘आयुष्मान्’ इति ग्रीवायाम् , ‘अन्नाद’ इति पिठरे, ‘स्वस्तिभूयासम्’ इति शिरसि । अन्येषां स्त्रीणां वा ऊर्ध्वपुण्ढ्रम् । प्रोक्षणीषु करं प्रक्षाल्य नमस्कृत्य प्रोक्षणीशेषं गेहस्योपरिष्टात् निनयेदित्याह भगवान्बोधायनः ॥

प्रयोगः

अथ प्रयोगः

दर्भेषु प्राङ्मुख उपविश्य हस्ते पुष्पाक्षतादि गृहीत्वा लौकिकाग्नौ

ॐ उपावरोह जातवेदः पुनस्त्वम् । देवेभ्यो हव्यं वहनः प्रजानन् ॥ आयुः प्रजाँरयिमस्मासु धेहि । अजस्रो दीदिहि नो दुरोणे ॥

इति स्वात्मसमारोपितमग्निमागतं भावयन् “ॐ भूर्भुवःसुवरोम्” अग्निं प्रतिष्ठापयामि इति प्रक्षिपेत् ॥

आचम्य प्राणानायम्य मम उपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातरग्निकार्यं करिष्ये इति सङ्कल्प्य, अग्निं प्रदक्षिणं परिसमूहति-

०१ जुषस्व नः ...{Loading}...

जुष᳓स्व नः समि᳓धम् अग्ने अद्य᳓
शो᳓चा बृह᳓द् यजतं᳓+++(=यज्ञीयं)+++ धूम᳓म् ऋण्व᳓न्+++(=प्रेरयन्)+++ ।
उ᳓प स्पृश दिव्यं᳓ सा᳓नु स्तू᳓पैः
सं᳓+++(→ततनः)+++ रश्मि᳓भिस् ततनः+++(←तन्)+++ सू᳓र्यस्य ॥

इति ॥

अथ परिषिञ्चति- ‘ॐ अदितेऽनुमन्यस्व’ इति दक्षिणतः प्राचीनम् । ॐ अनुमतेऽनुमन्यस्व’ इति पश्चादुदीचीनम् । ॐ सरस्वतेऽनुमन्यस्व’ इत्युत्तरतः प्राचीनम् । ॐ ‘देव सवितः प्रसुव’ इति समन्तं प्रदक्षिणम् ।

अथाग्निमैन्द्राद्यष्टदिक्षु पुष्पाक्षतैरलङ्करोति-

Agnaye j Atavedase sahojase ...{Loading}...

अग्नये नमः, जातवेदसे नमः,
सहोजसे नमः, अजिरा-प्रभवे नमः,
वैश्वानराय नमः, नर्यापसे नमः,
पङ्क्तिराधसे नमः, विसर्पिणे नमः

+++(इति ऐन्द्र्यादिदिक्षु अग्निमर्चयेत् ।)+++

+++(“मध्ये यज्ञपुरुषाय नमः” इति क्वचित्।)+++

इत्यक्षतैरभ्यर्च्य,

अग्निं प्रज्वलितं ...{Loading}...

अग्निं प्रज्वलितं वन्दे
जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं
समिद्धं विश्वतोमुखम् ॥

इति प्रणम्य, प्रोक्षणीः संस्कृत्य,
तज्जलेन चतस्रः समिधः प्रोक्ष्य अभ्यादधाति-

ॐ भूः स्वाहा (अग्नय इदं न मम) ।
ॐ भुवः स्वाहा (वायव इदं न मम) ।
ओँसुवः स्वाहा (सूर्याय इदं न मम) ।
ॐ भूर्भुवःसुवः स्वाहा (प्रजापतय इदं न मम)।

इति ॥

पुनः पूर्ववत्- ‘जुषस्वनः’ इति परिसमूह्य

अदितेऽन्वमँस्थाः । अनुमतेऽन्वमँस्थाः । सरस्वतेऽन्वमँस्थाः । देवसवितः प्रासावीः ।

इति तथैव परिषिच्याथैनँसमिधमाधायोपतिष्ठते-

यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [11]

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

वर्चोन्नम् ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥

मूलम्

यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥

भट्टभास्कर-टीका

हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥

इति तृतीये पञ्चमे तृतीयोनुवाकः ॥

मयि मेधाम् ...{Loading}...
मूलम् (संयुक्तम्)

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मय्य् अ॒ग्निस् तेजो॑ दधातु ।

Keith

On me wisdom, on me offspring, on me brilliance may Agni bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु ।

भट्टभास्कर-टीका

मेधा ग्रन्थार्थधारणसामर्थ्यम् ।
प्रजा पुत्रादिः ।

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयीन्द्र॑ इन्द्रि॒यन् द॑धातु ।

Keith

on me wisdom, on me offspring, on me power may Indra bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु ।

भट्टभास्कर-टीका

इन्द्रियं चक्षुरादिशक्तिः ।
दधातु स्थापयतु । गतमन्यत् ॥

इति तृतीये तृतीये प्रथमोनुवाकः ॥

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

Keith

on me wisdom, on me offspring, on me blazing may Surya bestow.

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

इति ॥

अथोपविश्याग्नेयं भस्म-

मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधीह॒विष्म॑न्तो नमसा विधेम ते ।

इति वामपाणितले गृहीत्वा-

शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं यो रभिस्रवन्तु नः ।

इत्यद्भिः सम्मिश्र्याङ्गुष्ठानामिकाभ्यामालोड्य-

‘सरस्वती’ इति शिरसि, ‘मेधावी’ इति ललाटे, ‘तेजस्वी’ इति बक्षसि, ‘वर्चस्वी’ इति दक्षिणेंऽसे, ‘ब्रह्मवर्चसी’ इत्युत्तरेंऽसे, ‘आयुष्मान्’ इति ग्रीवायां, ‘अन्नादः’ इति पिठरे, ‘स्वस्ति भूयासं’ इति शिरसि च त्रिपुण्ड्रमेकपुण्ड्रं वा धृत्वा करं प्रक्षाल्य-

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

इत्याशिषः प्रार्थयित्वा, अमुकप्रवरान्वितेत्यादिनाऽभिवाद्य-

अनेन प्रातरग्निकार्यकर्मणा श्रीपरमेश्वरः प्रीयताम्

इति कर्मेश्वराय समर्प्य-

ॐ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानम् । अच्छा वसूनि कृण्वन्नस्मे नयाँ पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् । जातवेदो भुव आ जाय॑मानः सक्षय एहि ।

इत्यग्निमात्मनि समारोप्य, प्रोक्षणीशेषं गेहस्योपरिष्टान्निनयेत् ।

तद्विष्णोः परमं पदं … चक्षुराततम्

इति विष्णुं स्मृत्वा द्विराचामेत् ॥

इत्यग्निकार्यप्रयोगः ॥

रात्रौ


अथ रात्रौ ब्रह्मचारिणामग्निकार्यम् - सङ्कल्पे समर्पणे च प्रातरिति स्थाने सायमिति योजनीयम् । अन्यत्सर्वं प्रातरग्निकार्यवत् ॥