०९ सन्ध्योपासनविधिः

अथ सन्ध्योपासनविधिः

अत्रेयं श्रुतिः- (तै-आ-२-२)

तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायां गायत्रियाऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमव धून्वन्त्युद्यन्तमम्तंयन्तमादित्यभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्त्सकलं भद्रमश्‌नुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ।

इति ॥

बोधायनधर्मसूत्रे-

अथातः सन्ध्योपासनविधिं व्याख्यास्यामः । तीर्थं गत्वाऽप्रयतोऽभिषिक्तः प्रयतो वाऽनभिषिक्तः प्रक्षालितपादपाणिरप आचम्य ‘अग्निश्च मामन्युश्च’ इति सायमपः पीत्वा, ‘सूर्यश्च मामन्युश्च’ इति प्रातः सपवित्रेण पाणिना सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः, पावमानीभिर्व्याहतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति ।

अथाप्युदाहरन्ति-

अपोवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते

इति ॥

किञ्च, सर्वकर्मणां चैवारम्भकालेषु प्राक्सन्ध्योपासनकालाश्चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति । अथाप्युदाहरन्ति- दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्री सहस्रकृत्व आवर्तयेत् , प्राणायामशः शतकृत्वो वा उभयतः प्रणवां ससप्तव्याहतिकां मनसा वा दशकृत्वः । त्रिभिश्च प्राणायामैः श्रान्तोब्रह्महदयेन । वारुणीध्यां रात्रिमुपतिष्ठते- ‘इमं मे वरुण, “तत्त्वायामि” इति द्वाभ्याम् । एवमेव प्रातः प्राङ्मुखस्तिष्ठन् मैत्रीभ्यामहरुपतिष्ठते-

मित्रस्य चर्षणी । धृतो, मित्रो जनान्यातयति

इति द्वाभ्याम् । स एवमेवाहरहरहोरात्रयोः सन्धिषूपतिष्ठमानो ब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः | शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते ब्रह्मलोकमभिजयतीति विज्ञायते’॥

सन्ध्याकालनिरूपणम्

सन्ध्याकालनिरूपणम्-

बोधायनधर्मसूत्रे (२-४-१२)-

सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ।
अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥

इति ।

अस्य स्पष्टीकरणं दक्षस्मृतो-

रात्र्यन्तयामनाडी द्वे सन्ध्यादिः काल उच्यते ।
दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः ॥

इति ॥

प्रातःसन्ध्योपासनसौकर्याय गौणकालो विहितो भगवता व्यासेन-

उत्तमा तु सनक्षत्रा मध्ममा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥

एवमेव सायंसन्ध्या विषयेऽपि विहितो गौतमेन-

उत्तमा सूर्यसहिता मध्यमा लुप्तभास्करा ।
अधमा तारकोपेता सायंसन्ध्या त्रिधा मता। ॥

इति ॥

आसायं कर्मणः प्रातः आप्रातः सायं कर्मणः

इति भगवान् बोधायनः ॥

सन्ध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा

इति भगवानत्रिः ॥ मध्याह्वसन्ध्याकाल उक्तो धर्मसारे-

अध्यर्धयामादासायं सन्ध्या माध्याह्निकी स्मृता

इति ॥ स्मृतिसङ्ग्रहे तु-

मध्याह्नस्नानादूर्ध्वं यः कालस्त्वव्यवधानतः ।
तत्र मध्याह्वसन्ध्या स्यादूर्ध्वे गौणः स्मृतो बुधैः ॥

इति ।। सन्ध्याधिकारिणमाह भगवान् जैमिनिः-

यावद्ब्रह्मोपदेशस्तु तावत्सन्ध्यादिकं च न ।
जाते ब्रह्मोपदेशे तु कर्म सन्ध्यादिकं चरेत् ॥

इति ॥

कालातिक्रमणे प्रायश्चित्तम्

कालातिक्रमणे प्रायश्चित्तम्-

बोधायनधर्मसूत्रे (२-४-१६)-

तत्र सायमतिक्रमे रात्र्युपवासः, प्रातरतिक्रमेऽहरुपवासः (अतीतां सन्ध्यां कृत्वा इति शेषः) ।

अल्पकालातिपाते- वसिष्ठस्मृतौ-

कालातिक्रमणे चैव त्रिसन्ध्यामपि सर्वदा । चतुर्थार्घ्यं प्रकृर्वीत भानोव्याहृतिसम्पुटम् ॥

इति ॥

एकाहाद्व्यतिक्रमे जमदग्निः-

एकाहं समतिक्रम्य सन्ध्यावन्दनकर्मसु । अहोरात्रोषितो भूत्वा गायत्र्या अयुतं जपेत् ॥
द्विरात्रे द्विगुणं प्रोक्तं त्रिरात्रे त्रिगुणं स्मृतम् ॥

इति ॥

अनुपासितुर्दोषमाह- बोधायनः-

सायं प्रातः सदा सन्ध्यां ये विप्रा नो उपासते । कामं तान्धार्मिको राजा शुद्र कर्मसु योजयेत् ॥

इति ॥

सन्ध्याहीनो द्विजो नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥

इति ॥

सन्ध्योपासनहीनस्य सर्वकर्मानर्हत्वमप्यन्यत्रोक्तम् ॥

आपद्धर्ममाह भगवान् व्यासः-

देशक्षोभे महापत्तौ मार्जनार्घ्याद्यसम्भवे । सन्ध्यागतं सहस्रांशुं मन्त्रैः कुर्यादुपस्थितिम् ॥

अथाप्युदाहरन्ति महाभारते-

ते तथैव महाराज दंशिता रणमूर्धनि ।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥

इति ॥

जलाद्यभावेऽग्निस्मृतौ-

जलाभावे महामार्गे बन्धने त्वशुचावपि ।
उभयोः सन्ध्ययोः काले रजसा चार्घ्यमुत्सृजेत् ॥

इति ॥

सन्ध्यायामुपास्यदेवता तदुपासनञ्च

सन्ध्यायामुपास्यदेवता तदुपासनं च- सन्ध्याशब्दः कालवाचो । कथं तर्हि ? ‘अहरहः सन्ध्यामुपासीत’ इत्यादि वचनेषु सन्ध्याया एवोपासनमुक्तमिति, ‘तदभिन्नदेवताकः कालोऽयम्’ इत्यतः सन्ध्याकालाभिन्नदेवतोपलक्षिता, सा तु शक्तिमय्यर्कमण्डलाधिष्ठात्र्यादित्याख्या ब्रह्मात्मिकेति विज्ञायते ॥

शक्तिमयोत्यत्राह भगवान्बोधायनः-

या सन्ध्या सा जगत्सूतिर्मायातीता सुनिष्कला ।
ऐश्वरो केवला शक्तिर्मूर्तित्रयसमुद्भवा ॥
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।
उपासितो भवेत्तेन देवो योगतनुः परः ॥

मूर्तित्रयस्य समुद्भवो यस्याः सा तथोक्तेति पञ्चमीबहुव्रीहिः । परो नाम परमात्मेत्यर्थः ॥

मूर्तित्रयमपि सवितुरेव कालभेदतो रूपभेदः इत्याह भगवान्व्यासः-

उदये ब्रह्मरूपं तु मध्याह्ने तु महेश्वरम् ।
सायाह्नि विष्णुरूपं तु त्रिरूपं वै दिवाकरम् ॥
अनुसन्ध्यामुपासीत सन्ध्यारूपं रविं द्विजः ॥

एतेन सन्ध्यास्वरूपस्यादित्यस्य कालभेदेन ब्रह्म-महेश्वर-विष्णुस्वरूपत्वमुक्तं भवति । अतो मूर्तित्रयमूलभूतो ब्रह्मात्मक आदित्य एव सन्ध्यायामुपास्यदेवतेत्यवगम्यते । तदुपासनं तु परब्रह्मणः स्वस्य चेत्यानुसन्धानरूपम् ॥

अत्र तैतरीयब्राह्मणम्-

उद्यन्तमस्तंयन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्त्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥

अस्यायमर्थः-

असौ पूर्वोक्तविशिष्टो ब्रह्मादिस्वरूपात्मक आदित्यो ब्रह्म इति सन्ध्याऽभिन्नमादित्यं परब्रह्मत्वेनाभिध्यायन्ध्यानाङ्गभूतं कर्म च कुर्वन् । ब्राह्मणो ब्रह्मोपासकत्वात्स ब्राह्मणाभिख्यां लभत इत्यर्थः । विद्वान्त्सकलविद्यासारभूताध्यात्मविद्यासम्पन्नत्वास विद्वच्छब्दवाच्यतामेतीत्यर्थः । सकलमैहिकामुष्मिक च भद्रमश्नुते । एवमुक्तध्यानेन विशुद्वान्तःकरण आदित्यस्याप्यात्मभूतं परं ब्रह्म स्थूल सूक्ष्म-कारणाख्यशरीरत्रय व्यतिरिक्तप्रत्यगात्मत्वेन वेद साक्षात्करोति, स पूर्वमपि ब्रह्मैव सरस्वत्व (??)कापरिज्ञानाजीवभावमापन्न इव स्थितो यथोक्तब्रह्मात्मैकत्वविज्ञानेन तदशानापगमे सति ब्रह्मैवाप्येति प्राप्नोति । वृत्तविद्यो भवतीति यावत् । एतेनासावादित्यो ब्रह्म, ब्रह्मैवाहमस्मीति वाक्यद्वयस्याप्यर्थ उक्तो भवति । एवं सति ‘सन्धौ सन्ध्यामुपासीत’ इति याज्ञवल्क्यस्मृत्या सन्ध्यां नामार्कमण्डलान्तर्गतामादित्याख्यां परब्रह्मात्मिकां देवतां हृदि साऽहमस्मोत्युपासीत । आत्मत्वेन तां जानीयादित्युक्तं भवति ।

अत एवाह भगवान्व्यासः-

अभिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह ।
साऽहमस्मीत्युपासीत विधिना येन केन चित् ।

गायत्रीं नाम संध्यादेवतामित्यर्थः ॥

सारांशः-

सन्ध्यां गायत्र्यादिशब्दोक्तामादित्यं ‘असावादित्यो ब्रह्म’ इति वाक्यात्परब्रह्मत्वेन ध्यात्वा तस्याप्यात्मभूतं सत्यज्ञानानन्दात्मक-सजातीय-विजातीय-स्वगतरूपभेदरहितं निर्विशेषं तद्ब्रह्मैवाहमस्मीति प्रत्यग्ब्रह्मणोरैक्यानुसन्धानमेव सन्ध्योपासनमिति स्थितिः । ननु तथा सन्ध्योपासनं प्रत्यक् ब्रह्मणोरैक्यानुसन्धानानुरूपं ध्यानयोगसाधितब्रह्मात्मैकत्वदर्शनैर्महात्मभिरेव कर्तुं शक्यते तदन्यैरकृतात्मभिरनधिगतमनो विजयैर्द्विजैः कथं सन्ध्योपासनमनुष्ठेयम्’? इति चेदुच्यते- तादृशानां निरुपाधिकध्यानासमर्थानां द्विजानां ध्यानसौलभ्यार्थं | सन्ध्यादेवताया नाम-वर्ण-रूपाद्युपकल्पनव्यवस्थाऽपि कृता प्राचीनासादिमहर्षिभिः ।

अत्र कालभेदेन नामभेदं वर्णभेदं रूपभेदं चाह भगवान्व्यासः-

गायत्रीनाम पूर्वाह्ने सावित्री मध्यमे दिने ।
सरस्वतीच सायाह्ने सैव सन्ध्या त्रिषु स्मृता ॥
गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका ।
सरस्वती तथा कृष्णा चोपास्या वर्णभेदतः ॥
गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी ।
सरस्वती विष्णुरूपा चोपास्या रूपभेदतः ॥

इति ॥

एवं प्रकारेण प्रातःसन्ध्याकाले गायत्रीनाम रक्तवर्णब्रह्मरूपोपेता सन्ध्यास्वरूप आदित्यः । मध्याह्ने सावित्रीनाम शुक्लवर्णरुद्ररूपोपेतसन्ध्यास्वरूप आदित्यः । सायाह्ने सरस्वतीनाम कृष्णवर्णविष्णुरूपोपेतसन्ध्यास्वरूप आदित्यः’ । इति च विचिन्त्य तद्ब्रह्मैवाहमस्मि’ इति चिन्तनरूपमहङ्ग्रहोपासनं तैः कर्तव्यम्’ इति ॥

जपलक्षणम्

जपलक्षणमाह हारीतः-

मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ।
स उपांशुजपोऽशब्दश्चलजिह्वादशच्छदः ॥
मानसस्त्वचलज्जिह्वा दशनच्छद ईरितः ।
मुक्तिदो मानसो क्षेय उपांशुः सर्वसिद्धिदः ॥
त्रिविधो जपयजः स्याद्वाचिकः क्षुद्र कर्मणि ।

इति । गायत्रीजपस्तु मानस एव श्रेष्ठः इत्याह व्यासः

मनसैव जपं कुर्यात्सावित्र्यास्तु विशेषतः ।

इति ।
जपस्य वाचिकादिभेदेन फलतारतम्यमुक्तं माधवीये-

वाचिकाख्य उपांशुश्च मानसश्च त्रिधा स्मृतः ।
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्तर ॥

इति । अत्राह विश्वामित्रः

वाचिकं चैकमेकं स्यादुपांशुः शतमुच्यते ।
सहस्रं मानसं प्रोक्तं मन्वत्रिभृगुनारदैः ॥

इति ॥ अथाश्रमभेदाज्जपसङ्ख्यामाह याज्ञवल्क्यः-

ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् ।
वानप्रस्थो यतिश्चैव जपेदष्टसहस्रकम् ॥
अष्टोत्तरसहस्रमित्यर्थः

इति ॥ अत्राशक्तस्य सङ्ख्यामाह नारदः-

अष्टोत्तरशतं नित्यमष्टाविंशतिमेव वा ।
विधिना दशकं वाऽपि त्रिकालं प्रजपेद्बुधः ॥

इति ॥

जपसम्पत्तिसाधनानि

जपसम्पत्तिसाधनान्याह शौनकः

मनःसन्तोषणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसम्पत्ति हेतवः ॥

इति ॥ अथ गायत्रीजपगणनाप्रकार उक्तो रत्नावल्याम्

पर्वभिस्तु जपेदेवीमन्यत्रानियमः स्मृतः ।
गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते।

तत्रैव उक्तः,

सर्वैश्वापि जपः कार्यो नाङ्गुलीनां निपातनैः ।
तन्निपातैस्तु यज्जप्तं सर्वं विद्यात्तदासुरम् ।

इति ॥ पर्वभिर्जपकरणप्रकारानाह शङ्खः-

अथाङ्गुलीनां रेखाभिर्जपमम्वहमाचरेत् ॥
प्रारभ्यानामिकायास्तु मध्यमे पर्वणि क्रमात् ।
तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ॥
मध्यमाङ्गुलिमूले तु यत्पर्वद्वितयं भवेत् ।
तं वै मेरुं विजानीयाज्जपे तन्नातिलङ्घयेत् ॥
अनामिकामूलपर्व प्रारभ्यापि क्रमेण तु ।
मध्यमामूलपर्यन्तं जपेद्दशसु पर्वसु ॥
मध्याङ्गुलेर्मध्यरेखां समारभ्य प्रदक्षिणम् ।
मध्यमामूलपर्यन्तमङ्गुष्टेन यथाक्रमम् ॥
स्पृष्ट्वा द्वादशसङ्ख्या स्यादेकवारेण तन्नव ।
वाम हस्तेन सङ्ख्यातं शतमष्टोत्तरं स्मृतम् ॥

इति ॥ जपकाले निषिद्धकर्माण्याह भगवान्व्यासः-

अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्क्वचित् ।
अप्रावृतकरो वाऽपि शिरसि प्रावृतोऽपि वा ॥
न प्रकाशं न च हसन्न पार्श्वमवलोकयन् ।
नापाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदाऽऽसनमाक्रम्य न पदेन पदं तथा ।
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः ॥
चिन्ताव्याकुलचित्तो वा भ्रान्तः क्रुद्धो बुभुक्षितः ।
अनासनः शयानो वा गच्छन्नुद्धत एव वा ॥
रथ्यायामशिवस्थाने न जपेत्तिमिरावृते ।
उपानद्गूढपादो वा यानशय्यागतस्तथा ॥
प्रसार्य न जपेत्पादावुत्कटासन एव वा ।
जपेन्न प्रौढपादश्च नावष्टब्धोऽलसोऽशुचिः ॥
नासङ्ख्यायानो ह्यदर्भश्च नाशिखोऽकच्छबन्धनः ।

इति ॥ अत्राह भरद्वाजः-

निष्ठीवजृम्भणे क्रोधनिद्राऽऽलस्यक्षुधो मदः ।
पतितश्वान्त्यजा लोका दशैते जपवैरिणः ॥

इति ॥ शाण्डिल्यः-

आचार्यं भगवद्भक्तं भगवन्मन्दिरं जलम् ।
अश्वत्थमग्निमर्कं च पृष्टीकृत्य जपेन्न तु ॥

इति ॥

प्राणायामलक्षणम्

प्राणायामलक्षणम्–

बोधायनधर्मसूत्रे (४-१-२८)-

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥

(प्रणवयुतसप्तव्याहृतीरित्यर्थः) ॥

स्मृतिरत्नाकरे-

पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः ।
नासिकाकृष्ट उच्छ्वासो ध्यातः पूरक उच्यते ॥

इति ॥
प्राणायामे अङ्गुलिनियमः कर्मप्रदीपे-

अङ्गुष्ठानामिकाभ्यां तु तथैव च कनिष्ठया ।
प्राणायामस्तु कर्तव्यो मध्यमां तर्जनीं विना ॥
तर्जनी-मध्ययोर्योगं प्राणायामे तु वर्जयेत् ।
तर्जनीं मध्यमां स्पृष्ट्वा कुर्वंच्छूद्रसमो भवेत् ॥
वामहस्तेन गणयन् प्राणायामे जपेद्विजः ॥

इति ॥ अयं तर्जनीमध्ययोगनिषेधस्तु यतिब्रह्मचारिणोरेव इत्याह व्यासः-

पञ्चाङ्गुलिभिर्नासाग्रपीडनं प्रणवाभिधा ।
मुद्रेयं सर्वपापघ्नी वानप्रस्थ-गृहस्थयोः ॥
कनिष्ठानामिकांगुष्ठैर्नासाग्रस्य प्रपीडनम् ।
ॐकारमुद्रा सा प्रोक्ता यतेश्च ब्रह्मचारिणः ॥

पूरकादीनां व्यवस्थां स एवाह-

दक्षिणे रेचकं कुर्याद्वामेनापूर्य चौदरम् ।
कुम्भकेन जपं कुर्यात्प्राणायामः स उच्यते ॥

इति ॥

प्राणायामप्रयोजनम् ( बो ध. सू. ४-१-२५)-

निरोधाज्जायते वायुर्वायोरग्निश्च जायते ।
तापेनापोऽधिजायन्ते ततोऽन्तः शुद्ध्यते त्रिभिः ॥

इति ॥

प्रातःसन्ध्याप्रयोगः

प्रातःसन्ध्याप्रयोगः-अथ शुद्धवस्त्रधरो बद्धशिखो बद्धकच्छो यज्ञोपवीती प्राङ्मुख उदङ्मुखो वा दर्भेष्वासीनो दर्भान्धारयमाणः द्विराचम्य त्रिपुण्ढ्रं भस्म धारयित्वा पुनराचम्य प्राणायामं कुर्यात् ।

प्रणवस्य परब्रह्म ऋषिः । गायत्री छन्दः । परमात्मा देवता । प्राणायामे विनियोगः । वामनासिकया प्राणं प्रपूर्य- ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ओमापोज्योती रसोऽमृतं ब्रह्मभूर्भुवःसुवरोम् ॥

इति कुम्भके त्रिवारं संजप्य दक्षिणनासिकया रेचयेत् ॥

ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःसन्ध्यामुपासिष्ये ॥ ॐ आपोहिष्ठा मयोभुवः । ॐ तान ऊर्जे दधातन । ॐ महे रणाय चक्षसे । । ॐ यो वः शिवतमो रसः । ॐ तस्य भाजयतेह नः । ॐ उशत रिव मातरः । ॐ तस्मा अरं गमाम वः । ॐ यस्य क्षयाय जिन्वथ । ॐ आपो जनयथा च नः ॥

इति प्रतिपादान्ते स्वशिरसि मार्जयेत् ॥ हस्ते जलं गृहीत्वा-

ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्रिया पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्‌यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किं च दुरितं मयि । इदमहं माममृतयोनौ । सूर्य ज्योतिषि जुहौमि । स्वाहा ॥

इति पीत्वा द्विराचामेत् । ततः प्रतिमन्त्रान्तं मार्जयेत्-

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनो मुखाकरत्प्रण आयूषितारिषत् ॥ ॐ आपोहिष्ठा० चक्षसे । ॐ योवः० मातरः । ॐ तस्मा० च नः ॥ ॐ यञ्चिद्धि ते विशो यथा प्रदेव वरुण व्रतम् ॥ मिनीमसि द्यविद्यवि ॥ ॐ यत्किंवेदं वरुण दैव्ये जनेऽभिद्रोह मनुष्यश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनलसो देव रीरिषः ॥ ॐ कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुत यन्न विद्म । सर्वा ता विष्य शिथिरेव देवाथाते स्याम वरुण प्रियासः ॥

‘हिरण्यवर्णाः शुचयः’ इति चतसृभिः , ‘पवमानः सुवर्जनः’ इत्यनुवाकेन च मार्जयित्वा 1

“ॐ भूर्भुवः सुवः” इत्यात्मानं प्रदक्षिणं परिषिच्य-

ॐ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः इति त्रिभिर्हस्तेऽभिमन्त्रितजलमाघ्राय क्षितौ क्षिपेत् ॥

सूर्याभिमुख उत्थाय प्रहो मुक्ताङ्गुष्ठाभ्यां हस्ताभ्यां जलमादाय- ‘ॐ भूर्भुवः सुवः तत्सवितुः० यात् श्रीभास्कराय नमः इदमर्घ्य॑म्’ इति त्रिवारमुत्क्षिपेत् ॥ कालातिक्रमे कालातिक्रमणदोषपरिहारार्थे प्रायश्चित्तार्घ्यं करिष्ये इति सङ्कल्प्य, ‘ॐ भूर्भुवः सुवः तत्सवितुः० यात् ’ श्रीभास्कराय नमः । इदमर्घ्य॑म्, इति पूर्ववदेकमर्घ्यं दद्यात् ॥ ‘ॐ असावादित्यो ब्रह्म’ इति जलहस्तः प्रदक्षिणं प्रक्रम्योपविश्य आचम्य । ‘ॐ गायत्रीं तर्पयामि । ॐ सावित्रीं त॰ । ॐ सरस्वतीं त॰ । ॐ ऋग्वेदं त॰ । ॐ यजुर्वेदं त॰ । ॐ सामवेदं त०। ॐअथर्ववेदं त॰ । ॐ ॐ त० । ॐ श्रीस्त॰ । ॐ भूस्त॰ । ॐ भुवस्त० । ओं सुवस्त॰ । ॐ भूर्भुवःसुवस्त०’ । इति तर्पयित्वा समाहितो गायत्रीं हृदि भावयेत् ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभक्षिणि ।
तिष्ठ देवि शिखाबन्धे चामुण्डे ह्यपराजिते ॥
अपामन्तु भूतानि पिशाचाः सर्वतो दिशम् ।
सर्वेषामविरोधेन जपकर्म समारभे ॥

ॐ तत्सवितु ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः हृदयाय नमः ॥ ॐ वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः शिरसे स्वाहा ॥ ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः शिखायै वषट् ॥ ॐ धीमहि परमात्मने अनामिकाभ्यां नमः कवचाय हुम् ॥ ॐ धियो यो नः जानात्मने कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् ॥ ॐ प्रचोदयात् सत्यात्मने करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ॥

ध्यानम्

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलानिबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

एतन्न्यासादिकं एके नेच्छन्ति ॥

ओमित्येकाक्षरं ब्रह्म । अग्निर्देवता ब्रह्म इत्यार्षम् । गायत्रं छन्दं परमात्मं सरूपम् । सायुज्यं विनियोगम् । आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् । गायत्रीं छन्दसा मातेदं ब्रह्म जुवस्व मे ॥ यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते । यद्रात्रियात्कुरुते पापं तद्रात्रियात्प्रतिमुच्यते ॥ सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि । विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोम् । गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्षीनावाहयामि श्रियमावाहयामि।

इत्यावाह्य सूर्याभिमुख उत्थाय-

गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयॅ रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा साङ्ख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः पञ्चशीर्षोपनयने विनियोगः

इति छन्दोऋष्यादीन्विभाव्य-

ॐ भूः । ॐ भुवः । ओॅ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओॅ सत्यम् । ॐ तत्सवितुः ० प्रचोदयात् ॥ ओमापोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥

ॐ भूर्भुवः सुवः तत्सवितुः ॰ प्रचोदयात् ॥

इति सवितारं ध्यायन्सहस्रकृत्वः शतकृत्वो दशवारं वा जप्त्वा सूर्यमुपतिष्ठते-

ॐ मित्रस्य चर्षणी धृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥ ॐ मित्रो जानान्यातयति । प्रजानन्मित्रो दाधार पृथिवीमत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम

इति ॥

अथ तत्तदभिमुखो दिगादीनुपतिष्ठते-

ॐ नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसन्स्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याश्च देवा एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽधरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽवान्तरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यच नमो नमो गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरं जीवितं वर्धयन्ति नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः ॥ ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥ ॐ सन्ध्यायै नमः । ॐ गायत्र्यै नमः । ॐ सावित्र्यै नमः । ॐ सरस्वत्यै नमः । नम ईशानाय नमः पितृदेवेभ्यः ॥

ततः स्वस्तिकाकृतिहस्ताभ्यां भूमिं स्पृष्टा । स्वगोत्रनामोच्चारणं कुर्वन् दक्षिणहस्तेन दक्षिणं कर्ण सव्येन सव्यं च द्विवारं स्पृशेत् ॥ अथ दक्षिणाभिमुखो यममुपतिष्ठते

ॐ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमो नमः ॥

प्रत्यङ्मुखो विष्णुमुपतिष्ठते-

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाॅ सरे ॥

उदङ्मुखो रुद्रमुपतिष्ठते-

ॐ ऋतं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥

प्रदक्षिणं कृत्वा-

यां सदा सर्वभूतानि स्थावराणि चराणि च ।
सायं प्रातर्नमस्यन्ति सा मां सन्ध्याऽभिरक्षतु ॥
उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथा सुखम् ॥
स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता ।
आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजातुं ब्रह्मलोकम् ॥
चतुःसागरपर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु ।

इत्याशिषः प्रार्थयित्वा गोमातृपित्राचार्यब्राह्मणानभिवाद्योपविश्य

अनेन प्रातःसन्ध्योपासनकर्मणा श्रीपरमेश्वरः प्रीयताम्

इति परमेश्वराय समर्प्य

ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥

इति विष्णुं स्मृत्वा द्विराचामेत् ॥

इति प्रातःसन्ध्या

आशौचादौ

आशौचादौ–

राष्ट्रक्षोभे नृपाक्षिप्ते रोगार्ते शवसूतके ।
सन्ध्यावन्दनविच्छित्तिर्न दोषाय कदाचन ॥

एतद्वचनं केवलवाचिकसन्ध्याविषयम् ।

अत्राह पुलस्त्यः-

सूतके मृतके चैव सन्ध्याकर्म न सन्त्यजेत् ।
मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः ॥

इति ॥

विशेषमाह व्यासः-

प्रक्षिपेत्सूतके त्वर्घ्यं गायत्रीं तु समुच्चरन् ।
ततः प्रदक्षिणं कुर्यात् सूर्यं ध्यायेत्ततो द्विजः ॥

इति ॥


  1. वैद्यनाथीये -

    आत्मानं प्रोक्षयेत्पश्चाद्दधिक्रावण्ण इत्र्यृचा। आपोहिष्ठादितिसृभिः ऋग्भिश्च सकुशैर्जलैः ॥ व्याहृत्या तत आत्मानं परिषिञ्चेत्समाप्तये

    इति यदुक्तं तदभिषिक्तस्येति बोद्धव्यम् ॥ ↩︎