अथ कुशग्रहणम्
शातातपः-
समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन्पतत्यधः ॥
इति ॥
तत्र दशविधा दर्भा उक्ता हारीतेन-
कुशाः काशा यवा दूर्वा उशीराश्च सकुन्दकाः ।
गोधूमा व्रीहयो मुञ्जा दश दर्भाः सबल्वजाः ॥
कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः ।
कुशाभावे गृहीतव्या अन्ये दर्भा यथोचिताः॥
इति ॥
कुशग्रहणकालमाह विष्णुः-
दर्शे श्रावणमासस्य समन्त्रोत्पाटिताः कुशाः ।
अयातयामास्ते दर्भाः नियोज्याः स्युः पुनः पुनः ॥
इति ॥
कुशच्छेदनविधिमाह कौशिकः-
शुचिर्भूत्वा शुचौ देशे स्थित्वा पूर्वोत्तरामुखः ।
ॐ कारेणैव तु मन्त्रेण कुशान् स्पृष्ट्वा द्विजोत्तमः ॥
मन्त्रस्तु-
विरिञ्चिना सहोत्पन्न परमेष्ठीनिसर्गज ।
नुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥
इमं मन्त्रं समुच्चार्य स्थित्वा पूर्वोत्तरामुखः ।
हुँफट्कारेण दर्भांस्तु सकृच्छित्वा समुद्धरेत्॥
इति ॥
पवित्रलक्षणमाह कात्यायनः-
अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विजयं पवित्रं यत्र कुत्रचित् ॥
चतुर्भिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
सवर्षा वा भवेद्वाभ्यां पवित्रं ग्रन्धितं न वा ॥
अन्यान्यपि पवित्राणि कुशदूर्वामयानि च ।
हेमात्मकपवित्रस्य कलां नार्हन्ति षोडशीम् ॥
हैमेन सर्वदा सर्वं कुर्यादेवाविचारयन् ॥
इति ॥
इति कुशग्रहणविधिः ॥