०७ भस्मधारणविधिः

अथ भस्मधारणविधिः |

अथातो भस्मधारणविधिं व्याख्यास्यामः ।

भूत्यै न प्रमदितव्यम्

इति विज्ञायते ।

अथाप्युदाहरन्ति-

मध्यमा नामिकाङ्गुष्ठैस्त्रिपुण्ढ्रं भस्मना कृतम् ।
तत्त्रिपुण्ढ्रं भवेच्छस्त्रं महापातकनाशनम्॥

इति ।

त्र्यंम्बकमिति सर्वाङ्गं सम्मृजेत्

पूतो भवति दशपूर्वान्दशापरानात्मानं चैकविंशतिपङ्क्तिं पुनाति ब्रह्मणः सायुज्यं सलोकतामाप्नोति

इत्याह भगवान् बोधायनः ।

अथाप्युदाहरन्ति-

ललाटे हृदि दोर्द्वन्द्वे गले कुक्षौ शिरस्यथ ।
धारयेच्च सितं भस्म द्विजो नित्यमतन्द्रितः ॥

इति ॥

प्रयोगः

॥ अथ प्रयोगः ॥ श्रौताग्निजं गृह्याग्निजं वा सितं भस्म गृहीत्वाऽभिमन्त्रयेत् ।

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवे भवेनातिभवे भवस्व माम् । भवोद्भवाय नमः ॥ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥

इति ॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥

इति मन्त्रेण ललाटे हृदि बाहुद्वये गले कुक्षौ शिरसि च क्रमेण भस्मधारणं कृत्वा जपेत्-

अग्निरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्वँ ह वा इदं भस्म । मन एतानि चक्षूंषि भस्मानि ।

इति ॥

मध्यमानामिकाङ्गुष्ठैस्त्रिपुण्ढ्रं कुर्यात् ॥ इति भस्मधारणविधिः ॥