अथासनकल्पनम् आसनान्याह व्यासः-
कौशेयं कम्बलं चैव अजिनं पट्टमेव च ।
दारुजं ताडपत्रं वा आसनं परिकल्पयेत् ॥
कृष्णा जिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने व्याधिनाशः सर्वेष्टश्चित्रकम्बलः ॥
निषिद्धान्याह-
वंशासने तु दारिद्र्यं पाषाणे व्याधिरेव च ।
धरण्यां तु भवेद्दुःखं दौर्भाग्यं छिद्रदारुजे ॥
तृणे धनयशोहानिः पल्लवे चित्तविभ्रमः॥
इति ॥
प्रचेताः-
गोशकृन्मृण्मयं भिन्नं तथा पालाशपिप्पलम् ।
लोहबद्धं सदैवार्कं वर्जयेदासनं बुधः॥
इति ॥
स्मृत्यन्तरे-
मृगचर्म प्रयत्नेन वर्जयेत्पुत्रवान् गृही॥
इति॥
॥ इत्यासनकल्पनम् ॥