०५ आचमनविधिः

अथाचमनविधिः बोधायनीयशेषसूत्रे (४-७)

अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती नोष्णाभिः न क्षाराभिः न विवर्णाभिः न दुर्गन्धरसाभिः न सफेनाभिः न चैकहस्ताभिः न दूषिताभिः न बहिर्जानुभिः न विरलाङ्गुलिभिः न बुद्बुदाभिः न तिष्ठन्न हसन्न जल्पन्न विलोकयन्न प्रहो न प्रणतो न रोचयन् (आचामेदिति शेषः) ।

माषमग्नं तु तन्मात्रं प्रतिगृह्य त्रिः पिबेदपो गोकर्णबद्धहस्तेन त्रिराचामेत् । प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति, यद्वितीयं तेन यजुर्वेदं प्रीणाति, यत्तृतीयं तेन सामवेदं प्रीणाति। 1

प्रथमं यत्परिमृजति तेनाथर्ववेदं प्रीणाति,
यद्वितीयं तेनेतिहासपुराणानि,
यन्मुखं तेनाग्निम् ।

यत् सव्यं पाणिम् अभ्युक्षति तेन नक्षत्राणि,
यत् पादम् अभ्युक्षति तेन विष्णुं,
यच् चक्षुषी तेन चन्द्रादित्यौ,
यन्नासिके प्राणापानौ,
यचछ्रोत्रं तेन दिशो,
यद्बाहू तेनेन्द्रं,
यद्धृदयं तेन रुद्रं,
यन्नाभिं तेन पृथिवीं,
यदङ्गुष्ठयोः स्रवन्त्य् आपः - कुबेरादयः सर्वा देवताः प्रीणन्त्य् अग्निर् वायुः प्रजापतिर् अर्कचन्द्रौ मघवान्

इति वैदिकाः ।।

अनामिकाङ्गुष्ठाभ्यां चक्षुषी समुपस्पृशेत् । प्रादेशिन्यङ्गुष्ठाभ्यां तु नासिके, अङ्गुष्ठकनिष्ठिकाभ्यां तु श्रोत्रे, अङ्गुष्ट मध्यमाभ्यां तु बाहू, चतुरङ्गुलिभिर्हृदयमङ्गुष्ठेन नाभिं, सर्वैर्मूर्वानं समुपस्पृशेदेतेन विधिना युक्ता न लिप्यन्ते कदाचन इति ।

प्रकारान्तरम् (बो. प. सू. २-४-२)

अब्लिङ्गाभिस्त्रिः पिबेत्र्याहृतिभित्रिः परिमृजेदपि वा व्याहृतिभिस्त्रिः पिबेदब्लिङ्गाभिस्त्रिः परिमृजेत् । यज्ञस्य देवा देवानां यज्ञ इति यज्ञस्य देवानां च संयोगं करोतीति ।

बोधायनीयधर्मसूत्रे (१-५)

प्राङ्मुख उदङ्मुखो वाऽऽसीनः शौचम् आरभेत (शौचमिह +आचमनम् अभिप्रेतम्)।
शुचौ देशे दक्षिणं बाहुं जान्वन्तरा कृत्वा, प्रक्षाल्य पादौ पाणी चामणिबन्धात् ।
पादप्रक्षालनोच्छेषणेन नाचामेत् । यद्य् आचामेद् भूमौ स्रावयित्वा ऽऽचामेद्

इति ।

ब्राह्मेण तीर्थेनाचामेत् ।
(अङ्गुष्ठमूलं ब्राह्मं तीर्थम् । अङ्गुष्ठाग्रं पित्र्यम् । अङ्गुल्यग्रं दैवम् । अङ्गुलिमूलम् आर्षम् ।)
नाङ्गुलिभिः, न सबुद्बुदाभिः, न सफेनाभिः, नोष्णाभिः, न क्षाराभिः, न लवणाभिः, न कटुकाभिः, न कलुषाभिः, न विवर्णाभिः, न दुर्गन्धरसाभिः ।
न हसन्, न जल्पन्, न तिष्ठन्, न विलोकयन्, न प्रह्वो, न प्रणतो, न मुक्तशिखो, न प्रावृतकण्ठो, न वेष्टितशिरा, न त्वरमाणो, नायज्ञोपवीती, न प्रसारितपादो, नाबद्ध-कक्ष्यो, न बहिर्जानुः,
शब्दम् अकुर्वन् त्रिर् अपो हृदयङ्गमाः पिबेत् ।
त्रिः परिमृजेद् - द्विर् इत्य् एके ।
सकृद् उभयं स्त्रिया शूद्रस्य च ।

गताभिर्हदयं विप्राः कण्ठ्याभिः क्षत्रियः शुचिः ।
वैश्योऽद्भिः प्राशिताभिः स्यात्स्त्रीशूद्रौ स्पृश्य चान्ततः॥

इति ।

दन्तवद्दन्तसक्तेषु दन्तवत्तेषु धारणा ।
स्रस्तेषु तेषु नाचामेतेषां संस्राव (लाला) वच्छुचिः ॥

इति ।

अथाप्युदाहरन्ति-

दन्तवद्दन्तलग्नेषु यश्चाप्यन्तर्मुखे भवेत् ।
आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छुचिः ॥

इति ॥

स्वान्यद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्तत।।

इति ।

प्रयोगः

अथ प्रयोगः ॥ प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती गोकर्णाकृतिहस्तेन माषमग्नमात्रं पवित्रं शुद्धजलं दक्षिणहस्तेन प्रतिगृह्य वामेनान्वारब्धस्त्रिः पिबेत् ।

ॐ ऋग्वेदाय स्वाहा, ॐ यजुर्वेदाय स्वाहा, ॐ सामवेदाय स्वाहा,

इति ।

  • तत आस्यं त्रिः परिमृजति-

ॐ अथर्ववेदाय नमः, ॐ इतिहासपुराणेभ्यो नमः, ॐ अग्नये नमः ।

इति सार्द्रेण करेण स्पृशति,

  • “ॐ नक्षत्रेभ्यो नमः” इति सव्यं पाणिम् ।
  • “ॐ विष्णवे नमः” इति पादम् ।
  • “ॐ चन्द्राय नमः , ॐ आदित्याय नमः” इत्यङ्गुष्टानामिकाभ्यां चक्षुषी ।
  • “ॐ प्राणाय नमः । ॐ अपानाय नमः” इति प्रादेशिन्यङ्गुष्ठाभ्यां नासिके ।
  • “ॐ दिग्भ्यो नमः । ॐ दिग्भ्यो नमः” इति कनिष्ठिकाङ्गुष्ठाभ्यां श्रोत्रे ।
  • “ॐ इन्द्राय नमः । ॐ इन्द्राय नम” इति मध्यमाङ्गुष्टाभ्यां बाहू ।
  • “ॐ रुद्राय नमः” इति चतुरङ्गुलिभिर्हृदयम् ।
  • “ॐ पृथिव्यै नम” इत्यङ्गुष्ठेन नाभिम् ।
  • सर्वैर्मूर्धानं समुपस्पृशेत् ।
  • ततोऽवशिष्टाः स्रावयति - “ॐ कुबेरादिभ्यः सर्वाभ्यो देवताभ्यो नमः”, “ॐ अग्नि-वायु-प्रजापत्य्-अर्क-चन्द्र-मघवद्भयो नम” इति वा ॥

प्रकारान्तरम्-

ॐ आपो हिष्ठा… चक्षसे स्वाहा ।
ॐ यो वः शिवतमो…मातरः स्वाहा ।
ॐ तस्मा अरै…चनः स्वाहा ।

इति त्रिरपः पीत्वाऽऽस्यं त्रिः परिमृजति-

ॐ भूः, ॐ भुवः, ओँसुव

इति ॥

अपि वा-

ॐ भूः स्वाहा, ॐ भुवः स्वाहा, ओँसुवः स्वाहा ।

इति त्रिरपः पीत्वाऽऽस्यं त्रिः परिमृजति, आपोहिष्टादितिसृभिः ॥ इत्याचमनविधिः ॥


  1. एवमेव आश्वलायनः -

    ऋगादिवेदान् उच्चार्य
    स्वाहान्तान् प्रणवादिकान्।
    पृथक् त्रिः पिबेद् विप्रश्
    चतुर्थ्याऽम्बु शनैर् द्विजः॥

    इति। ↩︎