०४ स्नानविधिः

अथ स्नानविधिः दक्षस्मृतौ-

अत्यन्तमलिनः कायो नवच्छिद्र-समन्वितः ।
स्रवत्येव दिवारात्रौ प्रातःस्नातं विशोधनम् ॥
क्लिद्यन्ति च सुषुप्तस्य इन्द्रियाणि स्रवन्ति च ।
अङ्गानि समतां यान्ति उत्तमान्यधमानि च ॥

इति ॥

विष्णुः-

स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।

इति ॥

बोधायनधर्मसूत्रे (२-५)- [[बोधायनधर्मसूत्रे– स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कुर्वारन्देवर्षिपितृतर्पणम् ॥ निरुद्धासु न कुर्वीरन्नंशभाक्तत्र सेतुकृत् । तस्मात्परकृतान्सेतून्कूपांश्च परिवर्जयेत् ॥ उद्धृत्य वापि त्रीन् पिण्डान् कुर्यादापत्सु नो सदा । इति।। स्रवन्तीष्वनिरुद्धास्विति नद्यां प्रातःस्नानं देवर्षि पितृतर्पणं च विधीयते न तटाकादिषु कुल्यासु वा ]]

हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च गृह्य
तीर्थे गत्वा
त्रिः पादौ प्रक्षालयते
त्रिरात्मानम् ।
नाप्सु सतः प्रयमणं विद्यते
न वासः पल्पूलनं नोपस्पर्शनम् ।

प्रयमणं नाम शौचं = मूत्रपुरीषाद्यपनयनलक्षणम् ।
पल्पूलनं नाम = मलापनयनाय पाणिभ्यामवस्फोटनम् ।
उपस्पर्शनं नाम = आचमनम् ।

एतत् त्रयम् अप्सु सता न कर्तव्यम् इत्यर्थः ।

अथ हैके ब्रुवते-

श्मशानं, आपो, देवगृहंं, गोष्ठं,
यत्र च ब्राह्मणा,
अप्रक्षाल्य पादौ तत्र न प्रवेष्टव्यम् ।

नद्यादि-प्राकृतिक-जलाशयेष्व् एव नित्यस्नानं विहितम् । यथा-

नदीषु देवखातेषु तटाकेषु सरस्सु च ।
स्नानं समाचरेन् नित्यम्
उत्स(गर्त) प्रस्रवणेषु च ॥
सति प्रभूते पयसि
नाल्पे स्नायात् कथञ्चन ॥

इति ॥

अथ प्रयोगः ॥
स्नानयोग्यं जलाशयं सकमण्डलुर्गत्वा प्रथमं प्रक्षालित-पाणि-पाद आचम्य प्राणानायम्य-

श्रीमद्भगवतो विष्णोराज्ञया प्रवर्तमानस्याद्यब्रह्मणो द्वितीयपरार्धे
श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे
जम्बुद्धीपे, भरतखण्डे भारतवर्षे
महामेरोर्दक्षिणे पार्श्वे
श्रीमद्गोदावर्याः दक्षिणे तीरे
शालिवाहन-शके
बौद्धावतारे
गोकर्णमण्डले गोराष्ट्रदेशे भास्करक्षेत्रे
शतशृङ्गपर्वतोपान्ते
त्रयस्त्रिंशत्कोटितीर्थदेवतासन्निधौ

इत्यादियथाभिमतं देशकालौ सङ्कीर्त्य,

अस्मिन् वर्तमानकाल व्यवहारिके
अमुकनामसंवत्सरे
अमुकायनेऽमुकर्तौ
अमुकमासेऽमुकपक्षेऽमुकतिथौ अमुकवासरे
ममेह जन्मनि जन्मान्तरेषु बाल्य-कौमार-यौवन-वार्धक्यावस्थासु
मनो-वाक्-काय-कर्माभिज्ञानतोऽज्ञानतश् च
कृत कायिक-वाचिक-मानसिकादि सकल-पाप-क्षय-पूर्वकं
शरीर-शुद्ध्यर्थं प्रातःस्नानम् अहं करिष्ये

इति सङ्कल्प्य अपोऽभिप्रपद्यते-

हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थे मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः

इति सम्प्रार्थ्याञ्जलिनाऽपो गृह्णाति-

सुमित्रान आप ओषधयः सन्तु

इति ।

दुर्मित्रास्तस्मै भूयासु योऽस्मान्वेष्टि यं च वयं द्विष्मः

इति स्नातुरस्य द्वेष्यो यस्यां दिश्यस्ति तां दिशम् अपोऽभ्युश्नति अपि वा नैर्ऋत्याम् ।

अथाप उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् आवर्तयति-

यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्

इति ।

अप्सु निमज्ज्योन्मज्ज्य यद्याप उपरुद्धाः स्युरेतेनोपतिष्ठते-

नमोऽग्नयेऽप्सुमते
नम इन्द्राय
नमो वरुणाय
नमो वारुण्यै
नमोऽद्भयः ॥

इति ।। अथोत्तीर्याचम्य पुनर्मन्त्राचमनं कुर्यात्-

ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।
सर्वे पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ॥

इति ।
पुनः पवित्रे कृत्वाऽद्भिर्मार्जयति-

[[वेदमन्त्रादिः]]

ॐ आपोहिष्ठा मयोभुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे ॥ यो व शिवतमोरसस्तस्य भाजयते ह नः । उशतीरिव मातरः ॥ तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ॥ ॐ हिरण्यवर्णाः शुचयः पावका यासुजातः कश्यपो यास्विन्द्रः । अग्निं या गभै दधिरे विरूपास्तान आपः शंस्योना भवन्तु ॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पविकास्तान आप ॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीं पयसोन्दन्ति शुक्रास्तान आप० ॥ शिवेन मा चक्षुषा पश्य तापः शिवया तनुवोपस्पृशत त्वचं मे । सर्वां अग्नींरप्सुषदो हुवेवो मयि वर्चो बलमोजो निधत्त ॥ ॥ ॐ पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा ऋतूंरनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्त॒रा । ब्रह्म तेन पुनीमहे । उभाभ्यान्देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तः सधमाद्येषु । वयंस्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयो भूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर्देवमन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन । ब्रह्मणा । इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिः सम्भृतंँरसम् । सर्वँसपूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिः सम्भृतरसम् । तस्मै सरस्वती दुहे । क्षीरँसर्पिर्मधूदकम् । पावमानीः स्वस्त्ययनीः । सुदुघा हि पय॑स्वतीः । ऋषिभिः सम्भृतो रसः । ब्राह्मणेष्वमृत हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नः । देवीर्देवैः समाभृताः । पावमानोः स्व॒स्त्यय॑नीः । सुदुघा हि धृतश्चुतः । ऋषिभिः सम्भृतो रसः । ब्राह्मणेष्वमृत हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामँहिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रमणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु ॥

[[वेदमन्त्रान्तः]]

इति मार्जयित्वाऽन्तर्जल एव ।। अघमर्षणेन त्रीन्प्राणायामान् धारयेत्-

[[वेदमन्त्रादिः]]

ॐ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः । समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद् विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः ॥

[[वेदमन्त्रान्तः]]

इति ॥ ततोऽद्भ्य उत्तीर्य वासः पीडयित्वा प्रक्षालितशोषिताक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् । अथादित्यमुपतिष्ठते-

[[वेदमन्त्रादिः]]

ॐ उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् । ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय॒ सूर्यम् ॥ ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आ प्रा द्यावापृथिवी अन्तरिक्षँसूर्य आत्मा जगतस्तस्थुषश्च ॥ ॐ तश्चक्षुर्देवहितं पुरस्ताच्छुक्रमुञ्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतँश्रृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदः शतं ज्योक सूर्ये दृशे ॥ य उदगान्महतोऽर्णवाद्विभ्राज॑मानः सरिरस्य मध्यात्समावृषभो लौहिताक्षः ।। सूर्यो विपश्चिन्मनसा पुनातु ॥

[वेदमन्त्रान्तः]]

इत्युपस्थाय स्नानाङ्गतर्पणं कुर्यात्-

प्राङ्मुखो देवतीर्थेन- ब्रह्मादयो ये देवास्तान्देवाँस्तर्पयामि ।
भूर्देवाँस्तर्पयामि । भुवर्देवाँस्तर्पयामि । सुवर्देवाँस्तर्पयामि । भूर्भुवःसुवर्देवाँस्तर्पयामि ॥

उदङ्मुखो निवीत्यङ्गुलिमूलेन वामपार्श्वेन- कृष्णद्वैपायनादयो ये ऋषयस्तान् ऋषीँस्तर्पयामि तर्पयामि । भूः ऋषींस्तर्पयामि तर्पयामि । भुवः ऋषींस्तर्पयामि तर्पयामि । सुवः ऋषींस्तर्पयामि तर्पयामि । भूर्भुवःसुवः ऋषींस्तर्पयामि तर्पयामि ॥

दक्षिणामुखः प्राचीनावीती पितृतीर्थेनाङ्गुष्टतर्जनीमध्येन- वैशम्पायनादयो ये पितरस्तान्पितॄन्स्वधानमस्तर्पयामि तर्पयामि तर्पयामि ।
भूः पितॄन्स्वधानमस्तर्पयामि तर्पयामि तर्पयामि ।
भुवः पितॄन्स्वधानमस्तर्पयामि तर्पयामि तर्पयामि ।
सुवः पितॄन्स्वधानमस्तर्पयामि तर्पयामि ।
भूर्भुवःसुवः पितॄन्स्वधानमस्तर्पयामि तर्पयामि तर्पयामि ॥

अथोपवीती-

यन्मया दूषितं तोयं शारीर मलसङ्क्षयात् ।
तद्दोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहम् ॥
इति यक्ष्माणं तर्पयित्वा वस्त्रं निपीडयन्-
ये केचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

दक्षिणामुखस्तिष्ठन्-

स्नातोऽहं सर्वतीर्थेषु स्रवन्मद्देहजं जलम् ।
तत्पानकामाः पितर आगच्छन्तु पिबन्तु च ॥

तत आचमेत् ॥ इति स्नानविधिः ॥