०३ शौचविधिः दन्तधावनविधिश्च

अथ शौचविधिः दन्तधावनविधिश्च।
बोधायनगृह्यशेषसूत्रे (४-६)-

अथातः शौचविधिं व्याख्यास्यामः । ग्रामाद्दूरतो गत्वा यज्ञोपवीतं शिरसि दक्षिणे कर्णे वा कृत्वा मृत्तिकां गृह्णाति । काष्ठमन्तर्धाय मध्य उपविशेत् । अहन्युत्तरत उपेयान्निशायां दक्षिणत उभयोः सन्ध्ययोरुदङ्मुखः । नाग्निं नापो न नग्नो वृक्षमूले पर्वतमूले चतुष्पथेऽग्न्यागारे गवां मध्ये गोष्ठे दहनपुलिनवर्जमन्तर्जले देवगृहे वल्मीके मूषिकस्थले प्रत्यग्निं प्रतिसूर्यं प्रत्यगारं प्रतिगां प्रतिब्राह्मणं च (मूत्रपुरीषादिकं न कुर्यादिति शेषः)

एकां लिङ्गे मृदं दद्यात्सव्ये पाणौ मृदस्त्रयः
उभयोर्द्विर्मृदं दद्यान्मूत्रवच्छौचमिष्यते ॥
पञ्चापाने दशैकस्मिन्नुभयोः सप्तमृत्तिकाः ।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ॥
त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् ।
यद्दिवा विहितं शौचं तदर्धं निशि कीर्तितम् ॥
तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि ।
स्त्रीशूद्रबालवृद्धानामर्धं रेतसि मूत्रवत् ॥

इति ॥
बोधायनधर्मसूत्रे (१-५-१०)-

अथ शुष्कं तृणमयाज्ञिकं काष्ठं लोष्टं वा तिरस्कृत्याहोरात्रयोरुदग्दक्षिणामुखः प्रावृत्य शिरः उच्चरेदवमेहेद्वा । मूत्रे मृदाऽद्भिः प्रक्षालनम् । त्रिः पाणेः । तद्वत्पुरीषे । पर्यायास्त्रिस्त्रिः पायोः पाणेश्च।

इति॥
गण्डूषविधिमाह भगवानाश्वलायनः-

मूत्रे पुरीषे भुक्त्यन्ते मोहेनाभक्ष्यभक्षणे ।
चत्वार्यष्टद्विषड्यष्ट-गण्डूषास्तु समीरिताः ॥

इति ॥
अथ दन्तधावनस्यावश्यकतामाह वृद्धशातातपः-

मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ।
तस्मात्सर्वप्रयत्नेन भक्षये (कुर्यात्) द्दन्तधावनम्॥

इति ॥
तस्य काल उक्तो दक्षस्मृतौ-

उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथाविधि
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥

इति ॥
निषिद्धदिनान्युक्तानि नृसिंहपुराणे-

प्रतिपद्दर्शषष्ठीषु नवम्यां चैव सत्तमाः ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥

इति ॥
स्मृत्यन्तरे-

अष्टम्यां च चतुर्दश्यां पर्वस्वपि च वर्जयेत् ।
द्वादश्यां च नवम्यां च न श्राद्धेऽह्नि कदाचन ॥

इति ॥
अथ काष्ठानि नारदशिक्षायाम्-

आम्रपैलालबिल्वानामपामार्गशिरीषयोः ।
वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ॥
खदिरश्च करञ्जश्च करवीरकदम्बकौ ।
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥
कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ।
कनिष्ठिकाग्रवत्स्थूलं पर्वाग्रगतकूर्चकम् ॥
अभावे दन्तकाष्ठानां प्रतिषिद्धदिने तथा ।
अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ॥
तृणपर्णैः सदा कुर्यादमामेकादशीं विना ।
तत्रापि च प्रकुर्वीत जम्बुनिम्बाम्रपल्लवैः ॥
उदिते तु सहस्रांशौ यः कुर्याद्दन्तधावनम् ।
सविता भक्षितस्तेन पितृवंशस्य घातकः ॥

इति ॥
एतेन प्रतिपद्वयचतुर्दश्यष्टमीद्वादशीव्यतीपातवैधृतिरविवासरोपवासव्रतश्राद्धजन्मदिनेषु त्रिजन्मदिनेषु च दन्तधावनं न कार्यम् इत्यवगम्यते ॥

अथ प्रयोगः ॥ शुष्कं तृणं अथवाऽयाज्ञिकं काष्ठं लोष्टं वाऽन्तरा कृत्वाऽहश्चेदुदङ्मुखो रात्रौ चेद्दक्षिणामुखः उभयोः सन्ध्ययोरुदङ्मुखः शिरः प्रावृत्य यज्ञोपवीतं दक्षिणे कर्णे कृत्वा मूत्रपुरीषोत्सर्गं कुर्यात् । केवलमूत्रोत्सर्गे तु मृदाऽद्भिर्लिङ्गस्य सकृत्प्रक्षालनम् । पाणेस्तु त्रिवारं प्रक्षालनम् । पुरीषोत्सर्गे तु पायोः पाणेश्च त्रिवारं प्रक्षालनं विहितम् । तथैव केवलमूत्रोत्सर्गे गण्डूषं चतुर्वारं पुरीषेऽष्टवारं विहितम् । ततस्तूष्णीमाचम्योक्तकाष्ठेन सूर्योदयात्प्राक् दन्तधावनं कार्यम्॥

आयुर्बलं यशो वर्चः प्रजां पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
मुखदुर्गन्धनाशाय दन्तानां च विशुद्धये ।
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥

आभ्यां मन्त्राभ्यां जिह्वां दन्तांश्च विशोध्य काष्ठं - प्रक्षाल्य शुचौ देशे समुत्सृजेत् ॥ इति शौचविधिः दन्तधावनविधिश्च ॥