०२ प्रातःस्मरणम्

अथ प्रातःस्मरणम्

अथ रात्रेरुपान्त्ययामे तल्पादुत्थाय श्रीमहागणपतिं स्मृत्वा हस्तपादं प्रक्षाल्य तूष्णीमाचम्य पठेत्-

०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...

०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...

प्रात᳓र् अग्नि᳓म् प्रात᳓र् इ᳓न्द्रं हवामहे
प्रात᳓र् मित्रा᳓व᳓रुणा प्रात᳓र् अश्वि᳓ना
प्रात᳓र् भ᳓गम् पूष᳓णम् ब्र᳓ह्मणस् प᳓तिम्
प्रातः᳓ सो᳓मम् उत᳓ रुद्रं᳓ हुवेम

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...

०२ प्रातर्जितं भगमुग्रं ...{Loading}...

प्रातर्-जि᳓तं +++(=जयशीलं)+++ भ᳓गम् उग्रं᳓ हुवेम
वयं᳓ पुत्र᳓म् अ᳓दितेर् यो᳓ विधर्ता᳓।
आध्र᳓श् +++(=दरिद्रश्)+++ चिद् यं᳓ म᳓न्यमानस् तुर᳓श्+++(=त्वरमाणो)+++-चिद्
रा᳓जा चिद् यं᳓ भ᳓गं भक्षी᳓+++(=भजामी)+++त्या᳓ह ॥२॥

०३ भग प्रणेतर्भग ...{Loading}...

०३ भग प्रणेतर्भग ...{Loading}...

भ᳓ग प्र᳓णेतर्, भ᳓ग स᳓त्यराधो!
भ᳓गेमां᳓ धि᳓यम् उ᳓दवा +++(=रक्ष)+++ द᳓दन् नः ।
भ᳓ग प्र᳓ णो जनय गो᳓भिर् अ᳓श्वैर्
भ᳓ग प्र᳓ नृ᳓भिर् नृव᳓न्तः स्याम ॥३॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...

०४ उतेदानीं भगवन्तः ...{Loading}...

उते᳓दा᳓नीं भ᳓गवन्तः स्याम+
+उत᳓ प्रपित्व᳓ +++(=सायङ्काले)+++ उत᳓ म᳓ध्ये अ᳓ह्नाम् ।
उतो᳓दिता मघ-वन्त्! सू᳓र्यस्य
वयं᳓ देवा᳓नां सुमतौ᳓ स्याम ॥४॥

०५ भग एव ...{Loading}...

भग॑ ए॒व भग॑-वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम
तं त्वा॑ भग॒ सर्व॒ इज् जोहवीमि॒ +++(←जोहवीतीति शाकले)+++
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥

०६ समध्वरायोषसो नमन्त ...{Loading}...

०६ समध्वरायोषसो नमन्त ...{Loading}...

स᳓म् अध्वरा᳓योष᳓सो नमन्त,
दधिक्रा᳓वेव +++(=pegasus-अश्व इव खे)+++ शु᳓चये पदा᳓य +++(प्रोष्ठ-पदरूपेण खे, आधाने ऽश्वक्रमवद् भुवि)+++।
+++(खचक्रे विपरीतदिशि स्वनक्षत्रय् उत्तर-फाल्गुने वर्त्तित्वाद्)+++
अर्वाचीनं᳓ वसु-वि᳓दं +++(=धनलब्धारं)+++ भ᳓गं नो
र᳓थम् इवा᳓श्वा वाजि᳓न आ᳓ वहन्तु ॥६॥
+++(३००० BCE इति काले फाल्गुनीषु प्रोष्ठपदासु च सौरायनवर्तनम् अदृश्यतेति प्रासङ्गिकं स्यात्।)+++

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

अ᳓श्वावतीर् गो᳓मतीर् न उषा᳓सो
वीर᳓वतीस् स᳓दम् उच्छन्तु +++(=प्रभातं कुर्वन्तु)+++ भद्राः᳓ ।
घृतं᳓ दु᳓हाना विश्व᳓तः प्र᳓पीना +++(=आप्यायन्त्यः)+++
यूयं᳓ पात स्वस्ति᳓भिस् स᳓दा नः ॥७॥

०४ अद्या नो ...{Loading}...

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सौ᳓भगम् ।
प᳓रा दुष्-ष्व᳓प्न्यं सुव

०५ विश्वानि देव ...{Loading}...

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

[[वेदमन्त्रादिः]]

दुःस्वप्ने पापस्वप्ने च यद्भयं स्वप्नाशने यद(??)मेध्यदर्शने । अग्निर्यविष्ठ्यः प्रणुदतु तद्भुयं शन्नः प्रजाभ्यः शमनः पशुभ्यः ॥

[[वेदमन्त्रान्तम्]]

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥

प्रातर्भजामि मनसो वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेति नेति वचनैर्निगमा अवोचुस्तं।
देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥

प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥

समुद्रवसने! देवि! पर्वतस्तनमण्डले! ।
विष्णुपत्नि! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥५॥

जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥६॥

न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य स्वनित्यः॥७॥

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधियच्छति ॥८।‌।

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥९॥

भृगुः बलिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।
रैभ्यो मरीचिश्चवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥१०॥

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्तस्वराः सप्तरसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥११॥

सप्तार्णवा सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥१२॥

पृथ्वी सगन्धा सरसास्तथाऽऽपः स्पर्शी च वायुर्ज्वलनः।
स तेजाः नभः सशब्दं महता सहैते कुर्वन्तु सर्वे मम सुप्रभातम् ॥१३॥

इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा शृणुयाच्च नित्यम् ।
दुःस्वप्न नाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥१४॥

इति प्रातःस्मरणम् ॥