०१ मङ्गलाचरणम्

अथ मङ्गलाचरणम्

श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः
श्रीमद्भगवद्बोधायनाचार्येभ्यो नमः ॥ श्रीरस्तु

श्रीमान्मङ्गलमूर्तिराशु निखिलान्विघ्नान्हरेद्विघ्नराट्
देवः सोऽपि महाबलो निखिलदः सिद्धिं क्रियादीप्सिताम् ।
सा चाम्बाऽखिललोकमङ्गलकरी गौरी विदध्याच्छिवं
श्रीगोकर्णविभूषणाश्चिरममी क्रीडन्तु नश्चेतसि ॥१॥

वन्दामहेऽभिवन्द्यां मन्दस्मितनिन्दितेन्दुसौन्दर्याम् ॥
वाचां प्रचोदयित्रीं वरदां वागीश्वरीं देवीम् ॥२॥