०१ उपोद्घातः

इह खलु संसारे सर्वेषां प्राणिनां सुखसम्पादने दुःखनिवारणे च स्वाभाविको प्रवृत्तिः । यन्नामसुखं तद्विविधम्, नित्यमनित्यञ्च । लौकिकं सुखं सर्वथा अनित्यमेव । सदसद्विवेकबुद्धिशालिनो मानवस्याऽयं विशेषो यदलौकिकस्य शाश्वतस्य सुखस्य भावना तेन कृता तत्सम्पादनार्थमुपायश्चाऽपि अन्वेषितः ।

यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः

इति लक्षणाऽन्वितस्य धर्मस्य यथार्थमनुष्ठानेन उभयोरपि अभ्युदयनिःश्रेयसयोः सिद्धिर्भवेत्

इति सिद्धान्तो भारतवर्षे सुप्रतिष्ठितः ।

नित्य-नैमित्तिक-काम्यरूपाणि कर्माणि वेदे विहितानि यथावदनुष्ठितानि ऐहिकाऽमुष्मिकफलप्रदानि भवन्तीत्यस्मिन् सिद्धान्ते स्वयं वेद एव प्रमाणम् ।

प्रत्यक्षेणाऽनुमित्या वा यस्तूपायो न बुध्यते ।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता

इति वेदस्याऽलौकिकोपायबोधकत्वं सर्वप्रसिद्धम् ।

अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः

इति स्मृत्युक्तवचनानुसारेण च स्वयम्भुवो ब्रह्मणो वाच आविष्कारो नाम वेदः, स चाऽनादिर्नित्यश्च । पुरुषविशेषाऽकृतत्वात् सोऽपौरुषेय इत्यप्युच्यते । पुरा एक एव वेद आसीत् स कालेन चतुर्धाऽभवदिति पुराणप्रसिद्धिः । वेदो नाम ज्ञानं तच्चैकरूपमिति विचार्यमाणे वेदस्यैकत्वमप्युपपादयितुं शक्यम् । वस्तुतस्तु वेदस्त्रिधा चतुर्धा वा भिद्यते ऋग्यजुःसामरूपेण ऋग्यजुःसामाऽथर्वरूपेण वा तत्र ऋचो नाम देवतानां छन्दोबद्धा स्तुतिः । न केवलं स्तवनेन देवताः प्रीता भवन्ति, अपि तु हविष्प्रदानमपि ताभ्य आवश्यकम् । तेन सन्तुष्टा देवता यजमानायाऽभीष्टं लौकिकं पारलौकिकञ्च फलं प्रयच्छन्ति । तदेतद्धविष्प्रदानमग्निमुखेन भवति तेन च हविःसम्पादनाऽग्निधारणमण्डपनिर्माणादि कार्यजातं विस्तारबहुलं समपद्यत । सकलोऽप्येष विषयो मन्त्रब्राह्मणात्मके यजुर्वेदेऽन्तर्भूतः ।

गानेन भूतान्यपि तुष्यन्ति किमुत देवताः ?
यागादिषु सामगानेन देवताः प्रीणनीया:

इति विधिर्भवति । गानानां तद्योनिभूतानामृचाञ्च सङ्ग्रहार्थे सामवेदस्याऽऽविर्भावः । अधीताथर्ववेदस्य ब्रह्मत्वे अधिकारः । सगणस्य ब्रह्मणो यागे प्रयोगसाहाय्यार्थमुपयोज्यानां मन्त्राणां समावेशोऽथर्ववेदे कृतः ।

एतेषां वेदानां प्रचलिताऽध्ययनपरम्पराणां विविधाः शाखाः समजायन्ता आहत्य कियत्यो वा शाखा अभवन्निति विषये विप्रतिपत्तिर्दृश्यते । तत्र

एकतिमध्वर्युशाखा, एकविंशतिधा बाह्वृच्यं, सहस्रवर्त्मा सामवेदो, नवधाऽथर्वण

इति महाभाष्ये पतंजलिः । चरणव्यूहमतेन ऋग्वदेस्य पञ्चशाखा अभवन्

शाकला-बाष्कला-आश्वलायना-शाङ्खायना-माण्डूकायना

इति । यजुर्वेद “कृष्णः शुक्लश्च” इति भेदरु वर्तेत, तत्र एकशतशाखासु, षडशीतिः कृष्णयजुर्वेदस्य पञ्चदश च शुक्लयजुर्वेदस्य । कृष्णयजुर्वेदस्य

कठाः कपिष्ठलकठा मैत्रायणीयास्तैत्तिरीया

इत्यादयो भैदा भवन्ति, तत्र तैत्तिरीयशाखायाः पुनः

औखेयाः खाण्डिकेयाश्च

इति भेदौ भवतः ।

खाण्डिकयानामपि पञ्च भेदाः

इति चरणव्यूहकारेणोक्ताः । तेषु बोधायनशाखा न निर्दिष्टा । तद्भाष्यकारेण महीदासेन तु वैदशाखाविभागे सा निर्दिष्टा । सूत्रसम्बन्धिन एते भेदा न शाखासम्बन्धिनः । तैत्तिरीयशाखासूत्रकारेषु बोधायनाचार्यः प्राथम्यमर्हतीत्यत्र तैत्तिरीयशाखाभाष्यकारः भट्टभास्करमिश्रः प्रमाणम् । स्वकीयतैत्तिरीयसंहिताभाष्यस्यादौ सः -

प्रणम्य शिरसाचार्यान् बोधायनपुरस्सरान् ।
व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते

इति बोधायनपुरस्सरान् सूत्रकृत आचार्यान्नमस्कुरुते । तत्रैव -

वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादिभाष्याण्यतो भाष्यं सर्वपथीनमेतदधुना सर्वीयमारभ्यते

इति बोधायनश्रौतसूत्रभाष्येष्वादिमत्वेन ख्यातं भवस्वामिभाष्यमपि तेन सादरं निर्दिष्टम् । सत्याषाढसूत्रस्य वैजयन्तीव्याख्याकारो महादेवो व्याख्याया उपक्रमे तैत्तिरीयशाखासूत्रकारान् प्रणमति -

यत्राऽकरोत्सूत्रमतीव गौरवाद्बोधायनाचार्यवरोऽथगुप्तये ।
तथा भरद्वाजमुनीश्वरस्तथाऽऽपस्तम्ब आचार्य इदं परं स्फुटम् ॥
अतीव गूढार्थमनन्यदर्शितं न्यायैश्च युक्तं रचयन्नसौ पुनः ।
हिरण्यकेशीति यथार्थनामभागभूद्वरानुष्टमुनीन्द्रसम्मतात् ॥
वाधूल आचार्यवरोऽकरोत् परं सूत्रन्तु यत्केरलदेशसंस्थितम् ।
वैखानसाचार्यकृतं त्वथापरं पूर्तेन युक्तन्त्विति सूत्रषड्विधाः ॥

एवं महादेवेन व्याख्याकारेण बोधायानो भरद्वाज आपस्तम्बः सत्याषाढो वाधूलो विखनाश्चेति तैत्तिरीयशाखासूत्रकाराः परिगणिताः, तत्र च बोधायनाचार्यस्य प्राथम्यं स्पष्टं निर्दिष्टम् । आधुनिका ऐतिह्यविदो भाषाशास्त्रविदश्च बोधायनसूत्रस्य प्राचीनतमत्वमैकमत्येनोद्घोषयन्ति । अत्रेदमवधारणीयं यद्बोधायनः “प्रवचनकारः” इति ख्यातः । तथा चोत्सर्जनप्रतिपादके बोधानगृह्यसूत्रे (३.९.९)

कण्वाय (काण्वाय?) बोधायनाय प्रवचनकाराय

इति सूत्रितम् । बोधायनसूत्रग्रन्थस्य शैल्यपि प्रवचनरूपा दृश्यते । अन्ये भरद्वाजादीनां सूत्रग्रन्थाः सूत्रशैलीमनुसरन्ति, सर्वेषु सूत्रेषु च ते आचार्याः सूत्रकृत्त्वेनोपवर्णिताः । ऐतिह्यविदां मते

बोधायनानन्तरं भरद्वाजः, तत आपस्तम्बः, ततः सत्याषाढो हिरण्यकेशः ततश्च विखना (वैखानससूत्रकर्ता )

इति कालानुक्रमः ।

यद्यपि महादेवो व्याख्याकारः सत्याषाढोत्तरं वाधूलं निर्दिष्टवान् तथापि वाधूलो न तावताऽर्वाचीनः । तत्सूत्रस्थभाषा रचनाशैली च तं प्राचीनतमसूत्रकारेष्वन्यतमं गणयितुं प्रभवतः । एतत्सूत्रानुसारिणः केचन केरलेषूपलभ्यन्ते । अग्निवेश्यो नाम कश्चनाचार्य आसीत् । तेन विरचितमाग्निवेश्यगृह्यसूत्रं मुद्रितं वर्तते । बोधायनगृह्यसूत्रेणाऽस्य दृढः सम्बन्धः प्रतीयते । वाधूलानामपि कश्चन सम्बन्धो बोधायनसूत्रे दृश्यते । वाधूला आग्निवेश्याश्च साम्प्रतमपि

केरलेषु तत्समीपवर्तिदेशेषु च निवसन्ति । तेन केरलेषु द्रविडेषु च पुरातने काले बोधायनीयशाखाप्रचार आसीत्

इति दृश्यते । ऐतिह्यमपि तत्प्रमाणयति । आग्निवेभ्यसूत्रे वाधूलसूत्रे च औखेयस्य निर्देश उपलभ्यते । तेन कच्चित्सूत्रद्वयमिति तच्छाखावलम्बि वा न वेति आशङ्का भवति । आन्ध्रेषु केषुचन स्थलेषु बोधायनीया न्यवसन् । कर्णाटदेशे प्राचीनकालादारभ्य बोधायनीयशाखायाः प्रचार आसीत् । विख्याता वेदभाष्यकाराः सायणाचार्याः स्वयं बोधायनीया आसन् यतस्तैः स्वकीयतैत्तिरीयसंहिताभाष्यारम्भे बोधायनाचार्याणां वन्दनं कृतं दृश्यते । अपि च

बोधायनादिसूत्रोदाहरणपूर्वकं ब्राह्मणानुसारेण मन्त्रार्थं योजयामः

इति तैरुपोद्घातस्यान्ते उक्तम् । बोधायनीयदर्शपूर्णमासेष्टिप्रयोगो भाष्यञ्च तैर्विरचितम्।

यद्यपि साम्प्रतमस्य कल्पस्यानुचरा विशिष्य द्रविडदेशस्य कर्नाटदेशस्य च नियते प्रदेश उपलभ्यन्ते, तथाऽपि पुरातने काले बहुलेषु देशेषु निवसन्तो जनास्तमनुसरन्त आसन्निति न तिरोहितमैतिह्यविदाम् । देशशाखाविभागबोधकः कश्चित्पटः पञ्चवटीक्षेत्रे उपलब्धस्तत्र तैत्तिरीयशाखाविषय एवमुक्तम् -

तैत्तिरीया गोदादाक्षिणदेशे, औख्या आन्ध्रदेशे, काण्डिकेया दक्षिणदेशे प्रसिद्धाः, आपस्तम्बीया आन्ध्रदेशे, बोधायनीयाः शेषदेशे ।

एतावता तत्पटकारस्याभिप्राय एवं यद्बोधायनीया गोदादक्षिणदेशस्य बहुतरप्रदेशे न्यवसन्

इति ।

ताम्रपटादिलेखेभ्यो ज्ञायते यत् सहस्राधिकवर्षेभ्य आरभ्य बोधायनशाखायाः प्रचारः केरलदेशे, द्रविडदेशे, आन्ध्रदेशे, कर्णाटदेशे, महाराष्ट्रदेशे, गुर्जरदेशे चासीत्

इति ।

बोधायनीयकल्पस्य व्यवहारो न केवलं बोधायनानुयायिकर्मानुष्ठानपरिच्छिन्न आसीत्, अपि तु अन्यशाखीयानां कर्माण्यपि स स्पृशति स्म । तथा च बह्वृचादीनां श्रौतकर्मानुष्ठानावसर आध्वर्यवार्थं, यजुर्वेदस्य विविधासु शाखासु का शाखा आदर्तव्या इत्याकाङ्क्षायां बोधायनशाखाऽङ्गीकर्तव्येति प्राचीनपरम्परया निर्णीतम् । तथा चोक्तम् -

यजुषां बहुशाखत्वात् सन्देहे समुपस्थिते ।
कां शाखामवलम्बेरन्तादृशीं बह्वृचादयः ॥
आध्वर्यवं याजमानं ग्राह्य बोधायनीयकम् ।
अन्यथा पतितो ज्ञेय इति बोधायनोऽब्रवीत् ॥
आध्वर्यवं याजमानमाग्नीध्रं यच्च नोदितम् ।
तत्र बौधायनं ग्राह्यं बह्वृचादिभिरादरात् ॥
श्रौतं स्मार्तञ्च यत्कर्म स्वशाखायां न विद्यते ।
बोधायनोक्तं तद्ग्राह्यं बह्वृचादिभिरादरात्

इति । अनया रीत्या बह्वृचादिभिः श्रौते कर्मणि याजमानार्थमाध्वर्यवार्थञ्च बोधायनकल्पोऽनुसर्तव्य इति प्राचीना परिपाटी । प्रपञ्चहृदयसंज्ञको ग्रन्थः केनचित्केरलदेशीयेन रचितो मुद्रित उपलभ्यते । तत्र तेनाऽऽश्वलायनशाखया सह बोधायनशाखा निर्दिष्टा । तेन तत्राऽपि आश्वलायनीया आध्वर्यवार्थं बोधायनशाखामङ्गीकुर्वन्ति स्मेति दृश्यते । आपस्तम्बशाखाऽपि विकल्पेनाऽङ्गीकर्तव्येत्येतदर्थं वचनानि सन्ति ।

नर्मदादक्षिणे भागे आपस्तम्बाश्वलायनी ।
राणायनी पिप्पला च यज्ञकन्याविभागितः

इति चरणव्यूहभाष्यकारेण महीदासेनोक्तम् । पुनरपि तेनोक्तम् -

अध्वर्यूद्गातृहोतॄणां सन्ति सूत्राण्यनेकशः ।
यत्रास्ति योनिसम्बन्धः सूत्रज्ञानफलान्वितः

इति ।

बोधायनकल्पस्य सर्वेषु तैत्तिरीयकल्पेषु प्राचीनतमत्वात्तैत्तिरीयशाखाया अर्थज्ञानार्थं तच्छाखीयविधीनां मूलज्ञानार्थञ्चाऽयं कल्प एवाऽऽदिमं साधनमिति युक्तियुक्तम् । इतिहासविद्भिः कश्चित्प्रश्न उपस्थापितो यत्प्राचीनकाले आर्यावर्ते यजुर्वेदस्य कठशाखा बहुभिरनुस्रियमाणा आसीत्, परं ततोऽनन्तरं कुतः सा स्मृतिशेषं गतेति । अस्य समाधानमेवं दृश्यते यद्गच्छता कालेनाऽऽर्यावर्ते वैदिकाचरणस्य प्रधानं केन्द्रं स्थानात् स्थानान्तरं प्रस्थितम् । एवं क्रमेणाऽऽर्यावर्तस्य पूर्वस्यां दक्षिणस्याञ्च दिशि तत्सङ्क्रान्तम् । पूर्वस्यां दिशि शुक्लयजुर्वेदस्य प्रचारो दृढोऽभवत् । कृष्णयजुर्वेदस्य तैत्तिरीयशाखायाः प्रचारः कुरुपाञ्चालादिदेशेष्वासीत् । तत उत्तरं स दक्षिणदेशेऽपि जातः । कठादयो य आर्यावर्त एव स्वस्थाने स्थिरीभूतास्तेषामध्ययनाऽनुष्ठानपरम्परा क्रमशो जीर्णाऽभवत्, शाखान्तरीयैः सम्बन्धश्च शिथिलीभूतः । अस्तु तावत् ।

बोधायनश्रौतसूत्रं त्रिंशत्प्रश्नपरिमितम् । कृष्णयजुर्वेदतैत्तिरीयशाखामवलम्ब्य श्रौतकर्मानुष्ठानप्रवचनानि बोधायनमहर्षिभिः कृतानि, तानि तच्छिष्यैरधीत्य स्वाशिष्यान् पाठितानि । एवं परम्पराक्रमेणाऽऽगतानि तानि लिखितरूपं धारयित्वा काले मुद्रुतावतारं प्राप्तानि । तत्रादित आरभ्य एकोनविंशप्रश्नं यावन्मूलसूत्रभागः, ततो विंशादित्रयोविंशान्ताश्चत्वारः प्रश्नाद्वैधसूत्रं यत्र बोधायनीयशाखीयानामाचार्याणां बोधायनसहितानां तेषु तेषु विषयेषु वर्तमानानि मतान्तराणि क्रमशः सङ्ग्रहीतानि । चतुर्विंशादिषड्विंशान्तास्त्रयः प्रश्नाः कर्मान्तसूत्रं मूलसूत्रपरिशिष्टरूपं, सप्तविंशाद्येकोनत्रिंशान्तास्त्रयः प्रश्नाः प्रायश्चित्तसूत्रं, त्रिंशः प्रश्नः शुल्बसूत्रञ्च । तत उत्तरं प्रवरसूत्रं पृथग्रूपेण वर्तते। बोधायनगृह्यसूत्रं चतुःप्रश्नात्मकम् । तत्र महर्षिणा

यथो एतद्धुतः प्रहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञसंस्था इति

इत्युपक्रम्य, हुतादयः पाकयज्ञसंस्थाः क्रमेण प्रोक्ताः, तदनुकृतयोऽप्युपवर्णिताः, अन्ते च चतुर्थाध्याये प्रायश्चित्तान्युक्तानि । विवाहसंस्कारो गर्भाधानं पुंसवनं सीमन्तोन्नयनमिति हुतानि। जातकर्मनामकरणमुपनिष्क्रमणमन्नप्राशनं चूडाकर्मेति प्रहुतानि । उपनयनं समावर्तनमित्याहुते । वैश्वदेवहोमः पञ्चमहायज्ञाश्चेति बलिहरणानि । शूलगवः प्रत्यवरोहणमष्टकाहोम इति प्रत्येकमेकमेव कर्म । हुतादीनामनुकृतिरूपाणि कानिचित्कर्माणि भवन्ति। बोधायनगृह्यपरिभाषासूत्रं प्रश्नद्वयात्मकं वर्तते । तत्तु प्रायो गृह्यसूत्रोक्तविषयपरिपूर्तिरूपम् । बोधायनगृह्यशेषसूत्रे, अनुक्तानां शान्त्यादिकर्मप्रतिपादकविषयाणां विनिवेशः कृतोऽस्ति । मुद्रितगृहशेषसूत्रं पञ्चप्रश्नात्मकं वर्तते । परं केषुचन लिखितपुस्तकेषु अधिकांश उपलभ्यते । बोधायनपितृमेधसूत्रं प्रश्नत्रयात्मकम् । प्रश्नद्वये मृताहिताग्निसंस्कारं सर्वं प्रतिपाद्य पुनरपि तृतीये प्रश्ने आहिताग्न्यनाहिताग्न्युभयसाधारणो दहनकल्पः सप्रायश्चित्त उक्तः । खण्डत्रयात्मकं पितृमेधशेषसूत्रमपि पृथग्विद्यते । बोधायनधर्मसूत्रे चतुःप्रश्नात्मके वर्णाश्रमधर्मा आचारो व्यवहारः प्रायश्चित्तमिति विषयाः प्रपञ्चिताः । एत एव विषया बोधायनस्मृतौ चतुःप्रश्नात्मिकायां प्रतिपादिताः। एतावान् बोधायनीयश्रौतस्मार्तग्रन्थानां विस्तर उपलब्धः।

श्रौतं कर्म तदनुषङ्गिमन्त्रैस्तत्सम्बन्धिब्राह्मणोक्तविधिना विधेयम् । गार्हस्य स्मार्तस्य वा कर्मणोऽनुषङ्गिणो मन्त्रा वेदे वा सूत्रे वा ग्रथिता भवन्ति । तद्विधिबोधकानां सूत्राणां मूलभूतानि ब्राह्मणवाक्यानि विलुप्ताऽध्ययनपरम्पराणीत्यनुमीयते । श्रौतकर्मणां क्रमेण सुलभतया च बोधनार्थं श्रौतसूत्राण्यवतीर्णानि। एवं सत्स्वपि श्रौतसूत्रेषु गृह्यसूत्रेषु च ऋत्विग्यजमानानां कर्माचरणसौलभ्यार्थं तत्तत्कर्मणोऽनुष्ठानप्रकाशकाः प्रयोगा विरचिता उपलभ्यन्ते । इयं प्रयोगरचनापरिपाटी नेदानींतना किन्त्वतीव प्राचीना भवेद्यतः कर्मसौलभ्याऽऽपादनप्रवृत्तिर्मानवस्य स्वाभाविक्येव । ये प्रयोगा इदानीमुपलभ्यन्ते त एव प्राचीना इति यद्यपि न वक्तुं शक्यं तथाऽपि ब्राह्मणकाले सूत्ररचनाकाले च कैश्चन प्रयोगैरवश्यंभाव्यम् । केचनार्था ब्राह्मणेष्वस्पष्टा वर्तन्ते ते सूत्रेषु स्पष्टा भवन्ति । केचित्पुनः सूत्रेष्वस्पष्टाः प्रयोगेषु स्पष्टा भवन्ति। ब्राह्मणमात्रमनुरुध्य कर्मणोऽनुष्ठानं दुष्करम् । सूत्रेष्वपि तत्र तत्र पूर्वोक्तकर्ममतमन्त्राणां रहस्याऽनुषङ्गादिकस्य च विधानानि दृश्यन्ते । एतेषामर्थानां सौकर्यापादनार्थं सूत्रकालेऽपि प्रयोगेषु व्यवस्थाऽवश्यं कृता भवेत् ।

समानशाखानुसारिणो बहवः प्रयोगा एकैकस्य कर्मणो रचिताः कुतो दृश्यन्त इति विचार्यमाणे बहूनि कारणानि सम्भवन्ति । एकस्मिन्प्रयोगे विकल्पबहुलस्य विधेः कोऽप्येको विकल्पः स्वीकृतश्चेदन्यस्मिन्नपरो विकल्पोऽङ्गीक्रियते । कश्चन प्रयोगकारः शाखान्तरात्सूत्रान्तराद्वा कञ्चन विशेष विचिनोति । कोऽपि प्रयोगे सौकर्यमापादयति । एवं भिन्नैर्निमित्तैर्विविधा प्रयोगरचना विविधेषु कालेष्वनुष्ठिता दृश्यते । विविधेषु देशेषु विभिन्नाः प्रयोगग्रन्था उपयुज्यमाना भवेयुः, उत वा कोऽप्येको ग्रन्थः प्रतिष्ठितत्वादुपयुज्येत । नाऽत्र विषये सर्वदेशेषु सर्वशाखासु वा समाना स्थितिः स्यात् । अत्रेदमप्यवधारणीयं यत् सत्यपि प्रयोगग्रन्थे प्रत्यक्षानुष्ठानार्थं किमप्यधिकं ज्ञानमावश्यकं भवत्यूहाऽऽदिकस्याऽनुवृत्त्यादिकस्य चेति । तथा च

देशकालौ सङ्कीर्त्य

इति प्रयोग उक्तं भवति, पुरोहितेन तु द्वीपप्रदेशनदीनिर्देशपूर्वको देशविशेषः कल्पमन्वन्तराद्यारभ्य ग्रहस्थितिनिर्देशपूर्वकः कालविशेषश्चोच्चारणीयौ भवतः ।

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्रोक्तं साक्षाद्धर्मस्य लक्षणम्

इति धर्मलक्षणं मनुना (२. १२) प्रकीर्तितम् । तत्र सर्वोऽप्ययं वेदः प्रत्यक्षाऽनुमानाभ्यामनवगतेष्टाऽनिष्टप्राप्तिपरिहारोपायप्रकाशनपरः । तत्र स्वर्गादीष्टप्राप्तिः कथं भवतीत्याकाङ्क्षायां विहितकर्मजन्याऽपूर्वद्वारा इष्टप्राप्तिर्भवतीति समाधानम् । विहितश्रौतकर्मानुष्ठाने विनियुज्यमाना मन्त्रा वेदे सङ्गृहीता वर्तन्ते । विधिबोधकानि वाक्यानि ब्राह्मणभागेषूपलभ्यन्ते । मन्त्रब्राह्मणयोरधिष्ठितं कर्म कृतं चेत् तद्यथाविधि कृतमिति वक्तुं सर्वथोचितम् । अनुष्ठानसौकर्यार्थं तत्स्वरूपनिर्धारणार्थञ्च श्रौतसूत्राणि विरचितान्यभूवन् । परमेकस्यां शाखायां सूत्रबाहुल्ये सति सूत्रेष्वंशतो विधिवैलक्षण्यात् कतमं सूत्रं ब्राह्मणानुसारित्वात् प्रमाणमिति वक्तुं दुष्करम् । कानिचन सूत्राणि शाखान्तरेभ्योऽपि मन्त्रानुद्धृत्य विनियोजयन्ति, तथा च शाखान्तरगतविधीनपि स्वीकुर्वन्तीत्यपि न तिरोहितम् ।

स्मार्तकर्मणां त्वन्यादृश्येव स्थितिः । तदनुषङ्गिणो मन्त्राः कल्पसूत्रेष्वन्तर्भूताः । तदर्थं ब्राह्मणवाक्यानि प्रायो नैवोपलभ्यन्ते । तेषामस्तित्वं तर्क्यते । कल्पसूत्राण्येव तेषां मूलाधरः । सूत्राधारेण प्रयोगा विरचितास्ताननुसृत्य च कर्माण्यनुष्ठीयन्ते । सौत्रा विधयो निपुणमवलोकिताश्चेत् तेषां रचनासु सूत्रकारैराचार्यैर्या चातुरी प्रकटीकृता, यश्चात्मसंस्कारः संरोपितः, व्यक्तेः कुलस्य समाजस्य च प्रमोदाय योऽवसरः प्रदत्तः, तत्सर्वं स्पष्टं भवेत् । स्मार्तकर्मसु स्वल्पान्येव कर्माणि औपासनहोम-पार्वणस्थालीपाकादीनि नित्यान्यकरणे प्रत्यवायजनकानि । तेष्वपि स्वर्गकामना विद्यत एव ।

न चेहाऽस्त्यकामता

इति मनुनोक्तं किल । शिष्टानि सर्वाणि काम्यान्येव ।

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च

इति

निषेकादिभिर्वेदिकैः कर्मभिर्द्विजन्मनां शरीरसंस्कारः कर्तव्य

इति मनुवचनम् (२. २६) ।

एभिः कर्मभिः संस्कृतस्य कारीरीज्योतिष्टोमादिषु दृष्टादृष्टफलेषु कर्मस्वधिकारो भवति, तेन चोभयलोकप्राप्तिर्भवति । एतानि कर्माणि पुण्यानि भवन्ति नाम सौभाग्यमावहन्ति तैः कृतः शरीरसंस्कारश्च पावनो नाम दुर्भाग्यापनोदको भवति

इति पुण्यपावनशद्वयोरर्थभेदो मेधातिथेरभिप्रायेण ।

गर्भाधानादिहोमैर्बैजिकं गार्भिकं चैनोऽपमृज्यते, स्वाध्यायव्रतमहायज्ञादिभिश्च तनुर्ब्राह्मी क्रियत,

इत्यपि मनुना स्पष्टीकृतम् । एवं संस्कारकर्मणां परलोकप्राप्तिरूपं फलं यथाकालं लभ्यते, लौकिकफलञ्च सपदि वा कालेन वा लभ्यते । तत्कथं लभ्यत इत्याकाङ्क्षायां प्राधान्येन सूत्रोक्तरीत्या कर्मकरणात्कर्ता तत्माप्नोतीत्यवगन्तव्यम् । स्मृतिप्रामाण्यप्रकरणे जैमिनिना

धर्मस्य शब्दमूलत्वादशब्दवमनपेक्षं स्यात् (१. ३. 1)

इति पूर्वपक्षमुपस्थाप्य

अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ( १. ३. २)

इति सिद्धान्तितम् । येषां वेदाः प्रमाणं तेषामेव परम्परागताः सदाचारा अपि प्रमाणम् । स्मृतिनिबद्धास्ते शिष्टाचारा अपि अनुमितश्रुतिमूलका इति बोध्यम् । आश्वलायनबोधायनाऽऽपस्तम्बादिसूत्रोपदिष्टा आचाराः परम्परया तत्तच्छाखानुयायिभिरनुष्ठेयाः । तथा च पुराणस्मृतीतिहासादिषु ये सर्वजनसाधारणा आचारा प्रथितास्तेऽपि सर्वैरनुष्ठेया भवन्ति। अत्र कैश्चिदेवमुच्यते,

यत्सूत्रमात्रोक्ता विधय एवाऽनुष्ठेयाः, स्मृतिपुराणादिवाक्यविहितानामङ्गानामुपसंहारस्तत्र न कार्य

इति । अत्राऽसम्भवः, स्मृत्यादीनां सूत्रेण विरोधः, स्मृत्यादीनामन्यत्र विनियोगः, स्मृतिषु प्रयोगशास्त्राभाव इति हेतुचतुष्टयमपि तदर्थं प्रतिपाद्यते । अत्रेदमवधेयं यत्स्मृतिप्रामाण्यबोधकं पूर्वोक्तं जैमिनिसूत्रं न केनाऽपि पराभावयितुं शक्यम् । यथा सूत्राणि तथा स्मृत्यादयोऽपि प्रमाणपदवीमारोढुमर्हन्ति ।

सदाचारो नाम तृतीयं धर्मलक्षणम् । कर्मसु सदाचाररूपधर्मस्याऽन्तर्भावो यथावसरं भवति। किम्बहुना विधेः सम्पूर्णतावाप्त्यर्थं तादृशान्युपाङ्गान्यवश्यमुपादेयान्

इति सूत्रकाराणामभिप्रायः । तथा च विवाहप्रकरण आश्वलायनेन सूत्रितम् -

अथ खलूच्चावचा जनपदधर्मा प्रामधर्माश्च तान् विवाहे प्रतीयात् । यत्तु समानं तद्वक्ष्यामः" (आश्व. गृ. सू. १.७.१-२)

इति। पुनरपि तस्मिन्नेव प्रकरणे –

ब्राह्मण्यश्च जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः

इति च सूत्रितम् (१.१४.८ )। स एव सूत्रकारश्चौलकर्मणि

यथाकुलधर्मं केशवेशान्कारयेत्

इत्यादिशति (१. १७. १७) । बोधायनोऽपि पितृमेधसूत्रे

यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति

इति बहुत्र सूत्रितवान्।

तेन सूत्रोक्तविधीनां ग्रामजनपदादिधर्माणां चाचरणेन स्मार्तं कर्म सम्पूर्णं सफलञ्च भवति

इति प्राप्तं भवति।

ग्रामजनपदधर्माः प्रतिग्रामं प्रतिजनपदञ्च भिन्ना भवेयुः । तत्राऽपि पुनर्गच्छता कालेन तेषु परिवर्तनमवश्यंभावि। तत्तेषां धर्माणां स्मार्तकर्मसु समावेशो न केवलं सम्मतः उचितोऽपि । तेषु तेषु देशेषु परम्परयाऽऽगता आचाराः सर्वदेशनिवासिभिः पालनीया न वा

इति विषये जैमिनिना मीमांसासूत्रे होलाकाधिकरणे (१. ३. १५-२३ ) प्रपञ्चितम् । तथा च

होलाकोत्सवः प्राच्यदेशे प्रचलति, उद्वृषभ उदीच्यदेशे, आह्नीनैबुकश्च दक्षिणदेशे । एवमेते विधयः तत्तद्देशमात्रवासिभिराचरणीया

इति ।

अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् (१. ३. १५)

इति पूर्वपक्षसूत्रेणोपस्थापितम् । एते उत्सवाः सार्वदेशीया भवितुमर्हन्तीति, । अपि वा सर्वधर्मः स्यात्

तन्न्यायत्वाद्विधानस्य (१.३.१६)

इत्यादिभिरुत्तरपक्षसूत्रैश्च सिद्धान्तितम्।

सदाचारो नाम यत्तृतीयं धर्मलक्षणं सान्तरालानां वर्णानां पारम्पर्यक्रमागताऽऽचारस्वरूपं तन्मनुवचनानुसारेण ब्रह्मावर्तदेशमवलम्बते। ततश्च क्रमेण ब्रह्मर्षिदेशो मध्यदेश आर्यावर्त इति देशा द्विजातीनां निवासाय योग्या

इति मनुना निर्दिष्टाः। तथाऽपि बहोः कालादारभ्य सर्वस्मिन्भरतवर्षे वैदिकधर्मीया वसन्ति। तदनुलक्ष्य सम्पूर्णभरतवर्षे निवसतां सान्तरालानां वर्णानां तत्तद्देशविशिष्टोऽपि सङ्कलितस्वरूपो य आचारः स साम्प्रतं सदाचारपदवीं शिष्टाचारपदवीं वाऽऽरोढुमर्हति ।

एवं विचारिते सूत्रोक्ततत्तद्विधौ स्मृतिपुराणादिवाक्यविहिताङ्गानां तथा च ग्रामजनपदधर्माणां प्राच्यादिदेशगतानां शिष्टाचाराणां चाऽन्तर्भावो भवितुमर्हति । इदन्तु परमावश्यकं यदेतादृशेन गुणोपसंहारेण सूत्राऽविरोधिना भाव्यम्। सर्वमिदमाधिक्यमपरिहार्यमिति वक्तुमयुक्तम् । अनुष्ठाने कालविलम्बापादको गुणोपसंहारो मास्त्विति केनाप्यभिलषितं चेन्न तत्सर्वथानुचितम्

स्वस्य च प्रियमात्मनः

इति मनुनोक्तं चतुर्थं धर्मलक्षणमौचित्यमावहति ।

यद्यपि सर्वाणि संस्कारकर्माणि काम्यानि, तथाऽपि तेषामयं विशेषो यदनुष्ठानादौ सङ्कल्पोच्चारणावसरे

श्रीपरमेश्वरप्रीत्यर्थ

इति भावना प्रकटीक्रियते, अन्ते च

तत्सद्ब्रह्मार्पणमस्तु

इति ब्रह्मार्पणं कियते ।

एवं सकामं कर्माऽपि निष्कामं भवितुमर्हति, तत्कृतवान्यजमानो निष्कामकर्मफलभाग्भवति

इति तात्पर्यम्।

सकामं कर्माऽपि चित्तशुद्धिकरं भवति

इति भगवद्गीतासूक्तम् । श्रीमच्छङ्करभगवत्पादैरपि बृहदारण्यकोपनिषद्भाष्ये संस्कारफलमेवमुक्तस् -

कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वं ततो मन-आदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम्। तद्विविधम् – ज्ञानपूर्वकं केवलञ्च । तत्र केवलं पितृलोकादिप्राप्तिफलम्। ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् । एवं सकामं कर्माऽपि ज्ञानपूर्वकं कृतञ्चेद्देवलोकादिप्राप्तये भवति । किंवा साक्षात्कृतेन कर्मणा ? अकृतस्य कर्मणः केवलं ज्ञानमपि तत्कर्मफलप्राप्तयेऽलं भवति।

उक्तञ्च पुनरपि श्रीमद्भिराचार्यपादैः -

अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनं येषामश्वमेधे नाधिकारस्तेषामस्मादेव विज्ञानात्तत्फलप्राप्तिः

इति । “अश्वमेध” इत्युपलक्षणमवगन्तव्यम् ।

श्रौतसूत्रेषु गृह्यसूत्रेषु च तत्तच्छाखीयानां यानि कर्माण्युपदिष्टानि तेषु परस्परं किश्चिद्वैलक्षण्यं दृश्यत

इति स्वाभाविकमेव।

तथा च यजुर्वेदसूत्रेषूपवर्णिते दर्शपूर्णमासेष्टिविधौ तत्र तत्र मन्त्रभेदो विधिभेदश्च दृश्यते। सर्वासां वेदशाखानां गृह्यसूत्रेषु विवाहसंस्कार उपवर्णितः। परं प्रतिसूत्रं तत्र कियांश्चन भेदो वर्तते। यस्यां परिस्थितौ यस्मिन्देशे यस्मिन्काले चैताः शाखाः प्रावर्तन्त तेन तासां कर्मवैलक्षण्यमुपपादयितुं युक्तम्। परं धर्माचरणेऽनुभूयमानमिदं भेदबाहुल्यं भारतीयानामैक्यभावनाऽऽपादनविषये प्रतिकूलमाचरति

इति केषाञ्चन सात्विकान्तःकरणानां सामाजिकानां हृदये शल्यमिव भवति । सर्वे समानसूत्राः समानाचारा भवेयुश्चेद्भारतीयानां सौमनस्य निर्माणाय तत्कल्पेतेति तेषामाकाङ्क्षा । किन्तु सर्वथेदमसम्भवम् । क्रमेण स्थिरीभूतानां परम्परयाऽऽगतानाञ्च सूत्रशाखानां भिन्नान् प्रवाहानेकीकर्तुं कः समर्थः ? भेदेऽप्यभेददृष्टिरङ्गीकृता चेदिष्टसिद्धिर्नाम भिन्नशाखीयानामैकमत्यं नाऽसम्भवमित्येवाऽत्र समाधानम् ।

अस्मिन् ब्रह्मकर्मसमुच्चये ये विधयः समावेशितास्तेषु बहवोऽस्य ग्रन्थस्य सम्पादकैर्नूतनतया समावेशिताः। संस्कारकाण्डगतानां विवाहान्तानां विधीनां केवलाः प्रयोगा गोकर्णमण्डले बोधायानीयपरम्परायां प्रचलिता आसन् । तान्सम्पाद्य सूत्रपाठेन ग्रन्थान्तरीयवचनैश्च संयोज्य सम्पूर्णं संस्कारकाण्डमत्र प्रकाशितम् ।

आह्निककाण्डं सङ्कीर्णकाण्डं पितृमेधकाण्डं च

इति काण्डत्रयं सम्पूर्णमेव नूत्नं निर्मितम्। सर्वस्मिन्विधावादौ तद्विधिप्रतिपादको बोधायनगृह्यसूत्रांशो बोधायनपरिभाषासूत्रांशो बोधायनगृह्यशेषसूत्रांशश्च सम्पूर्णं ससन्दर्भमुध्दृताः। स्मृतिनिबन्धादिग्रन्थेभ्योऽनुरूपवचनान्यपि तत्र तत्रोध्दृतानि। ततश्च सूत्रानुसारी प्रयोगो दत्तः। बोधायनसूत्रस्याऽर्थज्ञानार्थं सम्पादकैः सूत्रान्तराणि कारिकाग्रन्थाः प्रयोगा इत्यादिविविधसाहित्यमवलोकितमभ्यस्तञ्च। बोधायनसूत्रपाठनिर्धारणार्थं लिखितग्रन्था अप्यवलोकिताः। समाने प्रयोगांशे पूर्व गते सत्युत्तरत्र तत्संक्षेपः कृतः। स च चिन्हेन प्रदर्शितः। मन्त्रः सस्वरं मुद्रिताः। आवश्यकतायां प्रयोगांशस्य स्पष्टीकरणं टिप्पणीषु कृतम्। संस्कारकाण्डस्यादौ संस्काराणां स्वरूपं ग्रन्थाऽन्तरेभ्या वचनान्युध्दृत्य वर्णितम्। अस्य ग्रन्थस्याऽयं विशेषोयदत्राऽन्तर्भाविताः सर्वे प्रयोगाः केवलं सूत्रानुसारिणस्तथा च प्रायः स्मृतिपुराणादिवाक्यविहिताङ्गानामुपसंहारेण विरचिताश्च भवन्ति। अत्र संस्कारकाण्डे चतुर्थे पृष्ठे मुद्रितस्य गणेशादिस्वेष्टदेवतापूजनविधेरवलोकनेनेदं स्पष्टं भवेत्। अत्रोक्तरीत्या कर्मण्यनुष्ठिते यथाविधि कर्मानुष्ठानजन्यं फलं पुण्यञ्च लभ्येत, कर्मानुष्ठाने वृथाकालविलम्बदोषोऽपि परिहार्येत। ग्रन्थोऽग्रं बोधायनशाखापुरोहितान्यजमानांश्चाऽतीवोपकुर्यादिति मे द्रढीयान् विश्वासः। बोधायनीयाः सर्वे स्मार्तविधयोऽस्मिन् ब्रह्मकर्मसमुच्चये प्रथममेव मुद्राप्यन्ते। महर्षिर्बोधायनः प्रवचनकारः, तेन विरचितं बौधायनं बोधायनीयं वेति वक्तव्यमिति प्राचीना परम्परा। एवं सति केषुचन मुद्रितेषु ग्रन्थेषु ‘बौधायन’ इति नाम्ना महर्षेर्व्यवहारः कृतो दृश्यते, स सर्वथा प्रामादिकः। अस्मिन्यन्थे सर्वत्र ‘बोधायन’ इत्येवाऽऽचार्यवाची शब्दप्रयोगः कृत इति सर्वथा समुचितमेव। इत उत्तरं सर्वत्र ‘बोधायन’ इति यथार्थपदेनैव आचार्यस्य निर्देशो भवेदित्याशास्महे।

बोधायनीयगृह्यसूत्रे गृह्यशेषे च यानि कर्माणि प्रोक्तानि तेषां सर्वेषां विधयो नात्र प्रपञ्चिताः। यावन्तोऽत्र समावेशितास्तावद्भिरेव अन्थो विस्तृतो जातस्तेनाऽवशिष्टेभ्योऽवकाशो न लब्धः। तथाऽपि अवशिष्टानपि विधीन्त्सप्रयोगान्विरच्य सम्पादका अपरस्मिन्भागे तान् प्रकाशयेयुरित्याशास्महे। अस्य ब्रह्मकर्मसमुच्चयस्य सम्पादनेन प्रकाशनेन च मन्ये, सर्वे बोधायनसूत्राऽनुसारिणो जाता जनिष्यमाणाश्च प्रभूतमुपकृताः। श्रीगोकर्णक्षेत्रस्थ-मेधादक्षिणामूर्तिसंस्कृतविद्यापीठस्य सदस्यैर्बोधायनीयशाखापरम्परारक्षणसंवर्धनबुध्याऽविरतान् परिश्रमान् कृतवद्भिः स्वकीयमुद्दिष्टं सुसम्पन्नं पारितम्। वैदिकधर्मस्य, विशिष्य बोधायनीयशाखानुष्ठानधर्मस्य च महती सेवा विद्यापीठसञ्चालकैरनुष्ठिता, सा वेदपुरुषस्य यज्ञपुरुषस्य च चरणकमलयोरर्पिताऽस्तु। महतोऽस्य कार्यस्य परिसमाप्त्यवसरे श्रीमेधादक्षिणामूर्तिसंस्कृतविद्यापीठसञ्चालकान् हृदाऽभिनन्दामि। बोधायनसूत्रोक्ता विधयोऽत्र सप्रयोगमुपवर्णिताः, तेन बोधायनीयस्य गृह्यसूत्रस्य गृह्यपरिभाषासूत्रस्य गृह्यशेषसूत्रस्य पितृमेधसूत्रस्य चार्थज्ञानायाऽयं ग्रन्थो नितरां सहायको भवेत्। तेषु तेषु सूत्रांशेषु प्रोक्ता विधयोऽत्र प्रकरणशः सङ्गृहीता विस्तारिताश्चेति स्वाभाविकमेव। एतेषां विधीनां कालक्रमदृष्ट्या तुलनात्मकदृष्ट्या चावबोधनाय प्रयतमानेभ्योऽत्र विपुलं साहित्यं सङ्कलितमुपलभ्येत।

सोऽयं बोधायनीय ब्रह्मकर्मसमुच्चयो बोधायनशाखीयानां महते लाभाय वैदिकधर्मश्रद्धावतां चोपयोगाय भवतु तेन चोपासनापथिकानां सौकर्यमापाद्यतामिति भगवन्तं वेदपुरुष प्रार्थये।

पुणे, विजयादशम्यां शाके १८९२

काशीकरोपाह्वो गणेशसूनुः चिन्तामणिशर्मा।

॥ शुभाशिषः ॥

ओम् श्री श्री शृङ्गेरी जगद्गुरु महासंस्थानं, शृङ्गेरीमठ शारदापीठम्।

श्रीमत्परमहंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण यमनियमाप्तनप्राणायामप्रत्याहारध्यानधारणासमाध्यष्टाङ्गयोगानुष्ठाननिष्ठ तपश्चक्रवर्त्यनाद्यविच्छिन्न श्रीशङ्कराचार्य गुरुपरम्पराप्राप्तषड्दर्शनस्थापनाचार्य व्याख्यानसिंहासनाधीश्वर सकलनिगमागमसारहृदय सांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतन्त्रस्वतन्त्रादिराजधानीविद्यानगरमहाराजधानीकर्णाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराज गुरुभूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुङ्गभद्रातीरवासिश्रीमद्विद्याशङ्करपादपद्माराधक श्रीजगद्गुरु श्रीचन्द्रशेखरभारतीस्वामिगुरुकरकमलसञ्जात

श्रीजगद्गुरु शृङ्गेरी श्रीमदभिनवविद्यातीर्थस्वामिभिः॥ श्री-मेधादक्षिणामूर्ति-संस्कृतपीठाध्यक्ष-श्रीसाम्बशर्मसु नारायणस्मरणपूर्वकविरचिता आशिषस्समुल्लसन्तु।

संस्कृतविद्यापीठद्वारा प्रकाशितं ब्रह्मकर्मसमुच्चयाभिधानं बोधायनसूत्रानुसारिकर्मप्रयोगावगमकं प्रबन्धं तत्र तत्र अवालोकयाम। सूत्राणि सन्ति। केवलं तान्यवलम्ब्य सर्वेऽपि लोकाः कर्मस्वरूपं तत्प्रयोगं वा निर्णतुं न पारयन्ति। आचाराश्च सम्प्रदायाश्च क्वचिद्विलक्षणाः। तेन अनुष्ठातॄणां पुरोहितानां इतिकर्तव्यतानिर्णयः प्रतिरुद्धो भवति। सर्वमेतदाकलय्य लोकोपकाराय बहूनि गृह्मधर्मसूत्राणि समालोक्य पण्डितमण्डलमुखेन निर्णयं विधाय संस्काराऽऽह्निकसङ्कीर्णपितृमेधकाण्डैः अवयवैः उपचितं सकलमपि स्मार्तमनुष्ठानं प्रकाशितवतां प्रयत्नं नितरां अभिनन्दामः।

ग्रन्थस्याऽस्य प्रकाशनेन पुरोहिताः निर्विशङ्कं अनुष्ठानानि प्रवर्तयेयुरिति विश्वासिमः। विद्यापीठमुखेन नैकानि वेदधर्मप्रकाशकानि ग्रन्थरत्नानि प्रकाशन्ताम् इति आशास्महे। इति

शृङ्गगिरिः साधारण पौष शुक्ल चतुर्दशी भानुवासरः नारायणस्मरणम् १०-१-१९७२

पण्डितराज-पद्मभूषण-राजेश्वरशास्त्रि-द्राविडमहाभागानाम् अभिप्रायः

उच्चैर्गतिर्जगति सिध्यति धर्मतश्चेत्तस्य प्रमा च वचनैः कृतकेतरैश्चेत् ।
तेषां प्रकाशनदशा च महीसुरैश्चेत्तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥

लोकस्य योगक्षेमस्थितिहेतुषु चतसृषु विद्यासु अन्यतमा विद्या त्रयीनाम्ना विख्याता अनेन भारतेनोपलब्धा इति देशस्य महद्भाग्यम्। अनयैव विद्यया एतद्देशे प्रसूतेषु जनेषु सम्भाव्यमानः एकार्थाभिनिवेशित्वप्रयुक्तः कलहः अपसारितः। समस्तेषु मैत्रीभावः प्रापितश्च। मर्यादायां स्थितत्वात् समेषां जीवनं निर्बाधं यथा भवेत् तथा अनया संस्थापितमित्येतत् एतस्या विद्याया अनितरसाधारणं स्थितिहेतुत्वमस्ति। सा च विद्या वेदेनैकेनैव प्रकाशितापि तत्तात्पर्यं कुत्रास्तीति सर्वैर्ज्ञातुमशक्यमिति मत्वा ऋषिभिः विद्यापारदृश्वभिः वेदतात्पर्यमालोड्य स्मृतिगृह्यादिरूपेणैकत्र प्रकाशितमित्येतेषामप्ययं परिश्रमः त्रयीमध्ये अन्तर्भाव्यः शिष्टैः समाहृतो वर्तते। तथापि तदभिप्रेतः सर्वोऽपि प्रयोगः पुनरज्ञातप्राय एवाभूदिति सर्वस्यास्य सङ्कलनमपेक्षितमपि न सर्वस्य सुकरमभूत्। अतस्तैस्तैर्विद्वद्भिः सम्प्रदायागतकर्मकुशलैः सम्पूर्णं प्रयोगजातं एकत्रीकृत्य तेषां तेषां शाखिनां सुखावबोधाय ब्रह्मकर्मसमुच्चयः प्रकाशितः प्राग्बभूव। यथा ऋग्वेदिनां हिरण्यकेशीयानां ब्रह्मकर्मसमुच्चयादि।

परं तेषां सर्वपारिषद्यं नासीदिति काचन न्यूनता भासमानाऽभूत्। मैसूर-राज्यान्तर्गत-गोकर्णक्षेत्रस्थ-श्री-भेधादक्षिणामूर्ति-संस्कृतविद्यापीठीयसंशोधनविभागद्वारा सम्पाद्य प्रकाशितादस्माद्दुर्लभात् बोधायनीय-ब्रह्मकर्म-समुच्चयग्रन्थात् सा दूरमपसृता। बोधायनस्य सर्वपारिषद्यात् तथा सर्वेषां ब्रह्मसंस्काराणां प्रकाशकत्वादस्योपादेयत्वं तु सर्ववादि सम्प्रतिपन्नमेव।

एवं रीत्या अस्योपयोगित्वं ब्रह्मवृन्दस्य कृते अस्तीति सर्वैरपि विद्वद्भिः अवश्यममुं सङ्गृह्य उक्तविद्यापीठीय-संशोधनविभागस्य अप्रकाशितेतरग्रन्थप्रकाशने उत्साहः संवधनीयः। इति

श्रीवल्लभराम शालिग्राम सांगवेद विद्यालय, वाराणसी २६-१-१९७१

श्री पूज्य गुरुचरणानां, पण्डितराज, पद्मभूषण, राजेश्वरशास्त्रि, द्राविडमहाभागानां आज्ञया-रा.शा. होसमने

श्रीडोंगरेशास्त्रिणाम् अभिप्रायः

श्री-मेधादक्षिणामूर्ति-संस्कृत-विद्यापीठीय-संशोधन-विभागद्वारा प्रकाशितोऽयं ग्रन्थः सूत्रानुगुणः, रमणीयैरायसाक्षरैः समीचीनैः पत्रैस्तथा वास्तुमण्डल, सर्वतोभद्रमण्डल, नवग्रहमण्डलादि तत्तन्मण्डलैः परिशोभितः, आह्निक-गृह्य-सङ्कीर्ण-पितृमेधाख्यकाण्डचतुष्टयविराजितः, अपेक्षितया अनुक्रमण्या उपोद्घातेन च युक्तः स्मार्तकर्मानुष्ठानपराणां आस्तिकमहाशयानां तथा याजकवर्गस्य च विशेषतः उपयोगावहः अत्यन्तावश्यकश्च वर्तते। अद्यत्वे बोधायनसूत्रानुयायिनः एतादृशस्य प्रयोगग्रन्थस्य मुद्रितस्य अत्यन्तदुर्लभतया अनुष्ठानविषये क्लेशमनुभवतां आस्तिकजनानां एतन्मुद्रणेन महानुपकारः समजनि।

एतादृशसत्कर्मप्रवर्तनेन उपकृतवद्भ्यः श्रीमेधादक्षिणामूर्तिविद्यापीठसञ्चालकेभ्यः हार्दा धन्यवादाः मया समर्प्यन्ते। बोधायनीय-दर्शपूर्णमासभाष्यादि-प्रकाशनसङ्कल्पोऽपि भगवतो महाबलेश्वरस्य प्रसादेन सफलो भवत्विति च आशासे। इति

कौता स्वाराज्य विहार नं. १० पद्मारावु नगर सिकन्दराबाद २५ १५-१-१९७१

वी. कृ. डांगरेशास्त्री उभयमीमांसाविशारदः

परम-पूज्याचार्यवर्याणां शुभाशिषः करवीरपीठाधिष्ठित श्रीमज्जगद्गुरु श्रीशंकराचार्याणाम्

श्री मेधा-दक्षिणामूर्ति-संस्कृतविद्यापीठेन प्रकाशितं बोधायनीय-ब्रह्मकर्म-समुच्चयमवलोक्य महान् प्रमोदः समजनि। सूत्रकर्ता भगवान् बोधायनः सूत्रकर्तृष्वादिमत्वेन गण्यते। यद्यपि कृष्णयजुर्वेदस्य तैत्तिरीयशाखायां भगवता सूत्राणि निबद्धानि तथाप्यतेषां सूत्राणां निरपवादं महत्त्वं वृद्धमनुना प्रतिपादितं यदन्यशाखानुयायिभिरपि बोधायनमतं प्रमाणत्वेनादरणीयं तदनुरोधेन च स्वीयकर्माण्यनुष्ठेयानीति। एतेनैव भगवतः सूत्रकृतां मध्येऽधिकारः श्रेष्ठत्वं च गम्यते।

यद्यपि सूत्रग्रन्थाः प्रमाणभूतत्वात् श्रेष्ठतमाः तथापि कर्मनिष्ठानां गृहिणां कृते ते नोपयुक्ताः। यतः संध्या-ब्रह्मकर्मादीनि नित्यकर्माणि, व्रतादीनि नैमित्तिकानि उपनयनादयः संस्काराश्च ब्रह्मकर्मसमुच्चयसदृशग्रन्थसाहाय्येनैव कर्तुं सुशकाः। अस्य ग्रन्थरत्नस्येदमपरं वैशिष्ट्यं यदस्य सम्पादनं महत्कौशलपूर्णं विलसति। तत्र तत्र बोधायनसूत्राणां कृतो निर्देशः, नानास्मृतिभ्य उद्धृत्य प्रदत्तानि वचनानि, परम्पराप्राप्ततन्त्राणां कृतं विवरणं च ग्रन्थस्य माहात्म्यं प्रकटयन्ति। अत एवायं ग्रन्थो न केवलं कर्मिणां कृते, अपि तु विमर्शकानां जिज्ञासूनां पुरोहितानां च कृते भृशमुपकारी स्यादिति नात्र संदेहः।

एवं च सम्यक्प्रयोगान्वितस्य ब्रह्मकर्मसमुच्चयस्य मुद्रणेन बोधायनसूत्रानुयायिषु मेधादक्षिणामूर्तिसंस्कृतविद्यापीठेन महदुपकृतामति मन्यामहे।

एवमेवान्येषामपि बोधायनग्रन्थानां मुद्रणेन विद्यापीठं श्रुति-स्मृतिसेवापरं भूयादिति श्रीशारदाम्बा-श्रीचन्द्रमौलीश्वरचरणारविन्दयोः संप्रार्थयाम इति शम्॥

श्री काञ्ची कामकोटि पीठाधिप जगद्गुरु श्रीशंकराचार्याणाम् (काञ्चीपुरम्)

श्रीमेधादक्षिणामूर्तिसंस्कृतविद्यापीठस्थ-संशोधनविभागद्वारा प्रकाशितः “बोधायनीयब्रह्मकर्मसमुच्चया-“ख्योऽयं ग्रन्थः श्रीचरणैरवलोकितः। अयं ग्रन्थः सर्वेषां वैदिकमार्गानुयायिनां महापकाराय भूयात्। एवमेव ईश्वरानुग्रहेण दर्शपूर्णमासभाष्याद्यनेकोपयुक्तग्रन्थानां प्रकाशनमपि शीघ्रमेव भूयादिति च श्रीचरणानां शुभाशिषः॥

श्रीस्वर्नवल्ली महासंस्थानम्, शिरसि

बोधायनीयब्रह्मकर्मसमुच्चयग्रन्थमवलोक्य महान् परितोषः। वैदिकविद्याध्ययनकर्मानुष्ठानविरले अस्मिन् काले तत्र तत्र वैदिककर्ममार्गानुयायिनां एतद्ग्रन्थप्रचारेण वैदिकधर्मकर्मणः पुनरुज्जीवनं भवेदित्याशयः। श्री देवीप्रसादः पञ्चरुप्यकं कुंकुमप्रसादश्च प्रेषितः स्वीक्रियताम् ॥

श्री संस्थान गोकर्ण-पर्तगाली-जीवोत्तम-मठ

श्रीमद्वारकानाथतीर्थ-श्रीवडेरस्वामिभिरनुगृहीतः संदेशः। श्रीमेधादक्षिणामूर्तिसंस्कृतविद्यापीठस्थ-संशोधनविभागद्वारा प्रकाशितः बोधायनीयब्रह्मकर्मसमुच्चयाख्योऽयं ग्रन्थः सम्यगवलोकितः। एतावत्कालपर्यंतं बोधायनसूत्रानुसारिणां कर्मानुष्ठानमार्गदर्शको विधिवाक्योपेतः ईदृशः ग्रंथो नैवासीत्। अनेकान् ग्रन्थान् सपरामर्शं विलोक्य महापरिश्रमेण प्रकटितोऽयं ग्रन्थः बोधायनीयशाखानुयायिनां महदुपकाराय भूयादित्याशास्महे॥

इति नारायणस्मरणपूर्विका आशिषः

॥ प्रकाशकानां निवेदनम् ॥

श्रोतादधिः पल्लवद्विगाह्यः क्रीडावनी द्यौः खगसङ्खलाढ्या।
इत्थं मतिर्यस्य विदांवरस्य बोधायनं तं मुनिमानताः स्मः॥

मनुष्यः स्वीयप्राकृतिकाऽभिरुचिप्रचोदितः कर्म करोति

इति केवलबहिर्दर्शनेन दृश्यते। तथाऽपि

तादृग्वासनारोपाः प्राकृतिकाऽभिरुचयः तस्य तस्य प्राक्तनैरेव कर्मभिर्निष्पन्ना

इति शास्त्राऽभिज्ञानां मतम्। एताः प्राकृतिकाऽभिरुचयः खलु

जीवनपरिसरपरिस्थितिसापेक्षा

इत्याधुनिकमनश्शास्त्रज्ञानामभिप्रायः। किन्त्वेकस्मादेव पितृमातृमूलाज्जातयोः समानपरिसरपरिस्थितिजीविनोः प्राकृतिकाऽभिरुचयोऽसमानाः परस्परविरुद्धाश्च दृश्यन्ते। तस्मादियमुपपत्तिरतिव्याप्त्यव्याप्तिदूषिता, न समीचीना इति निर्विवादोऽयं विषयः। नालमीदृशेषु तर्कातीतविषयेष्वपूर्णाः सदोषा मानवबौध्दिकविचारा निर्दुष्टनिर्णयं कर्तुम्। तपसाधिगततत्वज्ञानां महर्षीणां वचनानुसरणेनैव श्रेयोऽधिगच्छन्ति, इति शास्त्राध्ययनपरिपक्वमतीनां विदुषामसन्दिग्धोऽयं निश्चयः । सकलशुभाशुभानां प्राकृतिकाभिरुचीनां मूलं तस्य तस्य प्राक्तनकर्माण्येवेति समधिगताऽसन्दिग्धानर्णयाः सूत्रकाराः प्राचीनमहर्षयो यादृशां कर्मणामनुष्ठानैर्मनुजः परिशुद्धशुभवासनानुरूपप्राकृतिकाऽभिरुचिः अशभाद्दुःखाच्च मुक्तो निरतिशयानन्दाभिमुखो गन्तुं प्रवर्तते, तादृशानि कर्माणि प्रविधाय तेषामनुष्ठानाय मार्गदर्शनमकार्षुः।

कर्माणि तु नित्यानि नैमित्तिकानि काम्यानीति त्रिविधानि।

फलनिरपेक्षं कर्तव्यतया विहितानि यान्यकृत्वा दोषभाग्भवति तानि नित्यानि, यस्मात् कस्मादपि निमित्तात् प्राप्तानि कर्माणि तानि नैमित्तिकानि, उद्दिष्टफलसाधनाय क्रियमाणानि कर्माणि तानि काम्यानि

इति। एतानि तत्तद्वेदशाखाध्यायिनां बोधायनाऽऽश्वलायनाऽऽपस्तम्बसत्याषाढादिसूत्रकारैस्तत्तदनुसारं विहितानि।

सर्वेषां सूत्रकाराणां मध्ये आदिमो “भगवान् बोधायन एव” इति प्राचीनाचार्यैरेव प्रतिपादितम्। सूत्रगणनाप्रसङ्गे आग्निवेश्यसूत्रे –

अथातः सूत्रगणान व्याख्यास्यामः । बोधायनमापस्तम्बं सत्याषाढं द्राह्यायणमागस्त्यं शाण्डिल्यमाश्वलायनं शाम्भवं कात्यायनमिति नवानि पूर्वसूत्राणि

इत्यत्र प्रथमं तस्य नामग्रहणमुररीकृतम्। प्रायश्चित्तविचिन्तनाख्ये निबन्धे -

बोधायनं जैमिनिञ्च कौषीतक्याश्वलायनौ।
वाधूलमापस्तम्बादीन्नौमि शाखाप्रवर्तकान्

इत्यत्राऽपि शाखाप्रवर्तकेषु भगवतोऽस्य प्राथम्यमङ्गीकृतम्। एवमेवाऽस्य प्राथम्ये प्राधान्ये च निर्विवादप्रसिद्धिकारणात् -

स्वसूत्रेऽविद्यमाने तु परसूत्रेण वर्तते।
बोधायनमतं कृत्वा स्वसूत्रफलभाग्भवेत्

इति वृद्धमनुरब्रवीत्। भगवान् बोधायन एकाधिकशतयजुःपारगाऽऽपस्तम्बादिषष्टिसहस्रशिष्यैः परिवृतः। अत एव बोधायनकल्पव्याख्यात्रा यज्ञेश्वरेण एवमभिवर्णितम् -

मेधां बोधायनो नो वितरतु सहितः षष्टिसाहस्रशिष्यै
र्यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्याशिष्यः।
सूत्रं प्रायुङ्क्त नैकक्रमविधिनिपुणाऽध्वर्युनानाप्रयोग
व्यक्तिज्ञानोपयुक्तस्फुटमृदुगहनप्रौढसन्दर्भगर्भम्॥
कल्पामृतं क्षितिसुरप्रकराय योऽदाद्वेदाम्बुराशिमधिमथ्य निजप्रभावात्।
बोधायनाय मुनिवन्दितपादपद्मद्वन्द्वाय कण्वतनयाय नमोऽस्तु तस्मै

इति। अन्यदपि वैशिष्ट्यमस्य महर्षिणः। तत्तु खगोलशास्त्राविषयकम्। अयमाचार्यः सूर्यस्य दक्षिणोत्तरपरिचलने वास्तविकीं प्रक्रियां स्फुटमभिहितवान् ।

इदानीमादर्शभूतस्य कण्वऋषेः पुत्रस्याऽस्य कालगणनां प्रति किञ्चित्प्रपञ्च्यते। महाभाष्यकारेण पतञ्जलिना

सूत्राणि ऋषिवाक्यानि

इत्युक्तम्। कल्यब्दादिपञ्चमशतमानपर्यन्तः ‘ऋषिकालः’ इत्यभिज्ञानां मतम्। तत्समये ‘आपस्तम्बेनाऽभावि’ इति भगवद्दत्तो वदति। तस्याचार्यो बोधायनः, “आपस्तम्बादपि प्राचीनः” इति स्पष्टम्। केचन

कल्यब्दादिद्वितीयशतके बोधायन आविर्भूत

इति मन्यन्ते। अन्ये त्वस्य वेददर्शनसमकालीनत्वमपि चिन्तयन्ति। बोधायनश्रौतसूत्रे (२६.२९.)

षाण्मास्य एव पशुबन्धकाल उक्तो भवति । अथाप्युदाहरन्ति - षट्सु षट्सु मासेष्वाहिताऽग्निना पशुना यष्टव्यं भवति। उभे काष्ठे अभियजेत। माघमासे धनिष्ठाभिरुत्तरेणैति भानुमानर्धाऽऽश्लेषस्य श्रावणस्य दक्षिणेनोपनिवर्तते। इत्येते काष्ठे भवतः

इत्युक्तत्वात्तदानीं धनिष्ठायां माघे उदगयनस्य, अर्धाऽऽश्लेषायां श्रावणे दक्षिणायनस्य चारम्भो भवति स्मेत्यवगम्यते। एतेनाऽस्य महानुभावस्य कालो न वेददर्शनकालादसन्निकृष्ट इति निश्चप्रचम्।

केवलं श्रीपरमेश्वरप्रीत्यर्थं कियमाणं विधिविहितं कर्म ‘यज्ञः’ इत्यभिधीयते।

यज्ञो हि श्रेष्ठतमं कर्म

इति श्रुतिनिश्चयः। भगवता योगेश्वरेण कृष्णेनाऽपि गीतायां -

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः

इति स्पष्टमुपदिष्टम्। भगवान् बोधायनः सर्वाण्यपि कर्माणि यज्ञशब्देनैव सम्बोधितवान्। स्वकृतगृह्यसूत्रे -

सर्वेण वै यज्ञेन देवाः सुवर्गंल्लोकमायन्

यज्ञं व्याख्यास्यामः

इत्युपक्रम्य प्रथमं तावत्

एकविंशतिसंस्थो यज्ञ ऋग्यजुःसामात्मकश्छन्दोभिश्चितो ग्राम्यारण्यपश्वोषधीभिर्हविष्मान् दक्षिणाभिरायुष्मान्। स चतुर्धा ज्ञेय उपास्यश्च स्वाध्याययज्ञो जपयज्ञः कर्मयज्ञो मानसश्चेति। तेषां परस्पराद्दशगणोत्तरो वीर्येण (बो. गृ. प. सू. १. १. १८-२१)

इति विवाहप्रभृतिसंस्काररूपहुतादिसप्तपाकयज्ञानग्न्याधेयादि सप्तहविर्यज्ञानग्निष्टोमादि सप्तसोमयज्ञानेवमेकविंशतियज्ञान् प्राधान्यतयोपदिश्य, अग्रे

स एष हुतादिरासहस्रसंवत्सरान्तः सर्वो यज्ञो यो हि तद्वेद स्वाध्यायजपकर्ममानसेषु तेनैवास्य तद्गुणेनेष्टं भवति (बो. गृ. प. सू. १.२.१)

इति सर्वान् यज्ञान् समादिशत्। यज्ञ एव अस्माकं सर्वस्वम्।

यज्ञो वा एष पञ्चमो यदतिथिः

इत्यतिथिमपि यज्ञरूपण दृष्टवान् आचार्यः।

यज्ञवित्सर्वविद्भवति। यज्ञः सर्वम्

इति तस्य सिद्धान्तः।

तस्माद्याज्ञीषु चिन्तासु रमन्ते तत्वदर्शिनः

यज्ञस्याधिकारे –

नाऽक्रियो ब्राह्मणो नाऽसंस्कारो द्विजो नाऽविद्वान्विप्रो नैतेर्हीनः श्रोत्रियो नाऽश्रोत्रियस्य यज्ञः

इति यथाश्रोत्रियस्याऽनुष्ठानाऽर्हत्वमुक्तं, तथैव -

तस्माद्यः कश्चन क्रियावान्त्सतामनुमताचारः स श्रोत्रिय एव विज्ञेयः (बो. गृ. प. सू. १.१.२५)

इति श्रोत्रियत्वादिगुणरहितस्याऽपि सदाचारसम्पन्नस्याऽधिकारित्वमुक्तम्। अतः सदाचारस्य श्रोत्रियत्वाद्यपेक्षया सर्वस्मिन्नपि काले महत्त्वं इति सिद्धं भवति।

श्रौत-गृह्यसूत्राणि गण्डभेरुण्डवच्छीर्षद्वयोपलक्षितान्यपि देहेनाऽभिन्नानि विद्यन्ते । यतो

दर्शपूर्णमासप्रकृतयः सर्वाः पाकयज्ञसंस्थाः

इति गृह्यकर्मणो दर्शपूर्णमास एव प्रकृतिः इति स्पष्टमुक्तम्।

प्रसिद्धः पिण्डपितृयज्ञः

(स्रुक्सम्मार्जने)

दर्शपूर्णमासवत्तूष्णीम्

इत्यादिभिः गृह्ये श्रौतसूत्रं प्रति अङ्कुलिनिर्देशो दृश्यते। प्राक्तनाचार्यैः कर्माचारव्यवस्था निष्ठुरनियमैर्निबद्धा। यथा -

उपदिष्टो धर्मः प्रतिवेदम्। स्मार्तो द्वितीयः। तृतीयः शिष्टागमः। श्रुतेरर्थानुगामिनी स्मृतिः। शिष्टागमस्तु वैकल्पिकः न तु स्वेच्छाचारपरः।

तथा च मनुः -

धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः।
श्रुतिस्तु वेदविख्यातो धर्मशास्त्रन्तु वै स्मृतिः॥
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ।
योऽवमन्येत ते चोभे हेतु (तर्क) शास्त्राश्रयाद् द्विजः॥
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः

इति । तस्माच्छास्त्रसिद्धेऽर्थे हेतुशास्त्रबलान्न विचिकित्सा कर्तव्या।

अस्वर्ग्यं लोकविद्विष्टं पण्डिता वर्जयन्ति

इत्यादिषु लोकशब्दः श्रुतिस्मृत्यर्थदर्शिशिष्टजनपरः। अतो वचनसिद्धेषु वैकल्पिकेषु धर्मेषु शिष्टाचारः प्रमाणम्। द्वैविध्ये शिष्टाचारस्यैवाऽवलम्बनत्वात्, सहायत्वेन गणना।

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः।
हृदयेनाऽभ्यनुज्ञातो यो धर्मस्तं व्यवस्यत

इत्याद्युक्तिभिर्मनुनाऽपि स्वेच्छाचारो निर्बन्धितः। अत एव कर्मणो वास्तविकं रूपं परम्पराभिरक्षितमद्याप्युपलभ्यते।

महर्षेर्बोधायनस्य श्रौतसूत्रं गृह्यसूत्रं धर्मसूत्रञ्चेतरेषां सूत्रग्रन्यानामपेक्षया सुसमृध्दं विद्यते। १९२३ तमे क्रिस्ताब्दे श्रीमता ‘डब्ल्यू. केलण्ड’ महाशयेन विंशतिवर्षपरिश्रमेण समृध्दं बोधायनश्रौतसूत्रं सम्पाद्य

बल्गाल एशियाटिक् सोसायटी

द्वारा यथा प्रकाशितं न तथा केनाऽपि बोधायनगृह्यधर्मसूत्राणां प्रकाशनं कृतम्। अस्मिन्विषये १९०७ तमे क्रिस्ताब्दे मैसूरमुद्रितधर्मसूत्रप्रस्तावनायां

विदेशीयञ्च पुस्तकं नाऽद्यावधि समासादितम् । तथापि समुपलब्धस्याऽप्यप्रकाशने आत्यन्तिकं विलोपं सम्भाव्य स्थितस्य प्रकाशः श्रेयानिति निश्चित्य प्रकटितमिदम्

इत्युल्लेखनादेव स्पष्टं भवति। अपि च आश्वलायनीयाऽऽपस्तम्बीयहिरण्यकेशीयादिषु यथासम्यगसंशयामितिकर्तव्यताप्रकाशका वृत्तिभाष्याद्युपेताः सूत्रग्रन्थाः प्रयोगग्रन्थाश्च सर्वत्र सम्मुद्रिता ह्युपलभ्यन्ते न तथा आदिमसूत्रकारस्याऽस्य बोधायनस्य। अतः सर्वेषु ग्रन्थालयेषु विद्यमानानां पुस्तकानां सङ्कलनेन वृत्तिभाष्याद्युपेतस्य बोधायनीयस्य समृद्धवाङ्मयस्य प्रकाशनाय प्रयत्न आवश्यकः, यस्मिन्कृते प्राचीनसंस्कृतेर्मूलस्वरूपं स्पष्टीकृतं भवति, अपि च विमर्शकानां कर्मनिष्ठानां जिज्ञासूनाञ्च स्वमार्गप्रवर्तनाय साहाय्यं भवेत्।

बोधायनविहितगृह्यकर्मणां कर्मानुष्ठानप्रकाराणाञ्चाऽवबोधाय

बोधायनीयब्रह्मकर्मसमुच्चयः

इति नामधेयस्याऽस्य ग्रन्थस्य प्रकाशनमत्यावश्यकं, इति मत्वा

श्रीमेधादक्षिणामूर्तिसंस्कृतविद्यापीठेन

प्रयत्नः कृतः। एतदर्थं सप्तवर्षात्पूर्वं शोभकृत्संवत्सरे विदुषां (१) गणपति सुब्रह्मण्य दीक्षित चित्रिगे मठ (२) रामचन्द्र गणेशभट्ट कोड्लेकेरे, (३) परमेश्वर रामकृष्ण शर्मा बैलकेरी (४) श्रौती सुब्राय गणेशभट्ट कोड्लेकेरे (५) राम वेंकटरमण पंडित इति पञ्चानां सदस्यानां सम्पादकमण्डलमेकमायोजितम्। अनेन सम्पादकमण्डलेनाऽस्मिन्ब्रह्मकर्मसमुच्चये विध्युपेतनिर्णयक्रमः प्रयोगकमश्चेति विभागद्वयं समाश्रित्य, कृष्णयजुःसंहिता-ब्राह्मणाऽऽरण्यकादिवेदग्रन्थानां बोधायनाऽऽपस्तम्बसत्याषाढादिसूत्रग्रन्थानां मनुयाज्ञवल्क्यादिस्मृतीनां धर्मसिन्धुवैद्यनाथीयादिधर्मशास्त्रग्रन्थानां विष्णुपद्मादिपुराणानां कृत्यकल्पतरुवाचस्पत्यादिकोशग्रन्थानां प्राचीनकारिकाप्रयोगग्रन्थानां मुद्रिताऽमुद्रितानां वेदभाष्यस्य महाभारतस्य च साहाय्येन, आह्निककाण्डं संस्कारकाण्डं सङ्कीर्णकाण्डं पितृमेधकाण्डमिति काण्डचतुष्टयात्मकोऽयं ग्रन्थो विरचितः।

अस्य ग्रन्थस्य विशिष्टं स्वरूपं परिकल्पयितुं इतः पूर्वं स्थानीयैर्विद्वत्प्रकाण्डैः कीर्तिशेषैः श्रीमद्भिः - श्रौती सुब्रायभट्ट, गणेशसभाहित, वेङ्कटरमणपण्डित, गायत्री तिर्मुलेश्वरशर्मा, भडती शिवभट्ट महोदयैर्महान्परिश्रमः कृतः। तैः सङ्गृहीता उपयुक्ताश्च विषया महते उपकारायाऽकल्पयन्।

अनाकुलां पद्धतिमास्तिकानां मुनिप्रणीतैः परिकल्प्य सूत्रैः।
असंशयार्थप्रतिपत्तये च व्यतानिषुः श्रोत्रियवृन्दमान्याः॥
निजशुभपदचिन्हं गाढमत्राङ्कयित्वा दिवमनु ननु याता हन्त ते ते महान्तः।
उपकृतिमसकृत्तां शर्मदां कर्मिलोके मुकुलितकरयुग्माः केवलं भावयामः॥

पूर्वं पुण्यपत्तनस्थ-वैदिकसंशोधनमण्डले ऋग्वेदभाष्य-भारद्वाजश्रौतसूत्र-श्रौतकोशाद्यनेकबृहद्ग्रन्थसम्पादने दिवानिशं प्रयतितवन्तोऽद्य पुणेविद्यापीठस्थ-प्रागतिक-संस्कृताध्ययनकेन्द्र प्रपाठक (रीडर) पदे नियुक्ताः डी. लिट्, पदवीविभूषिताः श्रीमन्तः ‘डॉ. चिन्तामाणि गणेश काशीकर’ महोदयाः विद्यापीठस्याऽस्य प्रार्थनामङ्गीकृत्य सुसमृद्धोपोद्घातलेखनेनोपकृतवन्तः। तेभ्यः शतशो धन्यवादाः। तथा च पुण्यपत्तनस्थ-वैदिकसंशोधनमण्डले सेवां समर्प्य इदानीं ‘वाडिया कॉलेज’ इत्यत्र संस्कृतप्राध्यापकाः पीएच्. डी. पदवीविभूषिताः याज्ञिकचूडामाणः ‘डॉ. विद्याधर विश्वनाथ भिडे’ महोदयाः संस्कारादिकाण्डत्रयस्य मुद्रणसंशोधनेन तत्र तत्र सूचनाप्रदानेन च साहाय्यं दत्तवन्तः तदर्थं ते धन्यवादार्हाः। विद्यापीठस्य सदस्येष्वन्यतमाः ‘वे. कृष्ण रामचन्द्रभट्ट हिरे’ महाभागाः अहोरात्रमविरतपरिश्रममनुभूय मुद्रणप्रतिलेखनेनोपकृतवन्तः। तेषां कृतज्ञतां प्रदर्शयामः। एतदर्थे अन्येऽपि बहवो दृढाभिनिवेशवन्तः कृतज्ञताभाजो भवन्ति॥

विद्यापीठस्य लक्ष्यानुसारं संशोधनात्मकोऽयं ग्रन्थः सम्पादकमण्डलेन महता प्रयासेन विरचित इति विद्यापीठस्य सञ्चालकानामस्माकं भृशं मोदावहोऽयं विषयः॥

सिरसी ‘सहकारि’मुद्रणालयस्य व्यवस्थापकैराह्निककाण्डस्य (१३२ पृष्ठात्मकस्य) तथा पुण्यपत्तनस्थ ‘आर्यभूषण’ मुद्रणालयाधिकृतैः संस्कारकाण्ड-सङ्कीर्णकाण्ड-पितृमेधकाण्डाद्यवशिष्टानां सर्वेषाञ्च मुद्रणं समीचीनतया कारितमिति ससन्तोषं निवेदयामः। अस्य ब्रह्मकर्मसमुच्चयस्य मुद्रणे भारतशासनेन द्रव्यसाहाय्यं कृतं तदर्थं भारतसर्वकारं हृत्पूर्वकमभिनन्दामः।

अस्मिन्प्रमोदावसरे भागचतुष्टयात्मको बोधायनीयब्रह्मकर्मसमुच्चयाख्योऽयं ग्रन्थो गृहमेधिभिरितिकर्तव्यतानुष्ठेयाऽभ्युदयनिःश्रेयससाधननिरूपणपरिपूर्णो विदुषां पुरतः समुपस्थाप्यतेऽस्माभिः।

यस्तर्कैरनुमीयते न कुहकैः शुष्कर्वचोजृंभणैः।
सत्कर्माचरणैस्तु भावविवशैर्योऽन्विष्यतेऽन्तर्बुधैः॥
योऽस्मांश्चोदितवान्प्रयोगकलने गोकर्णधामा विभुः।
सांनिध्ये विनिवेद्यते कृतिरियं तस्यैव सम्प्रीतये॥
समस्तशुभसंक्रमः स्मरजयेऽप्यजातः श्रमः।
मुहुः प्रकटसंयमस्त्रिपुरदाहदीर्घोद्यमः॥
पुलस्त्यसुतबाहुविक्रममदापहारक्षमः।
सदाऽवतु महाबलो गलविलीनहालाहलः॥

कार्तिक शुक्ल प्रतिपदि। शाके १८९२

गायत्रीत्युपाह्वो नारायणात्मजः सांबशर्मा अध्यक्षः श्री मेधा-दक्षिणामूर्ति-संस्कृत-विद्यापीठः, गोकर्ण