मानसतरङ्गिणीकृत् - टिप्पनी
The modern taittirIyaka-s have a remarkable sUkta known as the AyuShya-sUkta. It is somewhat metrically irregular and has pseudo-accents. It is probably the first extant H text to call on a group of goddesses reminiscent of the mAtR^i-s of later tAntrika tradition.
Its opening verse features the verb “ujjahAra” which is not typical of core Vedic corpus. While accents were vanishing or losing regularity in the later yajus tradition, this sUkta has entirely descended into pseudo-accents.
This makes us suspect it was not originally a text of the yajus tradition at all, and the pseudo-accents were added onto text that was acquired without accents from a tradition external to it. The internal evidence of the sUkta suggests that it was likely from a lost AV text.
One candidate is the AV AraNyaka which was at least partly known down to the time of shaMkarAcharya. He cites the abhichArika incantation that opens it (though memory of that continues among atharvan-s and is deployed while opening certain abhichArika rites).
विश्वास-प्रस्तुतिः
+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्ति-वासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥
मूलम्
+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥
विश्वास-प्रस्तुतिः
+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात् ।
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥
मूलम्
+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात् ।
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥
विश्वास-प्रस्तुतिः
ब्रह्म-ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तम् आयुषे वर्धयामो घृतेन ॥ ३ ॥
मूलम्
ब्रह्म ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तमायुषे वर्धयामो घृतेन ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रियं लक्ष्मीम् औबलाम् अम्बिकां गां
षष्ठीं च याम् इन्द्र-सेनेत्य् उदाहुः ।
तां विद्यां ब्रह्म-योनिँ सरूपाम्
इहायुषे तर्पयामो घृतेन ॥ ४ ॥
मूलम्
श्रियं लक्ष्मी-मौबला-मम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनिँ सरूपामिहायुषे तर्पयामो घृतेन ॥ ४ ॥
विश्वास-प्रस्तुतिः
दाक्षायण्यः सर्व-योन्यः स-योन्यः
सहस्रशो विश्वरूपा विरूपाः ।
स-सूनवः स-पतयः स-यूथ्या
आयुषेणो घृतम् इदं जुषन्ताम् ॥ ५ ॥
मूलम्
दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
दिव्या गणा बहु-रूपाः पुराणा
आयुश्-छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन
मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ६ ॥
मूलम्
दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ६ ॥
विश्वास-प्रस्तुतिः
एकः पुरस्तात् य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यम् अप्य् एति भुवनँ साम्पराये
स नो हविर् घृतम् इहायुषे ऽत्तु देवः ॥ ७ ॥
मूलम्
एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनँ सा॑म्पराये स नो हविर्घृत-मिहायुषे॑त्तु देवः ॥ ७ ॥
विश्वास-प्रस्तुतिः
वसून् रुद्रान् आदित्यान् मरुतोऽथ साध्यान्
ऋभून् यक्षान् गन्धर्वाँश् च पितॄँश् च विश्वान् ।
भृगून् सर्पाँश् चाङ्गिरसोऽथ सर्वान्
घृतँ हुत्वा स्वायुष्या महयाम शश्वत् ॥ ८ ॥
मूलम्
वसून् रुद्रा-नादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाग्श्च
पितॄग्श्च विश्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसोऽथ सर्वान् घृतँ हुत्वा स्वायुष्या महयाम
शश्वत् ॥ ८ ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्स॑न्दुह्रते॒ अक्षि॑तम्॥
भट्टभास्कर-टीका
मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्स॑न्दुह्रते॒ अक्षि॑तम्॥
भट्टभास्कर-टीका
मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥
मूलम् (संशयास्पद-स्वर-सहितम्)
यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः॑ पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥
विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ २ ॥
ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ ३ ॥
श्रियं लक्ष्मी-मौबला-मम्बिकां॒ गां॒ ष॒ष्ठीं च या॒मिन्द्रसेने॑त्युदा॒हुः ।
तां विद्यां ब्रह्मयोनिँ॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ ४ ॥
दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम् ॥ ५ ॥
दिव्या गणा बहुरूपाः॑ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाँ रीरिषो मो॑त वी॒रान् ॥ ६ ॥
ए॒कः॒ पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनँ सा॑म्परा॒ये॒ स नो हविर्घृत-मिहायुषे॑त्तु दे॒वः ॥ ७ ॥
व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाग्श्च
पितॄग्श्च वि॒श्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒तँ॒ हु॒त्वा स्वायुष्या महया॑म
श॒श्वत् ॥ ८ ॥
विष्णो॒ त्वं नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य । प्रते॒धारा॑ मधु॒श्चुत॒
उत्सं॑ दुह्रते॒ अक्षि॑तम् ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥