अथ चतुर्थप्रश्ने द्वादशोऽध्यायः
अथ गृहस्थस्य विद्यार्थिनस्त्रियाऽभ्यनुज्ञातस्य
ऋतुसंवेशनविच्छेदप्रायश्चित्तं व्याख्यास्यामः १
वसन्तो ग्रीष्मो वर्षाश्शरद्धेमन्तश्शिशिरेणर्तुकालमुक्त्वा
ब्राह्मणेभ्यो निवेदयित्वा चीर्णव्रतान्तेनाथ प्रदोषे
देवयजनमुदानयति २
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा
पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोऽनुवाक्यामनूच्य यस्मै
त्वं सुकृते जातवेदः इति याज्यया जुहोति ३
अथाज्याहुतीरुपजुहोति मधुश्च
स्वाहा । माधवश्च स्वाहा इत्याऽन्तादनुवाकस्य ४
स्विष्टकृत्प्रभृति
सिद्धमाधेनुवरप्रदानात् ५
अपरेणाग्निं
आज्यशेषमुदकशेषं चोभौ जायापती प्राश्नीयाताम् ६
ऋतुसंवेशनविच्छेदप्रायश्चित्तं व्याख्यातम् ७
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वादशोऽध्यायः