अथ चतुर्थप्रश्ने एकादशोऽध्यायः
अथ गृहमेधिनो ब्रह्मचारिणश्चानुगतेऽग्नो
कालातिक्रमे होमयोर्दर्शपूर्णमासयोश्चाग्रयणेनानिष्ट्वा
नवान्नप्राशनाज्यस्कन्नावधूतहीनमन्त्राधिककर्मणश्चाकृतसीमन्तायां
प्रसूतायां भार्यायां स्त्रीषु गोषु यमलजनने रजस्वलाऽभिगमने पतितसम्भाषणे
दिवामैथुने शूद्राऽभिगमने स्वप्नान्ते रेतस्स्कन्दने उदके
मूत्रपुरीषकरणे कुमारस्य
जातस्यासंस्कारेऽकृताग्निसंसर्गे
देवताविपर्यासे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणश्च
व्रतविपर्यासे मेखलायज्ञोपवीतस्योच्छेदने
कृष्णाजिनस्याधारणे कमण्डल्वधारणे दण्डभङ्गे
सन्ध्यालोपेऽग्निकार्यलोप उदकुम्भलोपे भिक्षाचरणस्वाध्यायलोपे
शुश्रूषालोपे एतैश्चान्यैश्चानाम्नातेषु प्रायश्चित्तम् १
अग्निमुपसमाधाय
सम्परिस्तीर्य प्रायश्चित्तं जुहोति पाहि नो अग्न एनसे स्वाहा । पाहि नो
विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो
स्वाहा । पाहि नो अग्न एकया । पाह्युत द्वितीयया । पाहि
गीर्भिस्तिसृभिरूर्जां पते । पाहि चतसृभिर्वसो
स्वाहा इति २
पुरस्ताच्चोपरिष्टाच्च सानुक्रमणं
यथाऽनुपूर्वकरणमविच्छिन्नं सन्ततं भवतीति ३
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने एकादशोऽध्यायः