१०

अथ चतुर्थप्रश्ने दशमोऽध्यायः

अथ यदि होमकालेष्वग्निरुद्वातस्स्यात् सर्वं तत् अपहताः इति प्रोक्ष्य स्थण्डिलमुद्धृत्याग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वतीः मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति १
अथ यद्युपनयनाग्निर्विवाहाग्निर्जातकाग्निश्श्मशानाग्निराचतुर्थादादशाहादासञ्चयनादुद्वातस्स्यात् अपहता असुराः इति प्रोक्ष्य क्षिप्रं भस्मसमारोहणम् । अयं ते योनिरृत्वियः इति समिधि समारोप्य लौकिकमग्निमाहृत्य समिधमादधाति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम् २ सम्परिस्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति बोधायनः ३

इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने दशमोऽध्यायः