०९

अथ चतुर्थप्रश्ने नवमोऽध्यायः अथातस्सप्तपाकयज्ञानां प्रायश्चित्तसमुच्चयं व्याख्यास्यामः १
हुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञानां न प्रयाजा इज्यन्ते नानूयाजाः न सामिधेनीः २
अन्वाहतेषु कर्मस्वग्निमुपसमाधाय सम्परिस्तीर्य यत्र यत्र दर्वीहोमं कुर्यात्तत्रतत्र चरुं समवदाय जुहोति ३
सर्वत्र स्कन्ने भिन्ने छिन्ने क्षामे विपर्यासे उद्दाहे ऊनातिरिक्ते पवित्रनाशे पात्रभेदे द्वे मिन्दाहुती जुहोति ४ मक्षिकैर्मशकैर्वा रोमभिः पिपीलिकैर्वा व्यापद्येत प्रजपतये होमं कुर्यात् ५ व्यापन्नमाज्यमव्यापन्नमन्तर्हितमनाज्ञातप्रायश्चित्तं यज्ञसमृद्धीर्जुहोति ६
अन्तरागमने प्रायश्चित्तं दशहोतारं चानुख्यां च जुहोति ७
अन्तर्हृते प्रायश्चित्तं चतुर्होतारं चानुख्यां च जुहोति ८
मण्डूकसर्पमूषिकमार्जारान्तरागमने प्रायश्चित्तं पञ्चहोतारं चानुख्यां च जुहोति ९
विकृतरूपे विकृतशब्दे विस्फुटे प्रायश्चित्तं शंयुवाकं चानुख्यां च जुहोति १० अनादिष्टं सर्वप्रायश्चित्तं व्याख्यातं वारुणीमिति निर्दिशेत् ११
संस्कारान्तेऽग्नावुत्सन्ने तद्भस्मसमारोपणं समिधं वा यदि नोपविन्देद्याज्ञिकं वा प्रायश्चित्तं महाव्याहृतीः प्रणवं मनस्वतीं च जुहोति १२
स्वराक्षरपदवृत्तभ्रेषेषु आभिर्गीर्भिः इति १३
सर्वत्र पाकयज्ञानां सदस्येभ्यो धेनुमृषभमनड्वाहं दद्यात् १४
सदस्यास्सर्वप्रायश्चित्तानि प्रतिनिधींश्च बोधयिष्यन्तीति १५

इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने नवमोऽध्यायः