अथ चतुर्थप्रश्ने अष्टमोऽध्यायः
अथ प्रायश्चित्तानि व्याख्यास्यामः भग्ननष्टदुष्टविपरीतस्फुटितद्विजश्वबिडालकाकखरमृगपशुपक्षिसरीसृपाणामन्यत्कीटो वा ऋत्विजोऽग्नीनन्तरा गच्छेत् दुर्गा मनस्वती महाव्याहृतीस्तिस्रस्तन्तुमतीर्जुहुयात् सैव ततः प्रायश्चित्तिः १
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने अष्टमोऽध्यायः