अथ चतुर्थप्रश्ने सप्तमोऽध्यायः
अथ विपरीतदर्भास्तरणपवित्रकरणपात्रसादनप्रोक्षणीसंस्कारब्रह्मप्रणीताहविर्निर्वापणआज्यसंस्कार स्रुक्सम्मार्जनपरिधिपरिषेचन इध्माभ्याधानविपरीतेषुप्रायश्चित्तं ततं म आपः यत्पाकत्रा मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति बोधायनः १
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने सप्तमोऽध्यायः