अथ चतुर्थप्रश्ने षष्ठोऽध्यायः
अथ गर्भाधानपुंसवनसीमन्तोन्नयनविष्णुबलिजातकर्मनामकरणोउपनिष्क्रमणअन्नप्राशनचोलउपनयनादि
कार्यं न करयेदिति समानं कर्म । तत म आपः यत्पाकत्रा मनस्वती मिन्दाहुती
महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति १
कालातिक्रमे
प्रधानादौ द्वे द्वे मिन्दाहुती जुहुयादिति २
व्याहृतिर्पूर्वकं चेति
सर्वेषां समानमाचार्यां ब्रुवते ३
तत्रोदाहरन्ति पक्वं सौविष्टकृतमाज्यं
प्रणीताप्रणयनं ब्राह्मणमिध्माबर्हिरेकमिति विज्ञायत इति हि
ब्राह्मणमिति हि ब्राह्मणम् ४
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने षष्ठोऽध्यायः